पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका वेदाः दण्डयदमनं साधुपालनं च राश: कर्तव्यम् 'शृण्वे वीर उम्रमुग्रं दमायन्नन्यमन्यमतिनेनीय- मान: 1 एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ 1 अयमिन्द्रो वीरो वीर्यवानिति शृण्वे । श्रूयते । किं कुर्वन् । उग्रमुग्रमुद्गूर्णमुद्गूर्ण बलिनं शत्रुं प्रति दमायन् । दमः दमनम् | बाधन मिच्छन् । अन्यमन्यं प्रथमं नेतव्यमन्यं पश्चान्नेतव्यं चान्यं पूर्वमपरं परस्परव्यतिहारेण स्तोतॄनति नेनीयमानोऽत्यन्तं पुनः पुनर्नयन् | अपि चैधमानद्वि एधमानानां वर्धमानानामसुन्वतां द्वेष्टोभयस्य दिव्यस्य पार्थिवस्य च धनस्य राजेश्वरोऽयमिन्द्रो विशो निवेशयितून स्वस्य परिचारकान्मनुष्यान् चोष्यते । रक्षणार्थं पुनः पुनराह्वयति । । ऋसा. . ईन्ति रक्षो हन्त्यासद्वदन्तम् । इन्ति असत् असत्यं वदन्तम् । सोमो देवः हन्ति । ऋसा. जैद्दा को अस्मदीषते । अपापकं जघान कमहं जातु । कोऽस्मद्भीतः पलायते । नि. ४ | २ [ दुर्गाचार्यकृतव्याख्यानम् – 'अपापकं' 'क' 'अहं' ‘जातु' इति सर्वमेतत् अध्याहृतं भाष्यकारेण, जहाशब्दस्य निराकाङ्क्षीकरणार्थमधस्ताच्चोपरिष्टाच्च। एवं हि जहाशब्दः परिसमाप्त्यर्थो भवति । न कदाचिदपि कश्चिदपापको मया हतपूर्व इति, प्रापकारिणं तु हन्मीत्यभिप्रायः। ते यूयम पापा एवाजस्रं भूयास्थ, न वो हनिष्यामि । यत्पुनरेत दुक्तं भवद्भिः 'भूरिष्वप्यागस्सु मास्मान् वधीः' इति, कथमागस्कारी न हन्यते ? 'श्वा पुरोडाशमवलिह्यात् । न च कस्यचित् कस्मिंश्चिदपि स्वता स्यात्, सर्व व असमञ्जसमेव स्यात्, यदि पापकारिणो न हन्येरन्, अथ मनुष्यानपापानपि त्वं हन्त्येवेति । अत्र ब्रूमः, (१) ऋसं. ६१४७ १६. (२) ऋसं.७७१०४|१३. (३) ऋसं. ८/४५॥३७. 'कः' 'अस्मत्' अस्मत्तः अपापकारी सन् 'भीत: ईषते 'पलायते' इत्यर्थ: । ] अब्राह्मणेन विरोधे ब्राह्मणोऽदण्ड: यद्ब्राह्मणञ्चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधि ब्रूयाद्यद्ब्राह्मणायाध्याहाऽऽत्मनेऽध्याह यद्ब्राह्मणं पराहाऽऽत्मानं पराऽऽह तस्माद्ब्राह्मणो न परोच्यः ।। यदि लोके ब्राह्मणाब्राह्मणौ विवदमानावह मेवाधिक इति अधिविषयं प्रश्नं कर्तुं कंचिदमिशं प्रत्यागच्छेतां, तदानीं सोऽभिज्ञो ब्राह्मणस्यैवाधिक्यं ब्रूयात्तेन वक्तुः स्वस्यैवाधिक्यं संपादितं भवति । ब्राह्मणस्य पराभव- वचने स्वस्थैव पराभव उक्तो भवति । तस्मात्कदाचि- दपि ब्राह्मणः पराभवविषयो न कर्तव्यः । सोऽयं प्रासङ्गिकः पुरुषार्थो विधिद्रष्टव्यः । ब्राह्मणोऽवध्यः तैसा. देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्ते शंयुं बार्हस्पत्यमब्रुवन् इमं नो यज्ञ स्वगा कुर्विति । सोऽब्रवीत् वरं वृणै । किं मे प्रजाया इति । योऽपगुरातै शतेन यातयाद्यो निहनत् सहस्रेण यातयाद् यो लोहितं करवद्यावतः प्रस्कद्य पा ५- सून्त्संगृण्हात्तावतः संवत्सरान् पितृलोकं न प्र जानादिति तस्माद्ब्राह्मणाय नाऽप गुरेत न नि हन्यान्न लोहितं कुर्यात् । दण्डाध्यक्षो राजन्य: देवा वै मित्रमब्रुवन्वृत्रं हनामेति, नेत्यब्रवीन्मि- त्रोऽहमस्मि न हिनस्मीति, इनामैवेत्यब्रुवन्सो- ऽब्रवीद्वार्य वृणै पयसा मे सोमं श्रीणानिति, तस्मात्पयसा मैत्रावरुणं श्रीणन्ति, वार्यवृतं ह्यस्य ततो वृत्रमध्नंस्तस्माद्राजन्येनाध्यक्षेण वैश्यं घ्नन्ति । (१) तेसं. २/५/११/९. ( २ ) तैसं. २/६/१०११-२, (३) कासं. २७१४.