पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बः व्यवहारे स्वतन्त्राः ' कुटुम्बिनौ धनस्येशाते । कुटुम्बिनौ दम्पती । तौ धनस्य परिग्रहे विनियोगे च ईशाते । यद्यप्येवं, तथापि भर्तुरनुज्ञया विना स्त्री न विनियोक्तुं प्रभवति । भर्ता तु प्रभवति । तदेतेन वेदितव्यं, 'न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेय- मुपदिशन्ती'ति । उ. तैयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् । तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः तयोरैहिकेष्वामुष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनि- योगेनाऽपि । उ. 3 कृतनिवर्तनम् शङ्खलिखितौ व्यवहारेऽस्वतन्त्राः 'अस्वतन्त्राः पितृमन्तः । पितृग्रहणं मातुरपि प्रदर्शनार्थम् । कौटिलीयमर्थशास्त्रम् | सिद्धाः कीदृशा व्यवहाराः, असिद्धाश्च कीदृशाः स्मृच.१०३

  • तिरोहितान्तरगारनतारण्योपध्युपहरकृतांच

व्यवहारान् प्रतिषेधयेयुः । कर्तुः कारयितुश्च पूर्वः साहसदण्डः । श्रोतॄणामेकैकं प्रत्यर्धदण्डाः । श्रद्धेयानां तु द्रव्यव्यपनयः । अग्राह्यव्यवहारानाह- तिरोहितेत्यादि । तिरोहिता- वीन् षड् व्यवहारान् आरप्स्यमानान् आरब्धांश्च, प्रति षेधयेयुः । तत्र तिरोहितः प्रच्छन्नदत्तविषयः प्रच्छन्नात्त विषयश्च । स च स्वामिदेशकाल क्रियाद्रव्यादिभेदेन बहुविधः । तत्र स्वामितिरोहितः स्वाभ्यनुज्ञां विनैवान्येन तद्धनं यद् विनियुज्यते, देशतिरोहितः परोक्षसाक्षिकः, (१) आष. २/२९/३; हिध. २ २०. (२) आघ. २ | २९ | ४ ; हिध. २।२० (अन्येऽपि ० ). (३) स्मृच. १३०; स्मृसा. १२५; व्यचि. १०४; समु. ७१ शंख:; विच. २७. (४) कौ. ३१ अयमेव स्थलनिर्देश: सर्वत्र बोध्यः । कालतिरोहितः शतवर्षीपेक्षितऋणादिविषयः, क्रिया- तिरोहितः देशान्तरस्थे प्रमाणलेख्ये ऋणार्थनाविषयः, द्रव्यतिरोहितः द्विपाच्चतुष्पात्स्थावरेषु दृष्टयगोचरेषु तद्विक्रयः । अन्तरगारकृतः गर्भागारकृतः, नक्तकृतः रात्रिकृतः, अरण्यकृतः, उपधिकृतः छद्मकृतः, उपहर- कृतः रहस्यकृतो दातृप्रतिग्रहीतृमात्र विदितः । कर्तुः प्रतिषिद्धव्यवहारप्रयोक्तः, कारयितुस्तत्प्रयोजकस्य च, पूर्वः साहसदण्डः । श्रोतृणां धर्मस्थानं, एककं प्रति प्रत्येकं, अर्धदण्डाः पूर्वसाहसस्यार्थानि । श्रद्धेयानां तु निष्कपटानां तु प्रतिषिद्धव्यवहारस्पर्शिनां, द्रव्यव्यपनयः साध्यद्रव्यहानिः, न तु दण्ड इत्यर्थः । श्रीमू. परोक्षेणाधिकर्णग्रहणमवक्तव्यकरा वा तिरो हिताः सिध्येयुः । प्रतिषिद्धापवादमाह - परोक्षेणेति । परोक्षेण आधि- कर्णग्रहणं अप्रत्यक्षं गृहारामादिकमाधिं कृत्वा ऋणग्रहणं, सिध्येत् तिरोहितमपि । अवक्तव्यकरा वा अमुकधनममु- केन व्यवह्रियमाणं न दुष्यतीति लोकसंप्रतिपन्ना व्यवहारा वा, तिरोहिताः स्वामितिरोहिता अपि, सिध्येयुः । श्रीमू. दायनिक्षेपोपनिधिविवाहसंयुक्ताः स्त्रीणामनि- कासिनीनां व्याधितानां चामूढसंज्ञानामन्तर- गारकृताः सिध्येयुः | अन्तरगारकृतानुपादेयानाह -- दायेत्यादि । दायो दायविभागस्तत्संबद्धः, निक्षेपः आभरणाद्यर्थ स्वर्णा- द्यर्पणं अथवा अन्तःस्थद्रव्यरूपसंख्या प्रदर्शनपूर्व वासनस्यार्पणं तत्संबद्धः, उपनिधिः अनाख्यातवस्तु- गर्भसमुद्रवासनोपनिधानसंबद्धः, विवाहसंयुक्तः स्त्रीधन- विषयः इत्येतेऽन्तरगारकृताः, स्त्रीणां, अनिष्कासिनीनां गृहबहिरनिर्गत्वरीणां, व्याधितानां चामूढसंज्ञान चानष्टचेतनानां, अन्तरगारकृताः सिथ्येयुः । साहसानुप्रवेश कलहविवाहराजनियोगयुक्ताः पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयुः | रात्रिकृतव्यवहारेष्वदुष्टानाह — साहसेत्यादि । साहस- श्रीमू.