पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ (१) मारणं चेद्वधः किं तदन्यद्येन शक्यते । कथं- चनैनं पापं निगृह्णीतेत्यादिपरुषवाक्यपूर्व दुर्विनीतेषु धन- दण्डवधौ समुच्चेतव्यौ । कृतेऽपि शरीरदण्डे यदि नाव- तिष्ठते ततो न 'कृतनिग्रह' इत्युत्सृजेदपि तु स वधदण्ड: कर्तव्यः । धनवधदण्डयोश्च पुनःप्रवृत्त्यर्थोऽयमारम्भः वाग्दण्डधिग्दण्डौ मृदुत्वात्कः पृच्छति । धनेन च निर्गृहीतस्य पुनर्वधो दृष्टो ‘ऽङ्गुलीग्रन्थिभेदस्थेति’ । मेधा. (२) सर्वमेवैतद्दशविधं दण्डं प्रागुक्तं वाग्दण्डादि- त्र्यं च । मवि. अधार्मिकं त्रिभि र्यायैर्निगृह्णीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च । । अर्थवादैर्दृढीकृत्य निग्रहविधिमिदानीं प्रस्तौति । अधार्मिकं प्रकरणाच्चौरः तं त्रिभिर्नियमनप्रकारै- र्निगृह्णीयान्नियच्छेत् । न्यायो नियामकः । निरोधनं राज- दुर्गे बन्धनागारे वैन्धः चरणबन्धस्तत्रैव रज्जुनिगडादि- भिरस्वातन्त्र्योत्पादनं विविधो वधस्ताडनादारभ्य शरीर- माशनात् प्राणत्यागपर्यन्तः निर्देशादेव त्रित्वे लब्धे त्रिभिरिति वचनमन्येषामपि नियमनप्रकाराणां परिग्रह णार्थम् । तेन तप्ततैलसेकादयोऽपि परिगृहीता भवन्ति । मेधा. बैन्धनानि च सर्वाणि राजमार्गे निवेशयेत् । दुःखिता यत्र दृश्येरन्विकृताः पापकारिणः ॥ (१) प्रसिद्धे राजरथ्याप्रदेशे बन्धगृहाणि संनिवेश येत् कुर्यात् । दुःखिता यत्र दृश्येरन्नित्यन्यत्रापि संनिवे- शनं तत्प्रदेशभ्रमणं दर्शयति । एतेनान्या अपि बन्ध- संस्थामां पीडाः कर्तव्या इत्याह । शरीरात्यन्तकाद्य- (१) मस्मृ. ८।१३०; अप. २।२६ वधे (धने) यदा (गथा ) श्वेता (स्तेना) तदैषु (तदैष); स्मृच. १२५; विर. ६३० त्वेतान् (त्वेनं ) देषु (दैव) मध्ये (मेवै); दवि . ६३ शक्नुयात् (शक्यते) दैषु (देषु) शेषं विरवत्; बाल. २ | २६; प्रका. ७९; समु.६८. (२) मस्मृ.८।३१०; विर.६३० यात् (त); स्मृचि. २५ निरोधनेन (रोधनेन च); समु. ६९ कं (कान्). ( ३ ) मस्मृ. ९।२८८ राज (राजा); विर. ६३० राजमार्गे

  • (वामा वि) ; समु.६९ दृश्येरन् ( दृश्यन्ते ).

१ गृहीतस्य. २ (बन्ध:०), ब्य. का. ७३ ५७७ वस्थान्तरापच्या विकृता अभोजनेनेद्भोजनादिना | शेषं स्पष्टम् । मेधा. (२) अन्यैरकार्यकारिभिरकार्यनिवृत्त्यर्थं दृश्येरन् । ममु. 'निग्रहेण च पापानां साधूनां संग्रहेण च । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ पापयुक्ताः पुरुषाः पापाः तेषां निग्रहः पूर्वोक्तः । यथाशास्त्रवद्वार्त्तिनः साधवः । तेषां संग्रहोऽनुग्रहो यथा- शक्त्युपकारः । तेन पूयन्ते विपाप्मानो भवन्ति प्रायश्चि- त्तेनेवेत्यर्थवादः । अथवा पापानुत्पत्तिरेव पूतत्वं ब्राह्मणा इवे सततमिज्याभिः नित्यैर्महायज्ञादिभिः । मेधा. दण्डस्थानानि धनदण्डसंग्राश्च देश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् || (१) स्थानशब्दो विषयपर्यायः । एतेः प्रदेशैः पीड- यितव्यः । प्रत्यपराधशब्देन ब्राह्मणस्य धनदण्ड विधाना- दक्षतत्वोपदेशः शरीरपीडापरिहारार्थ: कल्पते, प धनस्य दशसंख्यान्तर्भावे । वयं तु ब्रूमः समग्रधनमक्षत- मित्यत्र धनपीडाsपि निषिद्धेव ब्राह्मणस्य | तस्माद्यः सकृत्कथंचिदपराद्धः श्रुतशीलाभिजनयुक्तस्तस्य धनदण्डो- ऽपि नास्ति । तथा च गौतमस्तादृशमेव ब्राह्मणमधि- कृत्य 'द्वौ लोके धृतव्रतौ' इत्युपक्रम्य 'पड्मिः परिहार्य - श्रेत्यादि । मेधा. (२) हैरण्यगर्भो मनुर्दश दण्डस्याश्रयानुक्तवान् ये क्षत्रियादिवर्णत्रयविपये भवन्ति । ब्राह्मणं पुनर्महत्यपि अपराधे अक्षतशरीरं देशान्निर्वासयेत् । गोरा. (३) अक्षतो ब्राह्मण: पूर्वोक्तदण्डस्थानेषु अदण्डितो (१) मस्मृ. ८/३११ च पापानां (हि पापानां); स्मृच. २६ नारद:; वि.६४८ ज्याभिः (ज्यात:); स्मृचि. २५) संतु. ३००; प्रका.४३ नारदः; समु.४५ नारदः. (२) मस्मृ. ८/१२४; मिता. २२६; अप. २।२६ यानि (तानि); गौमि. १२१४३ यानि (तानि) उत्त.; स्मृच.१२३ पू. : १२४ अपबत्, उत्त.;विर. ६३०; पमा. २०५ पू.; सवि. ४९४ पू.; विता.८५ वर्णषु (दण्डेपु); प्रका. ७८ अपवत् समु. ६७ अपवत् १ क्त. २ एव.