पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका Xबिश्व.१।३५० | प्रकोपौ, तस्माद् यत्नो दण्डप्रणीतौ कार्य इत्यभिप्रायः । विश्व. १।३५२ (२) स दण्ड: शास्त्रोक्त मार्गेण प्रयुज्यमानः सन् देवासुरमानवैः सहितं इदं सर्व जगदानन्दयेत् हर्षयेत् । अन्यथा शास्त्रातिक्रमेण प्रयुक्त श्वेज्जगत्प्रकोपयेत् । मिता. अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ (१) यतश्चैतदेवं, अतः - अधर्मदण्डनमिति । लोकः परराष्ट्रप्राप्तिः स्व राष्ट्रस्थैर्य च । स्पष्ठमन्यत् । विश्व. १३५३ (२) न केवलमधर्मदण्डेन जगत्प्रकोपः अपि तु प्रयोक्तुर्दृष्टादृष्टहानिरपीत्याह -अधर्मदण्डनमिति । यः पुनः शास्त्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतु. त्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्त्रोक्तमार्गेण तु कृतो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति । मिता. यो दण्ड्यान् दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत्। इष्टं स्यात्ऋतुभिस्तेन सहस्रशतदक्षिणैः ॥ ( १ ) एवं चालोच्य - यो दण्ड्यान्दण्डयेदित्यादि । ऋत्वर्थहिंसावच्चोरादिहिंसापि धम्र्यैवेत्यभिप्रायः । सहस्र- शतदक्षिणो राजसूयः । ऋतुबहुत्वाद् बहुवचनम् । यद्वा शतदक्षिणा अग्निष्टोमादयः । सहस्रदक्षिणा अभि- जिदादयः । स्पष्टमन्यत् विश्व. १ । ३५५ इत्यादि । (२) तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्त. परदारपरद्रव्यापहारिहिंसकादिषु नृपो दण्डं पातये- त्प्रयोजयेत् । हि यस्माद्धर्म एव दण्डरूपेण पूर्व ब्रह्मणा निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा - 'दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्' इत्यादिगौतमस्मर णात् । मिता. (३) अलुब्धेन न्यायधनव्ययकारिणा कृतबुद्धिना बृद्धसेवाविद्यागमाभ्यां लब्धप्रज्ञेन सत्यसंधेन सत्यसंक- ल्पेन शुचिना शुद्धोपधेन बाह्याभ्यन्तरशौचवता च सुसहायेन शास्त्रोक्तगुणगणयुक्त मन्त्रिप्रभृतिसहायवता धीमताऽधिगतार्थानुचिन्तनवता स दण्डो न्यायतो यथा- शास्त्रं नेतुं प्रणेतुं शक्यो भवति न पुनरन्येन । #अप. कीदृशो राजा दण्डधारणाई: सं नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ (१) यतश्चैवरूपो दण्डः – न स नेतुमित्यादि । केन तर्हि शक्यः – सत्यसंधेनेत्यादि । विश्व. १।३५१ (२) स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं शक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह -सत्य- संघेनाप्रतारकेण | शुचिना जितारिषड्वर्गेण । सुसहायेन पूर्वोक्तसहायसहितेन | धीमता नयानयकुशलेन स दण्डो न्यायतो धर्मानुसारेण नेतुं शक्यः | मिता. यथाशास्त्रदण्डप्रयोगफलम् येथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ . (१) कस्मात् पुनरयं प्रयत्नः । यस्मात् - यथाशास्त्र मित्यादि । यस्माद् दण्डाधीनौ जगतः कृत्स्नस्यानन्द X अप. विश्ववत् । * वीमि. अपवत्पाठमादृत्य ग्याख्यानम् । (१) यास्मृ. ११३५५; विश्व ११३५१ स नेतुं न्यायतो (नस नेतुमतः); मिता; अप. १।३५३ तोऽशक्यो लुब्धेना (त: शक्योsलुब्धेन); वीमि. अपवत्. (२) यास्मु. १।३५६; विश्व . १ | ३५२ सर्व ( कृत्स्न) तत् (तु) ३ मिता; अप. १।३५४ तत् (तु); स्मृच. १२८; सवि. ४७; वीमि. नवम् (नुषम् ) ; प्रका.८१) समु. ७०. (१) यास्मृ. १३५७; विश्व. १ ३५३ ( अधर्मदण्डनं लोकस्वर्गकीर्तिबिनाशनम् ); मिता.; अप. १।३५५ (अधर्म- दण्डनं स्वर्गकीर्तिलोकविनाशनम् ); स्मृच. १२८ कविनाशनम् (कांश्च नाशेयत् ); विर.६४९ ( अधर्मदण्डनं लोके धर्म- कीर्तिविनाशनम् ) तु (च); दवि.८ तु दण्डनं ( दण्डयनं ) उत्त.; वीमि. अपवत् ; सेतु. ३०० (= ) (अधर्मदण्डनं लोभ- करं कीर्तिविनाशनम् ) तु (च); प्रका.८१ स्मृचवत्; समु. ७० स्मृचवत. (२) यास्मृ. १ ३५९; विश्व. १।३५५; मिता. सहस्रशत (समाप्तवर ) ; व्यमा २७८ वभ्यांश्च (दण्ड्यांश्च); अप. १।३५७ मितावत् ; स्मृच. २६; विर. ६४९ वभ्यांश्च घात (भव्यांश्च पाल); व्यचि. १; दवि.८ दण्ड्यान् (दण्डयं); सवि. १५ वभ्यांच घात ( दण्ड्यांश्च पाल ) शेषं मितावत् ; बीमि.; सेतु. १०० दण्ड्यान् ( दण्डधं ) वभ्यांश्च घात (साधूंश्च पाल); प्रका. १४ | सह (साइ); समु. ४५; विष्य. २ व्यमावत, क्रमेण बृहस्पतिः