पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् || दण्डोत्पत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्च तंदर्थ सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ।। तेस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ 3 तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ से राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ दण्ड: शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दुण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः || समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ यदि न प्रणयेद्राजा दण्डं दण्डयष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ अद्यात्काकः पुरोडाशं श्वावलिह्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताघरोत्तरम् || संर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्व जगद्भोगाय कल्पते ॥ (१) मस्मृ.७।१४ क॰ग.घ. पुस्तकेषु तदर्थं (तस्यार्थे); विर. ६४६; विचि. २६१; दवि. ३. (२) मस्मृ. ७/१५; विर.६४६; विचि. २६१; दवि. ३ स्वधर्मान्न (धर्मान्न वि); सेतु. ३२८. (३) मस्मृ. ७।१६; विचि. २६१ तं देश (तद्देश) वर्ति (वृत्ति), (४) मस्मृ. ७/१७; विर.६४६ स्मृतः ( कृतः); विचि. २६१; दवि. ३; सेतु. २९८ (५) मस्मृ. ७।१८; विर. ६४६; विचि. २६१ एवाभि (एव हि); दत्रि. ३; सेतु. २९८ दंण्डं (दण्डे) शेषं विचिंवत् . (६) मस्मृ. ७/१९; विर. ६४७ सधृतः (स्वधृतः); विचि. २६२ सं धृतः (सुधृतः); दवि.८ पू. (७) मस्मृ. ७|२०; विर.६४८; विचि.२६३ पक्ष्यन् (इन्युः); दवि.४; सेतु. २९९ पू. (८) मस्मृ. ७/२१ घ. पुस्तके श्वाव (श्वा च); विर.६४८ वाव (वा च); विचि. २६३; दवि.४ उत्त.; सेतु. २९९ लि (ले) पू. (९) मस्मृ.७।२२; विचि.२६३ शुचिर्नरः (नरः शुचिः). ५७५ 'देवदानवगंधर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् || यंत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ।। तैस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ “तं राजा प्रणयन्सम्यक् त्रिवर्गेणाभिवर्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते || र्दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् || तँतो दुर्ग च राष्ट्रं च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥ 'सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना | न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ शुंचिना सत्यसंधेन यथाशास्त्रानुसारिणा | प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ 'स्वराष्ट्र न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु । (१) मस्मृ. ७ / २३; मभा. ११।३०; गौमि. ११।१८ (=) ल्पन्ते (लप्यन्ते); विचि. २६३ र्वा (र्व). (२) मस्मृ.७।२४; विचि. २६३ प्रकोप (प्रलोभ). (३) मस्मृ. ७७२५; विर. ६४६ दण्ड ( धर्म ) न मुझन्ति (विवर्धन्ते); विचि.२६१; सेतु. २९८ न मुह्यन्ति (विवर्धन्ते). (४) मस्मृ.७।२६; विर.६४ ७; विचि. २६२; सेतु. २९९. ( ५ ) मस्मृ. ७।२७ ख. पुस्तके कामात्मा (कामान्धो); विर. ६४७; विचि.२६२; दवि.८पू. (६) मस्मृ.७।२८; विर. ६४७; विचि. २६२; दवि. ५) सेतु. २९९. (७) मस्मृ. ७१२ ९; विर. ६४७ रिक्ष (रीक्ष); विचि. २६२ मुनीन् (ऋषीन्); दवि. ५ (ततो दुर्गच राष्ट्रञ्च मुनीन् देवांश्च पीडयेत्); सेतु. २९९ विचिवत्. ५ (८) मस्मृ. ७।३०; विर. ६४७ सोs (अ) सक्तेन (ऋक्थेषु); सक्तेन (वक्तुं व्यक्तेषु). विचि. २६२ सोs(अ); सेतु. २९९ मूढेन ( मूर्खेण ) नेतुं (९) मस्मृ. ७।३१; विर.६४७ प्रणे... सुः (दण्ड प्रण- यितुं शक्यः स); विचि. २६२ प्रणे... ण्ड: ( दण्डः प्रणयितुं शक्य:); दवि. १२ सारिणा (संधिना) शेपं विचिवत्। सेतु. २९९ विरवत् (१०) मस्मृ. ७/३२-३५.