निर्णयकृत्यम् (१) इदानीं सोत्तरनिर्णय उच्यते । अत्र तावत्पणो पन्यास एव निरूप्यते येन धनिकेनर्णिकपार्श्वे द्रव्यं लभ्यं तेन द्रव्यप्रार्थनमात्रैव भाषा करणीया । तं चोप- न्यस्यति वादी (?) । तदा भाषायामधिकप्रार्थनादोषः अतो यदा प्रतिवादी सत्यार्थेऽपि तस्य मिथ्योत्तरं ददाति । तदा धनी स्वसत्यावष्टम्भखरीकरणार्थ ऋणि- कस्यामर्षादधिकद्रव्यवाहनार्थं च तृतीयपादे स्थितः पणमुपन्यस्य क्रियोपन्यासमपि करोति तदा एत्र वादिनः क्रियोपन्यासकालः । प्रतिवाद्यपि यदा असन्तमेवाभियोगं दत्तमात्मनो जानाति तदा भाषानन्तरमेव मिथ्योत्तरं दत्वा तस्यैवोत्तरस्यावष्टम्भनिश्वयार्थ वादिनः स्वामर्षात् साकोटनद्रव्यवाहनार्थे पणोपन्यासं करोति एष प्रति वादिनः पणोपन्यासकालः । अत्र च यः पणो वादि- प्रतिवादिनोरेकतरेणापि रोषामदुपन्यस्तः स सोत्तर शब्देनोच्यते । तेन सह यो वादः स सोत्तरपणः । तस्मिन् विवादे सोत्तरपणे य एव कश्चिद्धीयते अवसायं प्राप्नोति स एव हि पराजयेण मिथ्यावादित्वात् द्विगुणं दण्डं च राज्ञात्मने दाप्य इति । अत्र श्लोके केचिदेवं पाठान्तरं पठन्ति यथा 'स पणं स्वकृतं दाप्य' इति । एवमप्यत्र न किंचिदुष्यत इति । यतो द्यूतेन द्यूत. कारयोर्द्वयोरपि परस्परं दीव्यतोर्य एव पराजयं प्राप्नोति स एव पर्ण ददातीत्येव न किंचिद्भ्रान्तम् । अभा.५ नाभा. १।५ (२) सोत्तरस्य विशेष उच्यते । विवादे सोत्तरपणे । विरुद्धो वादो विवादः, अन्योऽन्यथा ब्रवीति अन्यश्चा- न्यथा । द्वयोः सोत्तरपणयोर्यस्तत्र हीयते पराजीयते स पणं स्वकृतं दाप्य: येन दश कृतं स दश, येन विंशतिः स बिंशतिमिति । किं च विनयं च पराजये । तस्मिन् व्यवहारे पराजये यः शास्त्रोक्तो दण्डः तं च । एकस्य सोत्तरपणत्वेऽप्यनेनैव गतार्थत्वान्नोक्तम् । 'जयपत्रदानं, छलपराजयविषयः, त्रिविधपराजयनिर्णयक्रमः " मध्ये यत्स्थापितं द्रव्यं चलं वा यदि वा स्थिरम् । . पश्चात्तत्सोदयं दाप्यं जयिने पत्रसंयुतम् || बिन (निर्ण); चन्द्र.१०३ च पराजये (चैव राजनि); प्रका ७७; समु. ६.७ पर्ण (धनं); विव्य. २ क्रमेण कात्यायनः. (‘ (१) अप.२१८४ चलं (चरं) पत्रसंयुतम् (जयपत्रकम् ); स्मूच. १२० प्यं (प्यो); पमा. २००; स्मृचि.५९ (= ) ५४३ सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थानं हीयतेX || स्वयमभ्युपपन्नोऽपि स्वचर्याबसितोऽपि सन् | क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥ (१) अत्रावसन्नास्त्रयोभिहिताः । एकः स्वयमभ्युप- पन्नः स्वमुखेन प्राप्तावसाय: । द्वितीयः स्वचर्यावसन्नः कूटलिखितसाक्षिप्रपञ्चन प्रप्रञ्चकरणेन स्वकीयदुष्ट- चर्यया' दुश्चरित्रेणावसन्नः । तृतीय उद्दिष्टसाक्षिभि- रेवावसायं प्रापितः । अयं त्रिविधोऽयवसन्नो राज्ञा स्वेच्छया विधूत्य दण्डनीयः ? किं तर्हि ? परं सभ्यावधारणं सोऽप्यर्हेत । किमुक्तं भवति ? यावत्सभ्यै- र्दण्डावधारणं न निगदितं तावन्न धारणीयोऽसाविति । अभा. २७ (२) स्वयमभ्युपपन्नः स्वयमङ्गीकृतपराजयः । स्व- चर्यावसितः स्वचेष्टया वैवर्ण्यस्वेदकम्पादिकया पराजित- त्वेन ज्ञातः । क्रियावसन्नः क्रियया साक्षिदिव्यादिकया प्राप्तावसादः ।
- व्यक. १०१
सभ्यैरेव जितः पञ्चाद्राज्ञा शास्यः स्वशास्त्रतः । जयिने चापि देयं स्याद्यथावज्जयपत्रकम् ॥ तत्र व्यवहारे यः कश्चित्प्राप्तावसायो भवति स सभ्यैः प्रकटितदण्डो निगदितदण्ड इत्यर्थः । राज्ञा शास्त्रानुसारवच्छास्यः । यश्च प्राप्तजयो भवति तस्मै जय- पत्रं दातव्यमिति । अभा. २७ स्थलादिनिर्देशश्च वादहानिप्र करणे x व्याख्यासंग्रह: ( पृ. २०३ ) द्रष्टव्यः |
- व्यचि., व्यत, चन्द्र, सेतु व्यकगतम् ।
पत्रसंयुतम् (जयपत्रकम् ); नृप्र. १७ ध्ये यत् (ध्यस्थं ) त्रसंयु- तम् (त्रमुत्तरम् ); विता. ८३ जयि... तम् (जेत्रे सजय पत्रकम् ); प्रका. ७६ स्मृचवत्; समु. ६६. (१) नास्मृ. २१४१; अभा. २७ ; व्यक. १०१; व्यचि. ९५; व्यत.२९९; चन्द्र. १६७; ग्यसौ. ९१ त (त्तु); सेतुः ११५ व्यसौवत्. (२) नास्मृ. २४३; अभा. २७ जित: ( दमः ) त्रकम् (त्रवत्); व्यक. १०१ पू.; व्यचि.९५ रेव जितः (रवधृतः) पू.; व्यत. २२९ (सभ्यैरवधृतः पश्चात् स शास्त्रः शास्त्र गर्गतः) पू.; सेसु. ११५ व्यचिवत्, पू.