पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् हारीतः निवर्तनीया व्यवहाराः राज्ञा विवर्जितो यश्च स्वयं पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरे ग्रामे महाजनविरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकीर्तिताः ।। एवं चैवंविधष्यवहारं तीरितमप्यनुशिष्टमपि निवर्त्य व्यवहारान्तरं कर्तव्यमिति तात्पर्यार्थोऽनुसंधेयः । स्मृच. १२८ (१) मिता. २१६ (=) स्वयं (यश्च); स्मृच. १२८ यश्च (यस्तु); पमा २१५ स्मृचवत्; व्यचि.८ यश्च ( यस्तु ) स्वयं (यस्तु ) नारदः; चन्द्र. १०४ स्वयं (यश्च) स्तस्य (ग्रस्य); ब्यम ७ श्च स्वयं (स्तु यश्च) स्मृत्यन्तरम्; विता. ५९ (=) तो यश्च स्वयं (तं यच्च यच्च); प्रका. ७०. (२) स्मृच. १२८; पमा २१५ रे ग्रामे (नर्याम); व्यचि. ८ वा (sपि) रे ग्रामे (रग्राम) धकाः (धिन:); चन्द्र. १०४ वा (षां) पुरे ग्रामे (परग्रास) धकाः (धिन:); व्यम.७ रे ग्रामे (रग्राम) स्मरणम् ; विता. ५९ वा (इपि); प्रका. ७०. दानार्थे वा धनार्थे वा धर्मार्थे वा विशेषतः । आदाने वा विसर्गे वा न स्त्री स्वातन्त्र्यमर्हति || यमः

श्रुतिस्मृतिविरुद्धं च भूतानामहितं च यत् । न तत्प्रवर्तयेद्राजा प्रवृत्तं च निवर्तयेत् # || बेलाद्दत्तं बलाद्भुक्तं बलाद्यचापि लेखितम् । सर्वान्बलकृतानर्थान् निवर्त्यानाह वै मनुः || स्मृत्यन्तरम् अनिवर्तनीयौ दानविक्रयौ 'गोभूहिरण्यरत्नानामात्मीयानां स्त्रियं विना । पक्रयाधिप्रदानं तु कृतं सिध्येन्नृभिः सदा ॥

  • स्थलादिनिर्देशः दर्शनविधौ (पृ. १०६) द्रष्टव्यः ।

(१) व्यक. १०५ सर्गे ( शुद्धे ) ; स्मृच. १३०; स्मृसा. १२५ ; पमा २१७ दाना... वा (दाने वाऽऽधमने वाऽपि); व्यचि. १०४; व्यसौ ९४; व्यप्र. ९५; प्रका. ८ २; समु. ७१. (२) स्मृच. १३०; पमा. २१६ द्यच्चापि (च्चापि वि); प्रका.८ ३; समु. ७१ दत्तं (वृत्तं). (३) समु. ७१.