पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (१) क्षत्रियादयो निर्धना न बेन्धनेनावसादयितव्याः। कि तर्हि ? कर्मणा यद्यस्योचितं कर्म राजोपयोगि तेन दण्डधनं संशोधयितव्याः । ब्राह्मणस्तु कुटुम्बानामविरो धेन शनैर्दाप्यो, चन्धताडनकर्मणी तस्य निषिध्येते । धनिकविषयः प्रागुक्तः श्लोकः । दण्डविषयोऽयमपौनरु- क्त्यम् । मेधा. (२) आनृण्यं दण्डापक्रियाम् । मवि. (३) ब्राह्मणः पुनः यथालाभं क्रमेण दयान्न कर्म कारयितव्यः । ममु. 'स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम् ।। (१) कर्मकरणेऽप्यसमर्था दरिद्रा एव गृह्यन्ते । महापातकिनां साम्यात्तच्छिफादिभिस्ताडनम् । शिफा लता | विदलं वृक्षत्वक् । मेधा. (२) स्त्रीबालादीनां पुनः शिफावेणुदलप्रहाररज्जु- बन्धनादिभिर्दमनं राजा कुर्यात् । ममु. ब्राह्मणविरोधिनस्तीवइण्डः ब्राह्मणान्बाधमानं तु कामादवरवर्णजम् । हन्याचित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ अवरवर्णजः शूद्रः । बाधनं धनाद्याहरणं शरीरोप- पीडनं च । चित्रा विविधोपायाः शूलारोपणं रक्तच्छेदः अङ्गकल्पनं खड्गप्रहारकर्तृका इत्याद्याः । उद्वेजनकरै- दीर्घकालपीडाकरैः । मेधा. महापातकिदण्डविचारः ब्रह्महा च सुरापश्च तस्करो गुरुतल्पगः । एते सर्वे पृथक् ज्ञेया महापातकिनो नराः ॥ (१) मस्मृ. ९|२३ ०; स्मृच. १२४ शिफा (शिफां); विर. ६५८; पमा २०९; दवि.६०; नृप्र. १७ पू.; बाल. २ | २०३ णां च ( णाम); सेतु. ३१४; प्रका. ७८; समु.६७ णां च (नाथ). (२) मस्मृ. ९ | २४८; विर.६५४ णान् बाधमानं तु (णं बाधमानस्तु) जनकरै (गजनकै); पमा ५८२ रुद्वेजन (स्तमु द्वेग); दवि.६२ जनकरै (गजनकै); सेतु. २९७ दविवत् ; समु. १५९ चित्रैः (चित्र). (३) मस्मृ. ९।२३५ तस्करो (स्तेयी च); स्मृच. ३२४ शेया (बध्या); विर.६३४; दवि.४६; सवि.४७४ स्मृचवत् ; १ संबन्धेना. २ दमः कर्मकरणे. सुरापो ब्राह्मण एव महापातकी ।" तस्करों ब्राह्मण- सुवर्णापहारी । न यः कश्चित् । उक्तार्थकथनमुत्तरार्थम् । मेधा. चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्य प्रकल्पयेत् || ननु च सुरापो ब्राह्मण एव पातकी । तस्य च शरीरसंयुक्तो दण्डो नास्ति 'न शारीरो ब्राह्मणो दण्ड' इति । तत्र चतुर्णामपीति कथं ? केचिदाहुः । पतितः संप्रयुक्तो गृह्यते पूर्वमनुपात्तोऽपि, चतुःसंख्यासामर्थ्यात् । अन्ये त्वङ्कनं शरीरसंयुक्तमित्याहुः तच्च ब्राह्मणस्याप्यस्ति । अन्ये त्वपिशब्दात्पञ्चानामयं दण्ड इत्याहुः । चतुर्णा - मपि । अपिशब्दात्पञ्चमस्यापि तत्संसर्गिणः, ब्राह्मणस्य वधे पूर्वत्र शरीरदण्ड उक्त एव, स्त्रीबालब्राह्मणघ्नांश्च न्यादिति । अनेनान्तःशरीरयुक्तमङ्कनमेवोच्यते । धर्म्य- मिल्यपराधानुरूपेण गुरुतरलाघवं कार्यमित्यर्थः । मेधा. गुरुतल्पे भगः कार्य: सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान् || ललाटाङ्कनमप्रतिषेधविधौ, 'नाङ्ख्या राज्ञा ललाटेषु' इति तच्छ्रवणात् मेधा. बाल. २।२६, २७८१ मस्मृवत्; सेतु. ३२६ पश्च (पी च); समु.१५७ स्मृचवत्. (१) मस्मृ. ९|२३६; मिता. २१८१ चैतेषां (वर्णानां); अप. २।२७० शारीरं (शरीर) कल्पयेत् (कल्पितं); स्मृच. १२४ धर्म्य (धर्म) शेषं मितावत् ; विर.६३४ शारीरं (शरीर) दण्डं धर्म्यं (धर्म्यं दण्डं); पमा. २०८ चैतेषां (वर्णानां ) शारीरं (शारीर) कात्यायन: ; दवि.२७० मितावत् स्मृतिः; नृप्र. १७ दण्डं धर्म्य (धर्म्यं दण्डं ) शेषं मितावत् ; सवि. १५१ मितावत्, स्मरणात्; विता.८७ (=), १८७ मितावत् ; बाल. २।२६,२१८१; प्रका.७८ मितावत् ; समु.६८ नृप्रवत्. (२) मस्मृ. ९ | २३ ७; मिता. २।२७०; अप. २।२७० च (तु ); भा. १२९४४ च (तु) कार्य (कार्यो) ब्रह्महण्य (ब्रह्म- नस्त्व); गौमि.१२॥४४ तु (च); मवि ब्रह्महण्यशिराः (अब्रह्मण्ये शिरा: ); विर. ६३५ अपवत् ; पमा ४४५; विचि. १८३ श्वपदं ( श्वापदं); नृप्र. ४२; सवि.४६७; ब्यप्र. ३९०; व्यउ. १२८ ; विता. ७९२-७९३ अपवत् ; सेतु. ३२६ अपवत. १ मुत्तरार्धम् २ च कर्तनं.