पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् निवेदितः स्यादित्याक्षेपेऽर्थिनोऽपि निरुत्तरत्वात् । तस्मा- उत्तरदानसमये प्रत्यर्थी राजादिभिरेवं बोधनीयो याव- त्येवांशे तव मिथ्यात्वनिश्चयस्ताव देवापह्नोतव्यमन्यत्सं- प्रतिपत्तव्यम् । क्वचिदप्यंशेऽनेन भवदुपरिसाधिते तव निरुत्तरत्वापत्तेः । एवं वाद्यपि भाषासमये सावधानेन त्वया स्वीयं यावदस्ति साध्यमेतदुपरि तत्सर्वे स्मारं स्मारं लेखनीयं, अन्यथा तदंशे निरुत्तरता तवापद्येतेति बोधनीयः । एवं साक्षिणोऽपि प्रमादादिभ्यः प्रन्याव- नीयाः । तथा सत्यनायासेन तत्वानुसरणं भवति । तथावश्यकं अन्यथा दिव्यादिना तत्वानुसरणं कर्तव्यं स्यादिति सर्वथा तत्त्वानुसरणेनैव व्यवहारपर्यवसानं विषेयमिति 'छलं निरस्येत्यस्यैव विधेः सर्वोऽयं शेषो न स्वतन्त्रो विधिर्येन दापनं सर्वस्य विधीयेत, अनिवेदित ग्रहणं वा प्रतिषिध्येत । नारदवाक्येऽपि देयं दानयोग्य मित्येवार्थः । न चैवं 'दाप्य' इत्यादीनामानर्थक्यमेव स्यादिति वाच्यम् । यतो लौकिकप्रमाणावष्टम्भेनैवमेव प्रतिभाति । तस्मात्तत्त्वानुसरणायान्यतरस्मादीहशि विपये दिव्यमेव ग्राह्यं इति अत्र तात्पर्यात् । कात्यायनादि वचनानामप्यत्रैव तात्पर्यम् । 'ऋणादिषु विवादेषु' इत्य- तोऽप्ययमेवार्थो दृढतामुपैति । यतः प्रमाणप्रतिज्ञावि संवादे निश्चयाभावस्ततस्तत्वानुसरणाय प्रमाणान्तरादर आवश्यक इति । अत एवाह साहसादौ प्रतिज्ञातार्थैक- देशविभावनेऽपि नैकदेशे प्रमाणान्तरानुसरणम् । साह- सिनो हि राजदण्डमात्रं न प्रत्यर्पणं कस्मैचित् । यद्यपि चौर्ये प्रत्यर्पणमस्ति । तथापि कतिपयचौरः सर्वे दाप्यत इति लोके प्रसिद्धतरत्वाद्यदि मद्गृहात्ताव दियचौर्येण गतमस्य च सविधे प्रमाणप्रमितमियदस्तीति चौराभि- योक्ता साधयति तदा तत एव सर्वे लभते । यदि त्वनष्टमपि कियन्नष्टसाधनावष्टम्भेन लब्धुमुपन्यस्यति तर्हि मिथ्यावादित्वान्नाष्टिक एव दण्डयो भवति इत्यपि लोके प्रसिद्धतरम् । अनेनैवाभिप्रायेगाह कात्यायनः- 'साध्याथांशेऽपि मदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकीर्तितम्' इति ॥ तत्त्वानुसरणं स्मृत्योर्विरोधे कथं स्यादित्यपेक्षायामाह– 'स्मृत्योर्विरोधे म्यायस्तु बलवान् व्यवहारतः' इति । व्याख्यातं चैत- त्प्रागेत्र । अर्थशास्त्रधर्मशास्त्रयोर्विरोधे धर्मशास्त्रानुसरणे- नैव तत्वानुसरणमित्याह – 'अर्थशास्त्रात्त बलवद्धर्म- शास्त्रमिति स्थितिः' इति । इदमपि प्रचितं प्राक् । तस्मादस्मन्मते 'छलं निरस्य' इत्याद्येतदन्तप्रघट्टकेन छल- निरासतत्वानुसरणावश्यम्भावप्रतिपादनमेवैकवाक्यतया लभ्यते इति ब्रूमः । व्यप्र. ९९, १०१ - १०२ नारदः एकदेशविभावितन्यायः अनेकार्थाभियुक्तेन सर्वार्थव्यपलापिना । विभावितैकदेशेन देयं यदभियुज्यते # || (१) तदपि सावष्टम्भमिथ्योत्तरविषयम् । अप. २।२० (२) इत्यनेकवचनविरोधेन यत्रैकग्रहणमन्यग्रहणा- व्यभिचारि तद्विषयं व्याख्येयम् । तद्यथा, सुवर्णाद्यनेक- वस्तुसहितं पात्रं चौरेण गृहीतं, तत्रैकदेशस्यापि सुवर्णाद्यन्यतरस्य विभावनेन सर्वमेव देयम् । राजदण्ड- विषयं वा अपराद्धत्वात् सर्वमेव राज्ञा ग्राह्यं, स्वयं यत्र वादी तथाङ्गीकरोति तद्विषयं वा । तदुक्तम्-- 'सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत्' । एकदेश- विभावनेनापि सर्वे देयमिति यत्र पणः । X स्मृसा. १२० १२१ सोत्तर पराजितदण्डादि विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते । स पर्ण स्वकृतं दाप्यो विनयं च पराजये ॥

  • स्मृच., व्यप्र. व्याख्यानं निन्द्रुते लिखितं नैकं' इति

याज्ञवल्क्यवचने (पृ. ५४०-५४१) द्रष्टव्यम् । पमा स्मृचगतम् । x व्यचि. स्मृसावद्भावः । ( १ ) व्यमा . ३११ वर्थव्य (द्रव्या); अप. २२०; व्यक. १०१; स्मृच. १२०; स्मृसा. १२० तेन (क्तेषु) यदभि (तदपि ); पमा २०३ ना (नाम्); व्यचि.७७ युक्तेन (योगेषु) यदमि (तदपि) : ९ ७ युक्तेन (योगे तु) ब्यप (श्च प्र ) यदभि ( तदपि ); व्यनि.; नृप्र. १७ व्यपलापिमा ( मपलापिनम् ); व्यसौ. ९२; व्यप्र. ९९ युक्तेन (योगे तु); प्रका. ७६; समु. ६६) विग्य. ९ व्यप्रवत्.. (२) नासं. ११५; नास्मृ. ११५ पर्ण स्वकृतं ( एवं हि पणं); अभा. ५ नास्मृवत् ; व्यमा. २८४ नयं (नेयः); स्मृच.१२३ ये (य:); पमा २०४ सप (स्वप); व्याव. ७ अयमावद। दवि. ३५३णे ( दे ) नयं च पराजये (नेयश्चापराजितः); नृप्र.१७