पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ५५३ दृष्टं साक्षात्कृतं रूपमाकृतिः लक्षणं व्यावृत्तिचिह्नं प्रमाणं मात्रगुञ्जादि आढकद्रोणादि वितस्तिहस्तादि च गुणः शुक्लनीलभ्राजिष्णुत्वादिश्च येषु ते तथाविधाः, सर्व व्यवहाराः, सिध्येयुः । श्रीमू. पश्चिमं चैषां करणमादेशाधिवर्ज श्रद्धेयम् । त एते व्यवहारा उपादेया लेख्यप्रमाणकाः प्रवर्तन्ते । तच्च लेख्यं पूर्वकालकृतमेकमुत्तरकालकृतं चापरमित्येवं द्वयोरेकार्थगोचरयोर्लेख्यकरणयोः पूर्वोत्तरकालजन्मनो यदि कदाचिदुपलब्धिस्तदा किं प्रतिपत्तव्यमित्याह - पश्चिमं चैषां करणमिति । एतत्संबन्धि उत्तरकालकृतं लेख्यकरणं, श्रद्धेयं विश्वसनीयं पूर्वकरणपरीक्षापुरःसर- प्रवृत्तिकत्वादुत्तरकरणस्येत्यभिप्रायः आदेशाधिवर्ज- मित्यपवादः । आदेशं बन्धं च वर्जयित्वा आदेशः आदानं अर्थस्य स्वत्वेन स्वीकरणं क्रयः प्रतिग्रहो बेति यावत् आधिस्तु बन्धो भोग्यरूपः । आदेशा ध्योस्तु विषये पूर्वकरणमेव श्रद्धेयं, यतोऽर्थस्य परसंस्थ त्वेन तद्भुक्त्युपोद्वलितस्य पूर्वलेख्यस्य प्राधान्यं न हीयते । तथा च याज्ञवल्क्यः—'सर्वेष्वेव विवादेपु बलवत्युत्तरा क्रिया । आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' ॥ इति । मनुः निबर्तनीयो व्यवहारः म॑न्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा । असंबद्धकृतश्चैव व्यवहारो न सिध्यति ।। (१) कार्यपर्यायो व्यवहारशब्दः । यत्किञ्चिद्दानाधान विक्रयादिकार्य लेख्यादि च प्रमाणमेतैः कृतं तन्न सिध्यति कृतमप्यकृतं भवति । मत्तोन्मत्तौ विख्यातौ । आर्तो धनबन्धुनाशादिपीडितः प्रत्युपस्थितभयश्च । यौगिकत्वान्मत्तादिशब्दानां यावन्मदादियुक्तास्तावत्त त्प्रमाणमावस्थिकोऽयं प्रतिषेधः । प्रदर्शनार्थ चैतदप्रकृति स्थत्वमात्रस्य । यथोक्तम्- 'कुर्यादप्रकृतिं गतः । तदप्य- (१) मस्मृ. ८/१६३; व्यक. १०३; स्मृच. १२८ बद्ध (बन्ध); स्मृसा. १२३ तांध्यधीनै: (ध्यधीनैर्वा ); पमा. २१५; व्यचि.१०१ र्ताध्यधीनैः (भ्यधीनैश्च); सवि. ५०० तथ्य धीनैः (तिभीतैश्च); चन्द्र.१७० तथ्यधीने: (ध्यधीनैर्वा) बद्ध (गन्ध); भ्यसौ. ९४; व्यप्र. ९४ याज्ञवल्क्यः; प्रका. ८१ स्मृचवत् । समु. १९ स्मृचवत्. १ तदा प्रकृतमस्याडुरस्वतन्त्रे स. कृतमेघाहुरस्वतन्त्रः स हेतुतः ' । इति अप्रकृतिस्थ- श्रोच्यते उपप्लुतबुद्धिः स्वकार्यविवेचने असमर्थः । उक्तं च – 'कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः । रागद्वेषपेरीताश्च ज्ञेयास्त्वप्रकृतिं गताः' ॥ इति कामा- दीनां द्वन्द्वं कृत्वा पीडितशब्देन तैः पीडिता इति साधनं कृतेति तृतीयासमासः । तेन पीडितस्य प्रतिषेधः । स चायं संप्रति मन्मथाधिष्ठः स्त्रीपरिरम्भणादि परीप्समानो भवति । अभियुक्ता द्यूतादिक्रियान्तरे दत्तावधानाः | एते हि तत्र संसजन्तः स्वामिनोऽपि स्व इत्यस्य प्राति- भाव्यादिक्रियानिश्चयस्थानवधानान प्रमाणम् । यतः क्रियान्तरावहिततया परेण पृच्छयमाना इदमस्मै दीय- तामङ्गीकृतं वा प्रातिभाव्यमियति वस्तुनीशेऽनेन च प्रकारेणोच्यत इत्येवमादि निपुणतो नावधारयन्ति । प्रकृतक्रियाविघ्नो वा मा भूदस्मिन्निहस्थ (?) इत्यभिप्रायम- भ्युपगच्छन्ति । गच्छ त्वं यद्भवीषि तत्सर्वमनुष्ठीयत इति पारतन्त्र्यं वाऽङ्गीकुर्वन्ति । तदुक्तम्- 'अस्वतन्त्रः स हेतुत' इति । येन हेतुनाऽस्वतन्त्रोऽप्रमाणं सोऽस्य स्वतन्त्र- स्थापि हेतुर्विद्यते । यथाऽस्वतन्त्रः स्वमपि न विनियुङ्क्ते एवमयमपि कामादिवशीकृतः अर्थविवेकं कार्याणां च गुणदोपौ क्रियमाणावनधिगच्छन्नस्वतन्त्रेण तुल्यो भवति । आर्तौ व्याख्यातः । अभियुक्तार्तशब्दौ च धर्मि- वचनौ लक्षणया धर्मपरौ विज्ञेयौ । अभियोगोऽभियुक्त आतुरत आर्त इति । व्यसनानि कामक्रोधसमुत्थितानि मृगयादीनि । अभियुक्तो व्यसन्यपि काञ्चित्क्रियां तात्पर्येण कुर्वन्नुच्यते । अव्यसन्यप्रवृत्तोऽपि तद्व्याख्यानरतः (१)। अथवा कामक्रोधशब्दौ कामिनि क्रोधवति वर्तेते । अत्र च पक्षे भयव्यसनशब्दौ कृतद्वन्द्वौ तृतीयान्तौ पीडित- शब्देन संबध्येते । अन्ये तु स्वतन्त्रा एव । रागद्वेषाभ्यां परीता व्याप्ताः । रागः क्वचिदात्मीयेष्त्रभिषङ्ग आत्मीय- तया परिगृहस्य क्वचित्संबन्धिनापि ध्यायतो वाऽमि- प्रेतसिद्धौ मनसः परितोषो रागः तद्विपरीतो द्वेषविषयः । परिपन्थिन्यनात्मीयतया परिगृहीते तदस्वास्थ्यतद्विपर्यया- परितुष्टिवृत्तिरित्येवमादिरूपौ रागद्वेषौ । सर्वथाऽस्य १ कतार्था भ. २ पराश्चेति शे. ३ क्तविश. ४ (०). ५ (०), ६ स्यचित्