५७४ व्यवहारकाण्डम् अनुग्रायाः, निमित्तविशेषेण दण्डविशेषतारतम्यं, अदण्ड्यदण्डने राजदण्डः । . पुरुषापराधविशेषेण दण्डविशेषः कार्यः । तीर्थकरस्तपस्वी व्याधितः क्षुत्पिपासाध्वकान्त- स्तिरोजनपदो दण्डखेदी निष्किचनश्चानुग्राह्याः । पुरुषं चापराधं च कारणं गुरुलाघवम् । अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च ॥ उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि । राज्ञश्च प्रकृतीनां च कल्पयेदन्तरास्थितः ॥ अदण्ड्यदण्डने राज्ञो दण्डस्त्रिंशद्गुणोम्भसि | वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् || तेन तत् पूलते पापं राज्ञो दण्डापचारजम् । शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥ तस्मात् समाप्तकरणं नियमयेत् । मन्दापराधं बालं वृद्धं व्याधितं मत्तमुन्मत्तं क्षुत्पिपासाध्वक्लान्तमत्याशितमामकाशितं दुर्बलं वा न कर्म कारयेत् । आप्तदोषं कर्म कारयेत् । न त्वेव स्त्रियं गर्भिणीं सूतिकां वा मासावर- प्रजाताम् । स्त्रियास्त्वर्धकर्म | वाक्यानुयोगो वा । दण्डकमंभेदाः , व्यावहारिकं कर्मचतुष्कं - - षड् दण्डाः, सप्त कशाः, द्वावुपरिनिबन्धौ, उद्कनालिका च । परं पापकर्मणां नववेत्रलताद्वादशकं द्वावरुवेप्रौ, विंशतिर्नक्तमाललताः, द्वात्रिंशत् तलाः, द्वौ वृश्चिक- बन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागू- पीतस्य, एकपर्वदहनमङ्गुल्या:, स्नेहपीतस्य प्रताप- नमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या चेत्यष्टा- दशकं कर्म । तस्योपकरणं प्रमाणं प्रहरणं प्रधारण- मवधारणं च खरपट्टादागमयेत् । दिवसान्तर- मेकैकं च कर्म कारयेत् । ब्राह्मणस्य वधातिरिक्तो दण्ड: सर्वापराधेष्वपीडनीयो ब्राह्मणः । तस्याभि- शस्ताको ललाटे स्याद् व्यवहारपतनाय । स्तेये (१) कौ. ३१२०. (२) कौ. ४.१०. (३) कौ. ४ | १३. (४) कौ.४८. (५) कौ.४८,
श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने
- मद्यध्वजः ।
ब्राह्मणं पापकर्माणमुद्घष्याङ्ककृतव्रणम् । कुर्यान्निर्विषयं राजा वासयेदाकरेषु वा ॥ एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः । समाः सर्वेषु भावेषु विश्वास्या लोकसंप्रियाः ॥ मनुः रक्षणार्थ सर्वदेवमयो राजा निर्मितः
- रोजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
संभवश्व यथा तस्य सिद्धिश्च परमा यथा ॥ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि | सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् || अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजलप्रभुः ॥ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृय शाश्वतीः ।। यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ तपत्यादित्यवचैष चक्षूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् || सोऽग्निर्भवति वायुश्च सोऽर्क: सोमः स धर्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ।। बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ एकमेव दहत्यग्निर्नरं दुरुप सर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् || कार्य सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः | कुरुते धर्मसिद्धयर्थ विश्वरूपं पुनः पुनः ॥ यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः ।
- इत आरभ्य 'स्वे स्त्रे धर्मे' इत्यन्तं ( मस्मृ. ७/१-३५)
व्याख्यानसंग्रहो न कृतः स राजनीतिकाण्डे द्रष्टव्यः । (१) कौ. ३२०. (२) मस्मृ.७।१-१३.