पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका (१) यथाशास्त्र गर्भाधानादिभि: संस्कारैः संस्कृताः शास्त्रैरधिगताः तेषामिन्द्रियदौर्बल्यात् अजितेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषिद्धेषु च प्रवृत्ता- नाम् । शास्ता शासिता आचार्यादिः । निर्वेपं प्राय- श्चित्तमुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्तं धर्म- शास्त्रेषु । उ. (२) शास्ता समावर्तनात्प्रागाचार्यः, ऊर्ध्वं पिता पुत्रस्य, यस्य तु शुश्रूषां करोति स शास्ता । निर्देशं प्रायश्चित्तं, यथाकर्म कर्मानुरूपं, महत्यपराधे महान्तमल्पे विर.६२७ चाल्पम् । तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजानं गमयेत् । तस्य चेच्छासितुः शास्त्रं शासनं अतिप्रवर्तरन् न तत्र तिष्ठेयुः राजानं गमयेत् एवमसौ करोतीति । उ. रोजा पुरोहितं धर्मार्थकुशलम् । स राजा धर्मशास्त्रेष्वर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत् । विनीयतामसाविति । सँ ब्राह्मणान्नियुञ्ज्यात् । उ. स पुरोहितः ब्राह्मणाश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुञ्ज्यात् अनुरूपेषु प्रायश्चितेषु नियुञ्जीत । उ. बेलविशेषेण वधदास्यवर्ज नियमैरुपशोषयेत् । अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्य मित्यत आह —–बलेति । ततस्तान्नियमैरुपवासादिभिरुप शोषयेत् । बलविशेषेण बलानुरूपम् । वधदास्यवर्जे वध स्ताडनादि, वधं दास्यं च वर्जयित्वा सर्वमन्यत् बन्ध- नादिकं बलानुरूपं कारयेत् यावत्ते मन्येरन् चरेम प्राय- श्चित्तमिति । उ. इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्ड प्रणयेत् । ५६९ तोक्तं दण्डं स्वयमेव प्रणयेत् तेषां कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् । अभिविधावाकारः । उ. निमित्तं निर्णीयैव दण्डः कर्तव्य: इतरेषां ब्राह्मणव्यतिरिक्तानां वर्णानां राजा पुरोहि- (१) आघ. २।१०।१४) हिघ. २९) विर.६२७ प्रवर्ते (वर्ते) (२) आध. २११०११५; हिघ. २१९; विर.६२७ राजा (राज). ( ३ ) आध.२|१०|१६; हिध.२९ युज्ज्यात् (यच्छेत्); विर.६२७ स ब्राह्मणान् (सुब्राह्मणं). (४) आध. २|१०|१७; हिघ. २१९; विर.६२७ बध (पर) शोष (सान्त्व). (५) आध.२।११११; हिघ. २१९; विर.६२७ विप्रयो (वियो). व्य. का. ७२ उ. ने च संदेहे दण्डं कुर्यात् । अपराधसंदेहे राजा दण्डं न कुर्यात् । सुविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय प्रतिपद्येत । आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभिः शपथान्तैः सु- विचितं यथा भवति तथा विचित्य निरूप्य | राजा दण्डाय प्रतिपद्येत उपक्रमेत । उ. एवंवृत्तो राजोभौ लोकावभिजयति । एवं कुर्वतः फलमाह - एवमिति । एवंभूतं वृत्तं यस्य स एवंवृत्तः । प्रथममतिक्रमिणं वचनबद्धं वरिष्ठबद्धं वा कारयेत् नियमातिक्रमिणमन्यं वा रहसि बन्धयेत् । आसमापत्तेः । असमापत्तौ नाश्यः | (१) यो वर्णाश्रमप्रयुक्तान्नियमानतिक्रामति तं नि- यमातिक्रमिणमन्यं वा प्रतिषिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुन्ध्यात् । यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिष्य इति ब्रूयात् । यद्यसौ दीर्घकालं निरुद्धोऽपि न समापद्येत, ततो नाश्यः निर्वास्यः | उ. (२) नियमातिक्रमिणं ब्राहाणनियमस्यातिक्रमेण विहितस्याकर्तारमन्यमकृत्यकारिणं ब्राह्मणं रहस्यस्थाने बन्धयेदासमापत्तेः । यावदेवं न करिष्यामीति तस्य संप्रतिपत्तिर्भवति असमापत्तौ असंप्रतिपत्तौ । विर.६३७ आचार्य ऋत्विक्स्नातको राजेति त्राणं स्युरन्यत्र वध्यात् । ( १ ) यदि दण्डे प्रवृत्तं राजानमाचार्यो ब्रूयात्- अहमेनमतः परं वारयिष्यामि मुच्यतामयमिति । अतोऽङ्ग- दण्डे प्राप्तेऽर्थदण्डं, अर्थदण्डे प्राप्ते ताडनं, ताडने (१) आघ. २१११ १२; हिघ. २९. (२) आध. २ | ११ | ३ ; हिध. २१९ विचित्या (करवा). (३) आध. २११११४; हिघ. २१९ वृत्तो (वर्तमानो ). (४) आध. २।२७।१८-२०; हिध. २०१९; विर.६३७ क्रमिण + (ब्राह्मणं ); दवि.२६० विरवत्; सेतु. ३२६ बन्ध (चार) शेपं विरवत, विष्णु:. (५) आध. २१२७ २१; हिघ,, २।२९ तकः + (च शूरो); विर.६३७; दवि.३८.