पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ५७० प्राप्ते घिग्दण्डमिति कृत्वा तद्वशे विसृजेत् । एवमृत्विजि । ऋत्विगाचार्यो राज्ञस्स्वभूतौ न दण्ड्यस्य । स्नातको विद्यावताभ्याम् । राजा अनन्तरादिः । सर्व एते राज्ञः संमान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः । उत्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यत्र वध्यात् यस्य वधानुगुणोऽपराधः न तस्याचार्यादयोऽपि त्राणं, हन्तव्य एव स इति । उ. (२) राजा अवान्तरनरपतीनामिति प्रतिभाति । रवि.३८ बौधायनः ब्राह्मणस्य वधातिरिक्तो दण्डः अवध्यो वै ब्राह्मणः सर्वापराधेषु । वैशब्दः ं श्रुतिसंसूचनार्थः । सर्वापराधेषु ब्रह्महत्यादि- ध्वपि । बौवि. ब्राह्मणस्य ब्रह्महत्या गुरुतल्पगमनसुवर्णस्तेयसुरा- पानेषु कुसिन्धभगश्रृगालसुराध्वजांस्तप्तेनाऽय सा ललाटेऽङ्कयित्वा विषयान्निर्धमनम् । कृत्वा प्रवासयेदिति शेषः । कुसिन्धः कबन्धः । भगः स्त्रीव्यञ्जनम् । श्रृगालो गोमायुः । स च शुनोऽपि प्रदर्श- नार्थः । सुराध्वजः सुराभाण्डम् । कबन्धाद्याकृति केन कृष्णायसेन ललाटेऽङ्कयति । उत्तरीयवाससां चौर्ये विषयान्तरं निर्वासयेत् । यः स्वयमेव प्रायश्चित्तं न करोति तस्यायं दण्डः । वसिष्ठः दण्डनिमित्तं, निमित्तविशेषेण दण्डविशेष:, दण्ड विध्यतिक्रमे राजपुरोहितप्रायश्चित्तम् ' देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य विष्णु: दण्डसंशाः, निमित्तविशेषेण दण्डतारतम्यं च बौवि. 3 पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पन विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ (१) बौध.१।१०।१८. (२) बौध. १।१०।१९; स्मृच. १२५ (तप्तेनायसेन ललाटे ऽङ्कयित्वा विषयान्निर्वासनम् ) ; विर.६३६ ब्रह्म (भ्रूण) (गमन०) कुसि... र्धमनम् ( कबन्धभगश्वपदध्व- जांस्तप्तेनायसेन ललाटेऽङ्कयित्वा स्वविषयान्ते निर्वासनम् ); दवि.४७ विरवत्; बाल . २ | २६ णस्य + (च) (गमन ० ) कुंसि ... र्धमनम् (कबन्धभगश्वपादध्वजांस्तप्तेनायसेन ललाटेऽङ्क- यित्वा विषयान्ते निर्वासनम् ); प्रका. ७९ स्मृचवत्; समु. ६८ ब्रह्म (भ्रूण) (गमन०) कुसिन्ध... यसेन (कबन्धभगश्वापदध्व- जांस्तप्तेनायसेन) र्धम (वस). राजा चतुरो वर्णान् स्वधर्मे स्थापयेत् । तेष्वपचरत्सु दण्डं धारयेत् । दण्डस्तु देश- कालधर्मवयोविद्यास्थान विशेषै हिंसाक्रोशयोः कल्प्य आगमात् दृष्टान्ताच्च । देण्डथोत्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं पुरोहितः। कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा । अदण्डने दण्डयादण्डने । तेनानुपदेशनिमित्तकं त्रिरात्रं चरेत् पुरोहितः विपरीतोपदेशनिमित्तं च कृच्छ्रम् । राजा तु दण्डोत्सर्गे एकरात्रोपवासं कुर्यात्, अदण्ड्य दण्डने त्रिरात्रमुपवसेत् । चकारात्सभ्याश्चेति द्रष्टव्यम् । कचित् पुनरदण्ड्यदण्डने इत्येव पठितम् । विर.६५० अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा || एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं चेद्घातयते राजा हन्ति धर्मेण दुष्कृतम् || इति । (३) वस्मृ. १९१५-७ (ख) नेवे (न् वै) तेष्व... रयेत् (तेष्वधर्मपरेषु) दण्डस्तु (दण्डं तु) कालधर्म + (अधर्म) हिंसाको... न्साच्च (दिशेत् आगमादुष्टाभावात्). (१) वस्मृ.१९/२६-२७ (ख) दण्डधो (इण्डो) त्रं राजा (त्रं वा); मिता. १।३५९ ण्डयो (ण्डो); मभा.१२।४५ त्रं राजा + (च); गौमि.१२।४५ त्रिरात्रं राजा (एकरात्रं त्रिरात्रं राजा); विर. ६५० ण्डयो (ण्डो) (दण्ड्य ० ) त्रं राजा + (च); दवि . ६ विर वत् ; सवि. १६ ण्डयो (ण्डो ) त्रं राजा (त्रं च); ब्यप्र. २८; व्यउ. १७ दण्डधो (दण्डनीयो) दण्डय (दण्डनीय) त्रिरात्रं राजा ( त्रिरात्रमेकरात्रं राजा); प्रका. १८ दण्ड्य (दण्ड); समु. २२. (२) वस्मृ. १९।२८-३१ (ख) शिष्यश्च (शिष्यस्तु) च्छति उ (च्छत्यप्यु) तं चेद्धातयते ... दुष्कृतम् (तं चेन्न घातयेद्राजा राजधर्मेण दुष्यति ). (३) विस्मृ.४|१४; विर.६६५; स्मृसा. ८२; दवि. २३ मनुविष्णू.