पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६६ व्यवहारकाण्डम् ब्राह्मणोऽवध्यः ये एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात् । स तस्येन्द्रो हृदयेग्निमिन्ध उभे एनं द्विष्टो नभसी चरन्तम् ॥ न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव । सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः || ऐकशतं ता जनता या भूमिर्ग्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् । देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थि- भूयान् । यो ब्राह्मण देवबन्धुं हिनस्ति न स पितृयाणम प्येति लोकम् ॥ . अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । भृगुं हिंसित्वा सृञ्जया वैतव्याः पराभवन् । • राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । ब्रह्माणं यत्र हिंसन्ति तद् राष्ट्र हन्ति दुच्छुना || नॅबैव ता नवतयो या भूमिर्व्यधूनुत । प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् || पापकारी सर्वः शूद्रवइण्ड्यः • र्सं होवाच शुनःशेपो यः सकृत्पापकं कुर्यात्कुर्या देनत्ततोऽपरम् । नापागाः शौद्रान्न्यायादसंधेयं त्वया कृतमिति । यः पुमान्धर्मशास्त्रभीतिरहित: सकृत्पापकं कुर्यात्स पुमांस्ततः पापादन्यदेनत्पापं तदभ्यासवशात् कुर्यादेव । त्वं तु शौद्रान्न्यायान्नीचजातिसम्बन्धिनः क्रूरादाचरणा- नापागा अपगतो न भवसि । ऐब्रासा. पापी दण्ड्यः तैयथाऽभ्यागारमभिनिनर्त पुनः पुनः पाप्मानं निर्हन्यादेवमेव । ब्राह्मणोऽनाद्यः सोमराजा हि भवति । राजाऽदण्ठ्य: अयैनं पृष्ठतस्तूष्णीमेव दण्डैर्ध्वन्ति । तं दण्डै- र्ध्नन्तो दण्डवधमतिनयन्ति तस्माद्राजाऽदण्डयो यदेनं दण्डवधमतिनयम्ति । श्रोत्रिय माह्मणोऽदण्ड्यः प्रेज्ञा वर्धमाना चतुरो धर्मान्ब्राह्मणमभिनिष्पा- दयति, ब्राह्मण्यं प्रतिरूपचर्या यशो लोकपक्तिं, लोकः पच्यमानश्चतुर्भिर्धर्मेब्रह्मणं भुनक्त्यर्चया च दानेन चाज्येयतया चावध्यतया च । यत्त्रिवृतमभिषेचनीये कुर्युर्ब्रह्म क्षत्रायापि दध्युर्य- त्रिवृतमुद्धरन्ति ब्रह्म तत्क्षत्रादुद्धरन्ति तस्माद्भरतां प्रति दण्डा ब्राह्मणा न हि त्रिवृतमभिषेचनीये कुर्वन्ति । तासा. भरतां भरणं कुर्वतां क्षत्रियाणाम् । सर्वदेवतारूपो राजा दण्डधारकः, राश: सर्वो दण्डय: सह वा इदमभवत् । देवाश्च मनुष्याश्च ते यदोपकारैर्न शेकुर्मनुष्यानात्मीकर्तु अथ देवा- स्तिरोबभूवुः, तान् प्रजापतिरब्रवीत् । कः प्रजाः पालयिता भुवि सर्वेऽन्तर्हिताः स्थ | असंरक्ष्य- माणाः प्रजा अधर्मार्दितास्त्यक्ष्यन्तीतः प्रदानमुप- जीवनमस्माकमिति । ते देवाः प्रजापतिमनुषन् । पुरुषमूर्ति राजानं करवाम सोमाद् रूपमादाया- दित्यात् तेजो विक्रममथेन्द्राद् विष्णोर्विजयं वैश्रवणात् त्यागं यमात् संयमनम् सोऽब्रवीत् धर्ममेव मे सख्याय कुरुध्वं ततोऽहं प्रजाः पालयामीति । ततस्तस्मै धर्म द्वितीयम कुर्वन् स एष धर्मो निदानेन यद् दण्डः तस्मादेवं- विद् राजा दण्डं पितर्यपि पातयेत् । धर्मेणैनं संस्करवाम्याधिपत्यायेन्द्रत्वाय ब्रह्मलोकायेति । ईश्वरोऽहं तथा कर्त्रीः । ...i ब्राह्मणो राशाऽदण्ड्यः सोमोऽस्माकं ब्राह्मणाना राजेति, तदस्माऽइद सर्वमाद्यं करोति, ब्राह्मणमेवापोद्धरति, तस्माद् (१) असं. ५/१८/५-६ (२) असं. ५/१८/१२-१३. (३) असं, ५।१९।१. (४) असं. ५/१९१८. (५) असं. ५/१९/१०. (६) ऐब्रा. ३३।५. (७) शांब्रा. १७१८.(८) शबा. ५ |४|२|३. | पठितम् । (१) शबा. ५/४/४/७. (२) शमा ११॥५/७/१२ (३) ताबा.९८।१०1८, (४) विश्व.१।३५०. ‘आम्नायश्च' इत्युक्त्वा इदं वचनं