सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७६ व्यवहारकाण्डम् सुहृत्स्वजिहाः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलविन्दुरिवाम्भसि || अतस्तु विपरीतस्य नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतविन्दुरिवाम्भसि ॥ स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः । वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ निमित्त विशेषेण दण्डतारतम्यं, दण्ड्यादण्ड्य विवेककर्तव्यता च अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधौ चालोक्य दण्डं दण्डयेषु पातयेत् ॥ (१) उक्तानुक्तदण्ड्येष्वपराधेषु मातृकाश्लोकोऽयम्। एतदर्थानुसारेण सर्वत्र दण्डक्लृप्तिः कर्तव्या । तत्र पौनः- । माहासीदिति । पुन्येन प्रवृत्तिरनुबन्धः प्रवृत्तिकारणं वा । अनुबध्यते प्रयुज्यते येन तस्मिन्कर्मणि तं परिज्ञाय, किमयमात्म- कुटुम्बक्षुदवसायेन धर्मतन्त्रसङ्गेन वा, अथ मद्यद्यूतादि- शौण्डतया, तथा प्रमादाद्बुद्धिपूर्व वा परप्रयुक्तः स्वेच्छया वेत्यादिरनुबन्धः । देशो ग्रामारण्यगृहैजल- जन्मप्रसवभूम्यादिः । कालो नक्तं दिवादिः सुभिक्षदुर्भिक्ष- बाल्ययौवनादिः । सारः शक्त्यशक्ती आढ्यत्वदारिद्ये । अपराधोऽष्टादशानां पदानामन्यतमः । एतत्सर्वे पौर्वापर्येण निरूप्य तथा दण्डं पातयेत्कुर्याद्यथा स्थितिः सांसारिकी न भ्रश्यतीति । xमेधा. मवि. (२) अपराधं न्यूनाधिकम् । • अंधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । अस्वयं च परत्रापि तस्मात्तत्परिवर्जयेत् ।। (१) अधर्मप्रधानदण्डनं च पूर्वोक्तमनपेक्ष्यं दण्डशास्त्रमा राजेच्छया रागद्वेपादिभिर्वा, तद्यशोनाशक कीर्तेश्च विच्छेदकं, स्वदेशे गुणख्याति र्यशः, देशान्तरे कीर्तिः, जीवतो वा अर्वाकालिकं यशः x गोरा., ममु. मेधावत् । (१) मस्मृ.८।१२६; स्मृच.१२७ लोक्य (लोच्य); विर. ६२७ देशकालौ (कालदेशौ); दवि. ६५; प्रका.८० स्मृचवत्; समु.६९ स्मृचवत्.

(२) मस्मृ. ८ | १२७; विर.६४९; दवि.५ पू.; समु.

३९ अधर्म (अदण्ड्य). १ करणं. २ क्त ३ ग्रह. ४ भूमादि: ५ क्ष्येदं शा. उत्तरकालिकी कीर्तिः निर्दोषगुणवती वा कीर्तियशसी । पुण्यशब्दो यशः । अन्यो वा भेद उन्नेयः अर्थवादत्वात् । । अस्वर्ग्य स्वर्गप्राप्तौ कर्मान्तरजन्यायां प्रतिबन्धकं, परत्रा- पीति श्लोकपूरणार्थ, स्वर्गस्यामुष्मिकत्वात् । मेधा. (२) यशो बहुभिः परैर्गुणानां ज्ञानम् । कीर्ति- मवि. स्तत्कथनम् । अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्ड- यन् । अयशो महदानोति नरकं चैव गच्छति ॥ पूर्वश्लोकोऽनुबन्धादिनिरूपणविधेः शेषः । अनेन त्वनपराधानां दण्डनं प्रतिषिध्यते सापराधानां च विधीयते । वृथात्वं दण्डस्य मन्यमानोऽनुग्रहेण मेधा. वोग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतःपरम् ॥ यो गुणवानीषत्प्रथममेवापराद्धः स वाचा निर्भर्त्स्यते 'न साधु कृतवानसि मा पुनरेवं कारिति । तथा विनीयमाने यदि न निवर्तते, कोऽत्रदोष इति वा प्रति- जानीयात्तदा धिग्धिगादिशब्दैः परुषवचनैः कुत्सार्थैः क्षिप्यते । ततोऽप्य निवर्तमानो यथाशास्त्रं धनेन दण्डनीयः। तदप्यगणयन्नैश्वर्यादिना हन्तव्यः । वधदण्डश्च ताडनाङ्ग- च्छेदादि न मरणमेव । यत आह – 'वधेनापी’त्यादि ।

  • मेधा.

x गोरा., ममु, मच, भाच. मेधावत |

  • गोरा., मवि., ममु. मेधावत् ।

(१) स्मृ. ८/१२८; मिता. २०१९ चैव (चाधि); उ. २१ १११४ नरकं चैव गच्छति (प्रेत्य स्वर्गाश्च । यते); स्मृच. १५; विर.६४९ दण्ड्यान् (दण्ड्यं); पमा. ३२१ दवि.६; नुप्र. २, ५ ; सवि. १६; व्यप्र. २६; व्य. १२ (); प्रका. १९; समु. ३०. (२) मस्मृ. २।१२९; मिता. २१२६ वाग् (धिग्) धिग् (वाग्); मभा. ११३० पंडमतः (ण्डं स्वतः) शेषं मितावत् ; गौमि. ११ १२८ (=) ण्डमतः ( ण्डं ततः ) शेषं मितावत् ; स्मृय. १२६; विर.६३० तु (च); पमा. २०६ विरवत् ; दवि. ६३ मतः परम् ( मनन्तरम्); सवि.४५४ मितावत् ; प्रका. ७९; समु. ६८. १ लोके. २ न्यादीनि निरूपणविधिविशेषः, "