पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'अपराधानुरूपं च दण्डं दण्डश्रेषु दापयेत् । सम्यग्दण्डप्रणयनं कुर्यात् । दण्डमातृका द्वितीयमपराधं न स कस्यचित्क्षमेत । स्वधर्ममपालयन्नादण्डयो नामास्ति राज्ञः । ' अदण्डयौ मातापितरौ स्नातकश्च पुरोहितः । परिव्राजकवानप्रस्थश्च । अपराधेषु चान्येषु ज्ञात्वा जातिं धनं वयः । दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥ दण्ड्यं प्रमोचयन्दण्डथाद्विगुणं दण्डमावहेत् । नियुक्तचाप्यदण्डयानां दण्डकारी नराधमः ॥ "यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः । प्रजास्तन्त्र विवर्धन्ते नेता चेत्साधु पश्यति ॥ स्वराष्ट्रे न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु । सुहृत्स्वजिल: स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ एवं वृत्तस्य नृपतेः शीलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि || प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः । स कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते || ब्राह्मणस्य वधातिरिक्तो दण्ड: ६ ' अथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्याः | न शारीरो ब्राह्मणस्य दण्डः । स्वदेशाद् ब्राह्मणं कृताङ्कं विवासयेत् । तस्य च ब्रह्महत्यायामशिरस्कं पुरुपं ललाटे कुर्यात् । सुराध्वजं सुरापाने । श्वपदं स्तेये । भगं गुरुतल्पगमने । अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं विवासयेत् । उद्देशतस्ते कथितो धरे दण्डविधिर्मया । सर्वेषामपराधानां विस्तरादतिविस्तरः || यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । (१) विस्मृ. ३१६५-६६. (२) विस्मृ. ३।६७; विर.६२८ यमपराधं (येऽपराधे) (स्वधं ... राज्ञः०). (३) सवि.४७. . (४) विस्मृ. ५/१९०-१९१; समु. ६९ अपराध चा (आग:सु च तथा ) संमन्त्र्य (सामन्त). (५) विस्मृ. ३।६७-७०. (६) विस्मृ. ५/१३. (७) विस्मृ. ५/४-७; विर.६३६. (८) विस्मृ. ५/८;समु. ६७ (वध्ये कर्मणि तिष्ठन्तं समग्रधन- मक्षतं प्रवासयेत् ). (९)विस्मृ. ५/१८९.(१०) विस्मृ. ५१९२. न साहसिकदण्डघ्नौ स राजा शकलोकमाकू ।। शङ्खः शङ्खलिखितौ च दण्ड संशाः चतुर्विंशतिरेकनवतिः प्रथमसाहसः, द्विशतं पञ्चशतं चैव मध्यमसाहसः, षट्शतं सहस्रं चो- त्तमः । यथासारापकारम् । सर्वेषामाचतुर्विंशत्यादिरेकन त्रतिपर्यन्तः प्रथममाह- साख्यो दण्डः । एवमुत्तरत्रापि, द्विशतादिः पञ्चशतान्तो मध्यमः, षट्शतादिः सहस्रान्त उत्तमः । यथासाराप- कारमर्थापराधानुसारेण, अत एव वित्तापराधलाघव- गौरवाभ्यां विकल्पः । विर.६६४ अदण्ड्या: अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परि- ब्राजकवानप्रस्थौ जन्म कर्म श्रुतशीलशौचाचार- वन्तश्च, एते हि धर्मप्रतिकरा राज्ञः स्त्रीबालवृद्धा- स्तपस्विनस्तेभ्यः क्रोधं नियच्छेत् । (१) तच्छारीरार्थदण्डयोर्निषेधार्थ न पुनर्दण्ड- मात्रस्य । स्मृच.१२६ (२) जन्म शुद्धकुलता, कर्म अग्निहोत्रादि, श्रुतं वेदवेदाङ्गगोचरं ज्ञानं, शौचं बाह्यमाभ्यन्तरं च एत- युक्ता एतेऽप्यदण्ड्याः । यतस्ते राज्ञो धर्मप्रतिकराः पड्भागरूपधर्मार्जनेनोपकुर्वन्ति । स्त्रीचालवृद्धा इत्यनेन स्त्र्यादीनामप्यबालानामदण्ड्यत्वमुक्तम् । विर.६२८ (१) विर.६६४; स्मृचि.३७ (चतुर्विंशतिरेकनवतिः प्रथमः साहसः द्विशतः पञ्चशतेतिमध्यमः षट्शतैः साहस्रश्चेत्युत्तमः); दवि.२२नवतिः+(चेति) द्विशतं (द्विशतः) तं चैव मध्यमसाहसः ( तश्चेति मध्यमः) षट्शतं (षट्शतः) सहस्रं च (साहस्रश्चेति ) कारं + (सर्वेषामानुपूर्वेण); समु.७० चैव (चेति) मध्यमसाहसः (मध्यमः)स्रं चोत्तमः (स्रं चेत्युत्तमः)(यथासारापकारम्०)शंख:. ( २ ) मिता. ११३५८ एते हि धर्मप्रतिकराः (ते हि धर्मा- धिकारिणः) (राज्ञः ... च्छेत् ०); स्मृच. १२६ दण्ड्यौ (दण्डेयौं) शीलशीचा (शीला) (एने हि... च्छेत्० ) शंख::त्रिर.६२८; पमा. २०६ ( एते हि... च्छेत् ०) शंखः; दत्रि. ५७ वन्तश्च एते ( वन्त: ते) ; सेतु. ३२५ स्तेभ्यः (श्च तेभ्य:); प्रका. ७९ परिव्राजक (ब्राजक) शीलशौचा (शीला ) ( एते हि... च्छेत् ० ) । शंखः; समु. ६९ कर्म (कर्मसु) एते हि (ते च) शंखः,