पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् जीवनेन । वणिक वाणिज्येन । नृपो राजा दण्डादि- मवि. प्राप्त्या । (३) साक्षिणः प्रतिभूः कुलं च धर्मार्थव्यवहारद्रष्टार- स्त्रय एते परार्थ क्लेशमनुभवन्ति तस्माद् बलेन साक्ष्यं प्रातिभाव्यं व्यवहारेक्षणं च नाङ्गीकारयितव्याः चत्वारः पुनः ब्राह्मणोत्तमवर्णवाणिग्राजानः परार्थ दान- फलोपादानऋणद्रव्यार्पणविक्रयव्यवहारेक्षणरूपं कुर्वाणा धनोपचयं प्राप्नुवन्ति । तस्माद् विप्रो दातारं, आढयो ऽधमर्ण, वणिक् क्रेतारं, राजा व्यवहर्तारं बलेन न प्रवर्त- येत् । पूर्वश्लोकाभिहितबल निषेधस्यैवायं प्रपञ्चः । (४) बान्धवानपि दापयेदिति प्रसङ्गेन सप्तानां परतः यथासंभवं क्लेशवृद्धीराह- इ - त्रय इति । तत्र साक्षि प्रतिभूकुलानि क्लेशभाति । तत्र साक्षिणां सत्योक्तौ न किञ्चिद् अनृतोक्तौ कुलनाशायुक्तम् । प्रतिभुवः प्राति भाव्यदर्शनादौ न किञ्चित् तददर्शनादौ स्वधनव्ययः । एवं कुलस्य कुपुत्रेण नाशः तस्मात् परतः क्लेशभाजस्तेन बलान्न प्रवर्तनीया इति भावः । प्रतिभूपदं निक्षेपाच्यायु पलक्षकम् । सोऽपि परार्थ एव क्लिश्यति । निक्षेपधारणेन किञ्चित् तन्नाशे चाप्रतिष्ठा तद्दानमिति । परेभ्यो विप्रा- दीनां चतुर्णा प्रतिग्रहाणां दानानर्धविक्रयकरादिग्रहै रुपचय इति । तस्मात् विप्रेण दाता, आढचेनाधमर्णः, वणिजा क्रेता, नृपेण कार्यार्थी च न बलात्प्रेरणीय इति मच. भावः । (५) कुलशब्देन कुलीनोऽभिप्रेतः तस्योपन्यासो दृष्टान्तार्थः । यथा कुलीनः परार्थे यतमानः क्लिश्यति एवं साक्षिप्रतिभुवाविति तस्मान्नात्र बलात्कारः कर्तव्य इत्यभिप्रायः । नन्द. (६) कुलं अविभक्ता ज्ञातयः । भाच. याज्ञवल्क्यः निवर्तनीया व्यवहाराः बेलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस्तथा ॥ (१) यास्मृ. २१३१; अपु. २५३।५९-६०; विश्व.२ ३२ पा (प); मिता; अप.; स्मृच. १२८ पू.; स्मृसा. ८४; पमा. २१४; व्यचि.९९ पू.:१०१ वर्त (रूप) स्त्री . गार (स्त्री- कृतमन्तरागेहं); नृप्र.८; ब्यत २३१ शत्रु (ग्राम); सवि. COM (१) प्रभुत्वादेव च राजा तदर्थाधिकृतो वा प्राड्- विवाकादिः –बलोपाधिविनिर्वृत्तान् इत्यादि । स्पष्टार्थः श्लोकः । विश्व. २।३२ (२) दुर्बलैर्व्यवहारदर्शिमिर्दृष्टो व्यवहारः परावर्तते, प्रचलदृष्टस्तु न निवर्तत इत्युक्तम् । इदानीं प्रबल- दृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह- - बलोपाधीति । वलेन बलात्कारेण । उपाधिना भयादिना | विनिर्वृत्ता- निष्पन्नान् व्यवहारान् निवर्तयेत् । तथा स्त्रीभिः । नक्तं रात्रावस्त्रीभिरपि । अन्तरागारे गृहाभ्यन्तरे । बहिर्ग्रामा दिम्पः । शत्रुभिश्च कृतान् व्यवहारान् निवर्तयेदिति संबन्धः ।

  • मिता.

> (३) ततश्च व्यवहारांस्तानेव पुनः प्रवर्तयेदिति तात्पर्यार्थः । बलं हठः । उपाधिर्लोभद्वेपादिः । स्त्रीणां कर्तृत्वं द्रष्टृतयाऽर्थिप्रत्यर्थितया वा । नक्तंकृता रात्रि कृताः । अन्तरागारकृता वेश्ममध्यकृताः । बहिर्ग्रामा द्वहिस्तत्र कृताः । शत्रुताः शत्रुदृष्टाः । नक्तान्तरागार- बहिर्ब्रहणेन रहःकारणमुपलक्ष्यते। (४) उपाधिः छलम् । व्यत. २३२ (५) उपाधिश्छलं इति शूलपाणि: । उपाधिर्भयादि- रिति विज्ञानेश्वरः । तन्मते 'भीतादियोजित' इत्युक्त वचनेन पौनरुक्त्यम् । मैत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिध्यति || (१) मत्तोऽतिहर्षितः, अहङ्कृतो वा । उन्मत्तो ग्रह- गृहीतादिः । स्पष्टमन्यत् । विश्व. २।३३ +अप. दीक.

  • वीमि. मितागतम् । + स्मृच. अपगतम् ।

५०० पू.; चन्द्र. १०३ निवृत्तान् (निर्मुक्तं) रान् (रं ) शत्रु कृतांस्त (शूद्रकृतं य); वमि. विश्ववत् ; विता. १८ विश्ववत् ; सेतु. ३१८; प्रका. ८१ पू.; समु.७० गार (गारं). (१) यास्मृ. २।३२; अपु. २५३/६०-६१ तादि (तम); विश्व. २१३३ तादि (तप्र) बद्ध (बन्ध); मिता; अप.; स्मृच., १२८ वद्ध (बन्ध); स्मृसा.८४ विश्ववत् ; पमा. २१५; व्यनि. अपुवत्, ऋष्यशृंगः; नृप्र. ८; व्यत. २३१ - २३२ स्मृचवत् ; चन्द्र. १०३ विश्ववत्; वीमि.; व्यप्र. ३२; व्यउ. २०; विता. १८; सेतु. ३१८ स्मृचवत् ; प्रका. २४ स्मृचवत्, ऋष्य- शृंग: ; समु. १८-१९ स्मृचवत्.