सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् (२) असिद्धव्यवहारिण आह—मत्तोन्मत्तेति । अपि च । मत्तो मदनीयद्रव्येण | उन्मत्त उन्मादेन पञ्च- विधेन वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः । आर्तो व्याध्यादिना । व्यसनमिष्टवियोगाऽनिष्टप्राप्तिजनितं दुःखं तद्वान् व्यसनी । चालो व्यवहारायोग्यः । भीतोऽरातिभ्यः । आदिग्रहणात्पुरराष्ट्रादिविरुद्धः । 'पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः | अनादेयो भवेद्वादो धर्मविद्भिरुदा हृतः’ || इति मनुस्मरणात् । एतैर्योजितः कृतो व्यवहारो न सिध्यतीति । अनियुक्तासंबद्धकृतोऽपि व्यवहारो न सिध्यतीति संबन्धः । मिता. (३) मत्तादिकृतो व्यवहारो न सिध्यति व्यावर्तत इत्यर्थः । व्यसनी, कितवादिः पुत्रवियोगादिमान्वा । अर्थिना प्रत्यर्थना वा यो व्यवहारकरणाय न प्रहितः सोऽसंबद्धः ।

  • अप.

(४) व्यवहर्तृवैगुण्येऽपि एवं कार्यमित्याह स एव - मत्तोन्मत्तेति । आदिशब्देन वृद्धयोजितादयो व्यवहारा गृह्यन्ते । Xस्मृच. १२८ । (५) आदिना दासवृद्धादेर्ग्रहणम् | असंबद्धः पितृ नियुक्तान्यः । +दीक. (६) व्यसनी द्यूताबासक्तः । आदिपदादस्वतन्त्र दासपुत्रादेर्ग्रहणम् । व्यत. २३२ (७) बाल: षोडशवर्षाभ्यन्तरवयस्कः | भीतो भय वान् । आदिपदेन कामक्रोधाद्याक्रान्तपरिग्रहः । एतैर्या जितः कृतोऽसंबन्धेन भ्रातृत्वादिसंबन्धरहितेनाऽनियुक्तेन कृतश्च व्यवहारो न सिध्यति न फलपर्याप्तो भवति । तथा च पुनस्तत्र विचारयेदिति तात्पर्यम् । चकारेण दासादि- कृतसमुच्चयः । एवकारो न सिध्यतीत्यत्राऽन्वेति, तेन कुलादिकृतस्य क्वचित्सिद्धावपि नैतादृशस्त्र क्वचिदपि सिद्धिरित्युक्तं भवति । अत्र व्यवहारो न न्यायमात्रं किन्तु दानविक्रयाघमनादिरूपाः सर्वाः क्रियाः । वीमि. (८) आदिग्रहणं चित्तविक्षेपकारणानामन्येषामप्युप संग्रहार्थम् । एतैः योजितः कृतो निर्णीत इति यावत् । एतैः सह योजित इति वा । एते यत्रार्थिप्रत्यर्थिभाव- मापन्ना इत्यर्थः । तथा असंबद्धकृतोऽपि अर्थिप्रत्यर्थि x पमा स्मृचवत् ।

  • शेषपदार्थो मितागतः ।

+ पदार्थों मितावत् । ! संबन्धरहितैस्तदीयचेष्टितानभित्रैः कृतो निर्णीतस्तैः सह कृतो वा । व्यवहारो न सिध्यति कृतोऽपि निवर्तते । प्रवृत्तश्च तादृशैः सह निर्णयत्वेन नोपादेय इत्यर्थः । न च असंबद्धत्वमुदासीनत्वं सम्यानां गुण एव । अनु- दासीनेषु उपाधिसंभवात् । अत एव 'रिपौ मित्रे च ये समाः' इत्युक्तं इति वाच्यम् । असंबद्धपदस्य देशादि- संबन्धराहित्यपरत्वात् । व्यवहारनिर्णयस्य च देशाचारा- अनुरोधित्वात् । तथा च तदनभिज्ञनिगीं तस्तदनभिज्ञार्थि- प्रत्यर्थिको वेत्यर्थः पर्यवस्यति । द्वितीयव्याख्याने तु संबन्धाभावनिश्चये संशयाभावेन तादृशव्यवहारस्यानु- पादेयत्वौचित्यात् ।

  • व्यप्र. ३३

नारदः 'स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु । व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् || (१) स्त्रीष्विति पत्नी दुहितृस्त्रीकृतः । अथवा स्त्रीभि रेव व्यवहारो दृष्टः । रात्राविति रात्रिः शयनाय न तु व्यवहाराय | तस्यां साक्षादेव प्रमाणव्यवहारासंभवः । बहिर्ग्रामात् अरण्य इति । अन्तर्वेश्मनि गृहमध्ये । अरातिषु शत्रुषु । एतेषु प्रदेशेषु व्यवहारः कृतोऽपि न प्रतिष्ठते । तेन पुनः कर्तव्यतां प्राप्नोतीत्यर्थः । अभा. १३ (२) यावत्स्त्रीभिः शत्रुभिर्वा रहसि वा निर्णीतो व्यवहारोऽज्ञानपक्षपातयोः संभवात् पुनर्विचारणीय इत्यर्थः । स्मृच. १२८ (३) स्त्रीषु स्त्रीमध्ये | कृत इति प्रत्येक मभिसंबध्यते । तासामव्यवस्थितचित्तत्वात् । रात्रावप्रकाशत्वात् वञ्चना भवतीति । बहिर्ग्रामाद् येषां ग्रामे बहिश्च संभवः । शून्य- त्वात् बहिः । अन्तर्वैश्मनि, स्वगृहे श्रोतॄणामभावादसाक्षि- त्वप्रसङ्गात् । अरातिषु वैरिमध्ये, ते हि द्वेषादन्यथा

  • व्यउ. व्यप्रगतम् ।

(१) नासं. १ ३७; नास्मृ. ११४३; अभा. १३; अप. २।३१ न्यराति (नि रात्रि) प्येषु (प्येष); व्यक. १०३ प्येषु (व्येष); स्मृच. १२८ व्यकवत् ; स्मृला. १२३ व्यकवत् ; पमा २१४ न्य (स्व); व्यचि. १०१ व्यकवत् ; सवि. ५००; व्यसौ. ९३ प्येषु (न्येभ्यः); ब्यप्र. ९३; विता. ९० ऽप्ये (ये); प्रका.. ८१ व्यकवत् ; समु. ७०.