व्यवहारकाण्डम् स्मृत्यन्तरम्–‘न्यायापेतं यदन्येन राशाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥ यत् पुनः पिता- महोत्तम् – 'ग्रामे दृष्टे पुरं यायात् पुरे दृष्टस्तु राजनि। राशा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः ॥ इति तत्पूर्वसभातः प्रकृष्टसभान्तरालाभविषयम् । स्मृच. १२९ (५) तत्त्वतः पराजितोऽपि तात्त्विकसाक्ष्यादिदोषमा शय विचारस्यासम्यक्त्वं मन्वानस्तद्दोषं निरूपाख्य- त्वेनावधार्य विवादपदाद्धनात् द्विगुणं दण्डो दाप्यः । व्यचि. १०० (६) पूर्वविचारकस्य प्रामाणिकत्वसंशयेनाऽजितो ऽस्मीति यो न्यायेन पराजितोऽपि सन् मन्येत, तं परो वादी पुनर्जित्वा विवादपदाद् द्विगुणं दमं दापये- दित्यर्थः । - वीमि नारदः न्याय्य निर्णयेऽपि पुनर्व्यायवादिनः पण: ' तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ॥ (१) अत्र तीरितानुशिष्टशब्दौ द्वावप्न्येतौ स्मृतितन्त्र- सामयिकौ । उपदेशात्प्रक्रमाच्च तयोः सार्थकत्वमिदम् । यत् तीरितमित्युक्तं, तद्व्यवहारस्य चतुर्थपाद निर्णयावसरे वादिप्रतिवादिनोः सभ्यैरेकवाक्यतयोच्चरित जयपराजय- शब्द मात्रप्रकटीकृत निर्णयं, एतत्तीरितमित्युक्तम् । अनु शिटं पुनरुच्यते, यत्सभ्यैरेव तदनन्तरमपराधसारासार- पर्यालोचनया निष्टङ्कितं निगदितदण्डं तदनुशिष्टम् । तथा हि, 'उद्दिष्टजयशब्दं यत्तत्तीरितमिहोच्यते । उद्दिष्टात्तदण्डं च अनुशिष्टं कुदृष्टके' ॥ एतन्निर्णयस्य स्वरूपमास्थानद्वयं, अस्मिन्निगदस्थानद्वयं, अस्मिन्नि- (१) नासं. १९५६ तः (णा); नास्मृ. ११६५; शुनी ४ ७६९-७७० (द्विगुणं दण्डमादाय पुनस्तत्कार्यमुद्धरेत्); अभा. १७ नासंवत् ; मेधा.८।२( = )उत्त: ९ २ ३३ उत्त.; मिता २।३०६ च (वा); अप. २१८० स्मृत्यन्तरम् : २३०५; व्यक. १०२; स्मृच. १२९ ती (ति); स्मृला.८४:१२२ चानु (चार्थ); पमा. २१३ नासंवत् ; दीक.५६ मन्येत वि (न मन्येत); व्यचि.१०,९८; दावे. ३५३ तत्कार्य पुनरु (तयै- तत्कार्यमु ); व्यत. २३१ स्था (दा); चन्द्र. १०३ तत्का... रेतू (पुनवांदे नियोजयेत्); व्यसौ. ९३ विधर्मतः (न कर्मवित् ) स्था (दा) तत्कार्य पुनरु ( पुनस्तत्कार्यमु); विता. ९१ चा (वा); सेतु. १२६ स्था (दा); प्रका.८१ नी (ति); समु. ७१. | गदस्थानद्वये एकतमप्रदेशेऽपि स्थित्वा य एवात्मानं विध र्मणा कुन्यायेन पराजितं मन्येत, स एव तत्र स्थित एव । राजकुले द्विगुणं दण्डं स्वमास्थाय उत्तरकरणं चोद्दिश्य तत्पुरतः तत्कार्ये पुनरुद्धरेदिति ।
- अभा. १७-१८
(२) तीरितं साक्षिलेख्यादिनिर्णीतमनुद्धृतदण्डम् । अनुशिष्टमुद्धृतदण्डं दण्डपर्यन्तं नीतमिति यावत् । मिता. २।३०६ (३) यत्तस्त्र पराजय हेतुलिखितं तीरितम् । यच्च तस्य दण्डनं तदनुशिष्टम् । अप. २।३०६ • (४) विधर्मतः धर्मशास्त्रविरोधतो जातमिति यो विवादी सभ्यनिर्णीतमप्यौद्धत्यान्मन्यत इत्यर्थः । स्मृच.१२९ (५) तीरितं निर्णीतम् । अनुशिष्टं परेषु प्रतिपादि- तम् । + स्मृसा. ८४ (६) तीरितं समापितम् । निर्णयपर्यन्तं प्रापित- मिति यावत् । 'पार तीर कर्मसमाप्तौ इत्यस्य निष्ठान्तं रूपम् | अनुशिष्टं अर्थिप्रत्यर्थिनौ प्रति कथितं जयपत्रे चारोपितम् । विधर्मतो धर्मविपरीतम् । कुदृष्टमिति यावत् । योऽर्थिप्रत्यर्थिनोरन्यतरो मन्येत स पराजयनिमित्तं दण्डं द्विगुणमादायाङ्गीकृत्य तत्कार्ये पुनरुद्धरेत् चतु. पाद्व्यवहारप्रवर्तनेन निर्णाययेत् । व्यप्र. ९० कुनिर्णयिनां दण्ड: दुष्टे व्यवहारे तु सभ्यास्तं दण्डमानुयुः । न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते । (१) दुईष्टे व्यवहारे अन्तःकरणेन पुनर्विचारिते कृते वादिप्रतिवादिनोर्यस्यैवावसायो भवति स एव द्विगुणं दण्डं प्राप्नुयादिति । तद्दण्डहेतुश्चात्रैवायमुक्तः - न हि जातु इत्यादि । Xअभा. १८ (२) तंत्र कुकृतत्वे सिद्धे प्राङ्न्यायद्रतॄणां दण्डमाह नारदः - दुर्दृष्ट इति । अयं च सभ्यानामेव दण्डो जेतुर्दुर्दर्शनाप्रयोजकत्वे वेदितव्यः । प्रयोजकत्वे तत्र तस्यापि दण्डः । स्मृच.१२९
- व्यचि. अभागतम्। + चन्द्र स्मृसागतम् | X नाभा. अभावत् ।
(१) नासं. ११५७ स्तं (स्तत्) ण्डं ( ण्डात् ) ; नास्मृ. ११६६; शुनी. ४१७७२ उत्त.; अभा. १८; व्यक. १०३; स्मृच.१२९ स्तं (स्ते) ण्ड (ण्डात्); व्यति. १००; व्यसौ. ९३; व्यप्र. ९१; प्रका ८१ स्मृचवत्; समु. ७१ स्मृचवत्.