पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनर्न्यायः मनुः अनिबर्तनीयं कार्यम् 'तीरितं चानुशिष्टं च यत्र वचन यद्भवेत् । कृतं तद्धर्मतो विद्यान्न तद्भूयो निवर्तयेत् ॥ (१) यत्र वचन राजाधिकैरणे व्यवहारपदं तीरितम् 'पार तीर कर्मसमाप्तौ' निश्चितम् । असौ यत्र प्रयुञ्जीतेति न केवलं वाचा संत्योक्तम् । यावद् अनुशिष्टं दण्ड प्रणयनं कृतम् । तद्राजा कृतमेव विद्यान्न पुनर्निवर्तये दन्तरेण द्विगुणं दण्डम् । यथाह – 'द्विगुणं दण्डमा स्थाय तत्कार्य पुनरुद्धरेत्' इति ।

  1. मेधा.

, (२) यत्पुनर्मनुवचनं 'तीरितमि'त्यादि तद् अर्थ प्रत्यर्थिनोरन्यतरवचनाद् व्यवहारस्याधर्मतो वृत्तत्वा शङ्कायां पुनर्द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभादिना प्रवर्त- नीयः इत्येवंपरम् । यत्पुनर्नृपान्तरेणापि न्यायापेतं कार्य निवर्तितं तदपि सम्यक् परीक्षणेन धर्म्ये पथि स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञाऽज्ञान भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥ इति स्मरणात् । मिता. २।३०६ (३) 'पार तीर कर्मसमाप्तौ इति निष्ठाप्रत्यये रूपम् । तेन निर्णीय परिसमापितमित्यर्थः । अनुशिष्टं साक्षिभि रुक्तम् । यत्र क्वचन प्रामादिसभायाम् | +व्यक. १०२ (४) तत्स्त्रीकृतत्वादिनिवृत्तिहेत्वभाव विषय एवोत्सर्ग- मात्रमिति मन्तव्यम् । ÷स्मृच. १२९ (५) यत्र कचित् ऋणादानादिव्यवहारे यत्कार्य + व्यचि., उयत, नन्द व्यकवत् ।

  • मवि. मेधागतम् ।

÷ पर्मा स्मृचवत् । (१) मस्मृ. ९ | २३३; मिता. २१३०६ यद्भवेत् (विद्यते) विद्यान्न तद्द्भूयो (ज्ञेयं न तत्प्राशो); अप. २।३०५ (=) मितावत् ; व्यक. १०२; स्मृच. १२९ ती (ति); पमा. २१४; व्यचि.९८ येत् (ते); व्यत. २३१ यद्भ (संभ); सवि. ५००; व्यप्र. ९०; विता.८३० चा (वा) शेषं मितावत्; सेतु. १२६ या (द्वा); प्रका. ८ १ स्मृचवत् ; समु.७१. १ कार. २ सत्यैरक्त. धर्मतस्तीरितम् । 'पार तीर कर्मसमाप्तौ इति चुरादौ पठ्यते । शास्त्रव्यवस्थानिर्णीतम् । अनुशिष्टं दण्डपर्यन्ततां च नीतं स्यात् तत्कृत मङ्गीकुर्यान्न पुनर्निवर्तयेत् एतच्चा- कारणात् । अतः कारणकृतं निवर्तयेदेव । निवर्तनीयं कार्यम् Xममु. अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा | तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥ (१) धनग्रहण संबन्धेन पूर्वे निःस्वीकरणं, अयं तु निमित्तान्तरेणा ज्ञानादिना । अमात्यो राजस्थानीयादिः । तं सहस्रं च दण्डयेत् । गर्गशतदण्डनवत्समुदायेन वाक्यपरिसमाप्तिः । मेधा. (२) अमात्यः सेनापत्यादिः । अन्यथा कुर्युरुत्को चादिना । कुर्याद् व्यवस्थापयेत् । सहसमित्यल्पविषये सहस्रपणविवादे । अधिके त्वधिकम् । मवि. (३) राजामात्याः प्राड्विवाको वा व्यवहारेक्षणे नियुक्तो यदसम्यग्व्यवहारनिर्णयं कुर्गुस्तत्स्वयं राजा कुर्यात् पणसहस्रं तान् दण्डयेत् । इदं च उत्कोचधन- ग्रहणेतरविषयम् । उत्कोचग्रहणे 'ये नियुक्तास्तु' इत्युक्तत्वात् । ममु. (४) सहस्रं पणान् । दण्डव्यवहारेंऽनुक्तसंख्येयायाः संख्यायाः पणगतत्वेन परिभाषितत्वात् । व्यप्र. ९१ याज्ञवल्क्यः पुनर्न्यायस्थानानि, पुनर्न्यायविषयश्च नृपेणाधिकृताः पूगा: श्रेणयोऽथ कुलानि च । x मच., भाच. ममुगतम् । (१) मस्मृ. ९९२३४; सुनी. ४७७१-७७२; व्यक. १०३ यत् (ये) च (तु); स्मृच. १३० त्याः (त्यः) यत्कुर्युः (यः कुर्यात् ) तान् (त्तं); पमा. २१२ त्या: (त्यः) शेषं व्यक- वत् ; व्यचि. १०० व्यकवत् ; दवि ३५२ अमा (स्वामा) को वा (काश्र) शेषं व्यकवत् ; सवि. ५०१ यत्कुर्यु: (यः कुर्यात् ) ; व्यसौ. ९३ व्यकवत् ; व्यप्र. ९१ व्यकवत् ; विता. ९२व्यकवत् ; प्रका. ४४ स्मृचवत्; समु. ७१ स्मृचवत्. १ अर्थतस्तु. २ णाप्रज्ञा.