पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् ५५३ । । युज्यते । केवलाकृते कार्ये चाहं किञ्चिदविज्ञाते त्वया विप्रलब्धाऽस्मीति वचनस्यावसरत्वात् । भर्त्राद्यनुमतौ तु किं वक्ष्यति ? तदुक्तम् – 'एतान्यपि प्रमाणाने भर्ता यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा च पतिपुत्रयोः ॥ अतिस्वातन्त्र्यमपि नियमितम् । 'अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः' । अपि अबुद्धिपूर्वे बालस्खलिते स्वामिना पत्न्यादयो नियोज्या अनुबन्धादिना । न तु तैः स्वाम्यविसर्गेऽपि, 'सा सद्यः संनिरोद्धव्या त्यजेद्वा कुल- संनिधौ' इति स्त्रीणामेव न पुंसः पारतन्त्र्यं पतितस्याप्या प्रायश्चित्तसमाप्तेः प्रतीक्षणोपदेशोऽतो वियोऽपि दासा- दीनां गरीयस्यामापदि कुत्रचिदस्ति । तेषु स्वामिन इत्येतदपेक्ष्य | भार्याशिष्यदासीनां यथास्वं पारतन्त्र्यं धनसाधारण्यात्तु न भर्तुरननुज्ञाप्य भार्याया यागादौ कचिदधिकार इति स्थितम् । यच्चेदम् - 'पुत्राणां भर्तरि ते वशे तिष्ठतिसा तथा । जीवतोरस्वतन्त्रः स्याजरयापि समन्वितः' || 'तयोरपि पिता श्रेयान्' 'अभाषे बीजिनो माता' इति । अनेन पुत्राणां पारतन्त्र्यम् । ननु चान्योन्य व्याहतमिति ? नास्ति व्याघातः । अनधिकारिणि पुत्रे बाल मातृपरतन्त्रता । मातुस्तु पुत्रे पारतन्त्र्यम् । मातृ- धनरक्षणं चोरादिदोषेभ्यः । पुत्रस्थापि यत् पितरि पार- तन्त्र्यं तदपृथक् कृतस्य तद्गृहे निवसतः, यदा तु पितृ- विभक्तो धनं स्वयमर्जितवांस्तदा 'ऊर्ध्वं तु षोडशाद्वर्षात्पुत्रं मित्रवदाचरेत्' इति स्वातन्त्र्यमेव । बालः अप्राप्त- व्यवहारः पोडशवर्षात् प्राक् । स्थविरो लुप्तस्मृतिः जराभिभूतोऽतीतव्यवहारः । यद्यप्ययं कस्याञ्चिलायां प्रकृतिस्थोऽपि भवति, तथापि न प्रमाणं, अप्रत्ययात् । यस्य तु भर्तुः स्त्री जनानां कार्यप्रतिवन्धेन वर्तते तया- अनुज्ञातमेतद्भवति (१) । असंबन्धकृतः, परार्थ मनियुक्तो यो व्यवहारयति, न भ्राता न पिता, देवदत्ताय शतं धार- यतीत्येवमादि वक्तुं न लभते । ये तु भ्रातरः समान- कार्याः सर्वं च तुल्यव्यवहारिणस्तेप्रामन्यतरेणापि गो- पश्चादिविक्रयो गृहादिबन्धनप्रयोगादि च क्रियमाणं सिध्यति । संबन्धित्वाय व्यवहारशब्दः सर्वव्यबहार- ग्रहणार्थः । प्रकरणाहणव्यवहार एव स्यात् । मेधा. (२) क्षीवोन्मत्तव्याध्यापहतचित्तगर्भदासवालाति- | बुद्धैः असंबद्धेन पितृभ्रातृनियुक्तादिव्यतिरेकेण यो भावबुद्धिश्वलिता क्षणमपि विवक्षिते कार्ये नावतिष्ठते । अन्यद्वदन्तोऽन्यदाचरन्ति । एवंरूपोऽप्रकृतिस्थः । अन्यथा सर्व एव पुरुषाः कामादियुक्ताः जराजीक्षि : शिरोरोगार्तिमन्तोऽप्रकृतिस्थाः स्युर्न चैवमध्यधीनो गर्भ ! दासः पुत्रशिष्यौ भार्या च । यदापि रूढ्या गर्भदास एव अध्यधीनस्तथाऽप्यस्वतन्त्रोपलक्षणार्थत्वात् सर्व एव ते गृह्यन्ते । स्वधनदानादि स्वामिनमनुज्ञाप्य यत्कुर्वन्ति तत् सिध्यति । तथा च नारदः- 'यद्वाल: कुरुते कार्यम- स्वतन्त्रकृतं च यत् । अकृतं तदिति प्राहुः' इति । 'अस्वतन्त्रः स्मृतः शिष्यः आचार्ये तु स्वतन्त्रता । अस्व- तन्त्राः स्त्रियः पुत्रा दासाद्यश्च परिग्रहः ॥ स्वतन्त्रस्तत्र तु गृही यस्य यत्स्यात्क्रमागतम् ॥ ननु यदि न स्वा तन्त्र्यं स्त्रीणामुच्यते पुंसश्च स्वातन्त्र्यमेतदनुपपन्नम् । यतः साधारणं धनं कथमेकाकी मनुष्यो भार्ययाऽननुज्ञातो दानविक्रयादिभ्यः प्रभवेदत इत्युक्तम्- 'स्त्रीकृतान्य- प्रमाणानि कार्याण्याहुरनापदि' इति । तथा 'कुले ज्येष्ठ' इत्युपक्रम्य तत् कृतं तस्य कृतं नास्वतन्त्रकृतमिति च । धनसाधारण्ये हि पुरुषोऽपि स्त्रीवदस्वतन्त्रः । यच्छन्दे स्वाम्यं पारतन्त्र्यं चेति तद्विरुद्धमिव, स्वामित्वमत्र एषा च व्यवस्था इति योज्यं भवति । पारतन्त्र्यं परविधेयतया सदिच्छानुवर्तित्वं, यदि च परतन्त्रः परेच्छामन्तरेण विनियोक्तुं न लभते, कीदृशमस्य स्वाम्यम् ? अथ दाना- धानविक्रये यत्र प्रकृतत्वादनीशः, स्वशरीरे परिभोगादौ यावदिच्छं स्वधर्म विनियोज्यते परतन्त्र: महाधनानां शास्त्रनिगृहीतात्मनां द्विजानां येनात्मोपभोगो भवेत् (?) बालस्य स्वाम्यपारतत्र्ये उपपन्ने । यदा प्राप्तव्यवहारास्तदे- शिष्यन्ते एव पुत्रादयः । स्त्रियास्तु न कदाचिदपार- तन्त्र्यम् । 'बालयौ वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वतन्त्रेण कर्तव्यं कार्य किञ्चिदिति स्थितिः' ॥ स्वाम्ये पारतन्त्र्ये च स्त्रीणां समावेश उच्यते । न पारतन्त्र्य- वचनेन स्त्रीणां स्वधनविनियोगनिषेधः क्रियते । किं तर्हि ? अस्थाने दानाधानविक्रयादि वार्यते । परतन्त्रा- स्तासां स्थानं निरूपणीयं, न हि ताः स्वयं विवेक्तुमलमेव पात्रं अर्हति भूमिहिरण्यादिप्रतिग्रहमनेन कन्यासंबन्धं कुर्याद् इदं द्रव्यमस्मात् ऋतुं विक्रेतुं वाईसीत्येवमादि- तया शातभ्यम् । अतो लेख्यादिकाले भर्त्राद्यनुमतिरुप . ब्य. का. ७०