पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका गौतमः दण्डोपदेशयोः प्रयोजनम् दण्डो दमनादित्याद्दुस्तेनादान्तान् दमयेत् । दमयत्यदान्तान् दम्यन्ते वाऽस्मिन्निति दण्डः । यतश्च दमनयोगाद्दण्ड इत्येवं मन्वादय आहुः । अतो यो यथा दम्यते वाचा धनादिना वा ।

  1. मभा.

तानाचार्योपदेशो दण्डश्च पालयते ।

तान्विपरीतान्यथोक्तमकुर्वतो वर्णानाश्रमांश्च आचा

र्योपदेशस्तावत्पालयते । तत्राप्यतिष्ठतो राजदण्डः । xगौमि. तस्माद्राजाचार्यावनिन्द्यौ । ततश्च रक्षणहेतुत्वात् कारणे सति पारुण्याग्रपि वक्तव्यम् । अतः परुपमप्युपदिशन्नाचार्यः, उग्रमपि दण्डं धारयन् राजा च, अत्यन्तोपकारित्वादकुत्सनी यौ ।

  • मभा.

दण्ड्या: राजा सर्वस्येष्टे ब्राह्मणवर्जम् । राजा पूर्वमुक्तः, सर्वस्य विषयवासिनो जनस्य, निग्रहानुग्रहाचारभोगनियोगेषु प्रभुः, निग्रहे अपराधिनां, अनुग्रहेऽनुग्राह्याणां, आचारे मर्यादाऽवस्थाने, भोगे करग्रहणे, नियोगे पुरुषाणां शिष्टकरणे । अस्यापवादः - ब्राह्मणवर्ज ब्राह्मणान्मुक्त्वेत्यर्थः । अपचारेऽपि सतः सान्त्वपूर्वमेनान् स्वधर्म स्थापयेत्, न त्वितरवर्णवन्नित्र- हेणेति द्रष्टव्यम् । आरम्भप्रयोजनं सर्वक्रियासु स्वतन्त्रता- ख्यापनार्थम् । तथा च नारदः –' अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः' इति ।

  • मभा.
  • गौमि. मभावत् । x मभा. गौभिवत् ।

(१) गौध. ११।३०; मिता. १।२३५४; मभा; गौमि. १११२८; समृच. १२७; उयम. ११० आप- अप. २।२६; स्तम्ब:; प्रका.८०; समु.६९. (२) गौध.११।३३; मभा.; गौमि. ११।३१.

. (३) गौध. ११।३४३ मिता. २२०; मभा; गौमि. ११/३२; विता. १०७; समु. १०. (४) गौध. ११।१; मिता. २४ वर्जम् (वर्ज्यम् ); मभा.; गौमि. ११ १; विर.६३३; दवि.४४; विता. २८; बाल. २ | २६; समु.६९. .. श्रोत्रियोऽदण्ड्यः षड्भिः परिहार्यो राज्ञा अवध्यश्चाबन्ध्यञ्चा- दण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरिहार्यश्चेति । - (१) षड्भिर्वक्ष्यमाणैर्वधादिभिः परिहार्यो राज्ञा भवति । परिहारो वर्जनम् । तान्वधादीनाह - अवध्य श्चेति । वधस्ताडनं, बन्धो निगडनं, दण्डोऽर्थापहारः । बहिष्कारो ग्रामादिभ्यो निरसनं, परिवादो दोपसंकीर्तनं, परिहारस्त्यागः । षडेते वधादय एवंभूते बहुश्रुते ब्राह्मणे सत्यबुद्धिपूर्वापराधे राज्ञा वर्ज्या: | बुद्धिपूर्वस्य तु प्रसङ्गा- भावात् । इतिशब्दः प्रकारवचने । यच्चान्यदेवरूप- संभाषादि तदपि वर्ज्यमिति । गौमि. (२) अनुमन्ता प्रयोजयिता च न स्यादित्येवमर्थः चकारः । इतिकरणं प्रकारवाचि । ततश्च संभाषणादि न कर्तव्यम् ।

  • मभा.

ब्राह्मणस्य बधातिरिक्तो दण्ड: नं शारीरो ब्राह्मणदण्डः। (१) स्वयमुपस्थितस्यापि यः शारीरो दण्डः वधः स ब्राह्मणस्य नास्ति । तस्मान्न कर्तव्यः । ननु च कर्म- वियोगादिदण्डान्तरविधानादेव शरीरस्य निवृत्तिर्भव- येवेति । उच्यते- - सत्यम् । एवमारम्भस्तु अन्यत्राप राधे ब्राह्मणस्य शरीरदण्डप्रतिषेधार्थ इति । मभा. (२) तपस्विब्राह्मण विषयमिदम् । अन्यस्य तु यथा- पराधं दण्डमाह – 'कर्मवियोगे’त्यादि । गौमि. (३) तद्वधरूपस्याङ्गभङ्गात्मकस्य निषेधार्थ न पुन- रङ्गनिग्रहात्मकस्यापि । स्मृच. १२४

  • शेषं गौमिवत् ।

(१) गौध. ८/१२; मभा; गौमि. ८/१२-१३; स्मृच. १२६ वायश्चापरिहार्य (हार्यश्चापरिवाय); विर. ६३२ ( बन्ध्य श्वा०); पमा. २०७ षड्भिः (षण्ठः) (बन्ध्यश्चा० )( इति ० ) ; दवि. ४४ बन्ध्य (वेध्य); विता. २८) बाल. २१२६ (बन्ध्यश्चा०) वाथ (वाह्य); प्रका. ७९; समु. ६९. (२) गौध. १२।४३; मेधा. ८ | ३१६६ मिता. २२६ ब्राह्मण (ब्राह्मणे); अप. २।२६, २१२७० ब्राह्मण (ब्राह्मणस्य); मभा; गौमि. १२९४३; उ. २१२७११७ स्मरणात् स्मृच, १२४ ; विर. ३३० अपवत् ; पमा. २०८ अपवत् ; विचि. १४२ (ब्राह्मणस्य न शारीरो दण्ड:); दवि . १५१; मृप्र. १७; विता. ८६; बाल. २१८१, २/२७० अपवत् : सेतु. २४४ विचिवद प्रका. ७८; समु. ६८. 1