पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्णयकृत्यम् 1 - तयत्र दुष्ठाशयत्वस्यात्यन्तदाढर्थाभावस्तद्विषयम् । प्राची - नवचनेष्विवात्र प्रतिवादिनः सर्वापलापलक्षणदौष्टय कथनांशाभावात् केचिदस्य वचनस्य पुत्रादिदेयपित्रादि- ऋणविषयत्वं वदन्ति तत्रैव नाभिजानामि इत्युत्तर त्रयस्य संभवादिति वदन्तः । तन्न समीचीनम् । स्वकृत- ऋणविवादेऽपि विस्मरणादिनोत्तरत्रयस्य संभवात् पुत्रादेः पित्रादिकृतऋणविवादे मिथ्यैतदिति उत्तरमुक्तवतो निह्नववादित्वेऽपि साधितमात्रज्ञानप्रसंगाच्च । अथ पुत्रादेर्मिथ्यैतदित्युत्तरं न संभवतीत्युच्यते । मैवं वोचः । ऋणग्रहणकाले प्रबुद्धस्थाप्रबुद्धस्यापि मात्रादिवचनतस्त त्संभवात् । अथ नाभिजानामीत्युत्तरमुक्तवति पुत्रादौ साघितमात्रलाभवचनमित्युच्यते । तर्हि नाभिजानामी- त्युत्तरत्रयविषयकत्वं तस्य परिकल्प्यतां किं पुत्रादि- विषयत्वेन । अथ – 'पुत्रपौत्रैर्ऋणं देयं निहवे साक्षि- भावितम्' (यास्मृ. २।५०) इति स्मरणात् पुत्रादिविषय- त्वमित्युच्यते । तर्हि मिथ्यैतदित्युक्तपुत्रादिविषयत्वं न पुनः नाभिजानामीत्युक्तवत्पुत्रादि विषयत्वम् । 'निह्नवे साक्षिभावितम्' इति स्मरणात् । अन्ये त्वन्यथा व्यव स्थापयन्ति । सर्वार्थदापनवचनं 'प्रतिज्ञातार्थानां मध्ये यद्येकमप्यर्थमथ साधयति तदा सर्वानेतानर्थानहं ददामि' इत्येवं सावष्टम्भोक्तियुक्तनिह्नवविषयं, तद्रहित- विषयं तु साधितमात्रलाभवचनमिति । एतदप्ययुक्तम्, ‘निह्नुते लिखितं नैकम्' इत्यविशेषेणाभिधानात् । न च छलोदाहरणपरत्वादस्य वाक्यस्य, तत्सिद्धये सावष्टम्भ निह्नवविषयत्वमास्थीयत इति युक्तम् । सर्वापलापच्छल- मादाय व्यवहारसमाप्त्यभिधानात् तावतैव वाक्यस्य छंलोदाहरणपरत्वसिद्धेः । भाषाबलेनैवोक्तविषये सर्व दापनात् अनुवादकं च निहुत इत्यादिवचनं तत्समा- नार्थवचनद्वयमपि स्यात् । न च, 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी' इत्यादि कात्यायनवचनपरिहारायैव- माश्रीयत इति युक्तम् । तद्विरोधस्य ऋजुमार्गेण परि- हृतत्वादिति अलमतिविस्तरकारिणा मतान्तरोपन्यास- निरासेन ।

  • स्मृच. १२०-१२१

(५) इदं च भावितस्यैकदेशस्यैकदेशान्तराऽविना- भावे, एकदेशविभावनेऽपि सर्वे दास्यामीति व्यवस्था वाक्यार्थी मितावत् । विशेषे च । तत्राद्यं भूतार्थसंबद्धम् । द्वितीयं छलसंबद्ध- मिति । वीमि. (६) [अपरार्क खण्डयति] तदनुपपन्नम् । 'सपण- वेद्विवादः स्यात्' इत्यनेनास्य गतार्थतापत्तेः । ईदृशा- वष्टम्भस्य पणादनतिरेकात् । न च पणस्य राज्ञा ग्रहण- मस्य त्वर्थिनेति भेद इति वाच्यम् । एतादृशभेदस्या- प्रयोजकत्वात् । स्वपणं दापये दित्येतावन्मात्रस्यैव तदर्थ- त्वात् । प्रतिज्ञानुरोधित्वात् पणत्वस्य । निह्नवमात्र स्यात्र प्रतीतेः सावष्टम्भनिह्नवविषयत्वकल्पनाया अ प्रामाणिकत्वाच्च । एवं नारदवाक्येऽपि । न च तत्र 'व्यप- लापिना' इति विशब्दोपादानादवष्टम्भसहितनिह्नव प्रतीतिरिति वाच्यम् । अनन्यथासिद्धतात्पर्य ग्राहकाभावे सावष्टम्भरूपविशेषपरत्वस्य तत्रानियतत्वात् । वाचस्पतिचण्डेश्वरौ त्वाहतुः – तत्रैकदेशसिद्धिरेक- देशान्तरसिद्धयविनाभूता । तद्विषयं योगीश्वरनारदयो- र्वचनं तदतिरिक्त विषयं तु कात्यायनीयमिति । तदप्यसत् । निह्नवोपादानवैयर्थ्यात् । अनिह्नवेऽपि तस्य युक्तियुक्तत्वात् । प्रत्यवस्कन्दनप्राङ्न्यायोत्तरयोरप्ये- कदेशे कारणादिसाधने तद्विनाभूतैकदेशान्तरे कारणादि- सिद्धेदुर्वारत्वात् । यत्तु वाचस्पतिना अपराक्तसपण विवादविषयत्व मस्याभ्युपेत्य तदाहेत्यादिना सपणश्वेदित्यादि तत्र योगीश्वरवच एव संवादितम् । तेन स्पष्टमेव गतार्थत्वं प्रदर्शित मिति महान् प्रमादः । वयं तु 'छलं निरस्य' इत्यस्य विधेहेंतुरयं 'भूतम- प्यनुपन्यस्तं ' हत्युपोद्वलकः । यतो भूतं तत्त्वमप्यनुप- न्यस्तं व्यवहारतो हीयते वादिप्रतिवादिभ्यामनुपन्यस्तं प्रमाणतोऽसाधिते हीयते हानिमाप्नोति व्यवहारतो व्यवहाररीत्येति तस्यार्थः । तदुपपादनं 'निहुते लिखितं नैकम्' इत्यादि । तस्याप्ययमर्थः । वादिनः कतिपयांशे सत्यवादिनोऽन्यांशेऽपि सत्यवादित्वसंभवात् प्रतिवादि- नश्च सर्वापह्नववादिनः कतिपयांशे मिथ्यावादित्वनिश्च- यादन्यांशेऽपि तत्संभवात् स सर्वमर्थ नृपेणार्थिने दाप्यो दापयितुं योग्यो भवति निरुत्तरत्वात् । एवं प्रागनि- वेदितोऽर्थिनार्थो भूतोऽपि प्रामाणिकोऽपि न प्रायः ग्रहणार्हो न । यदि तवायमर्थः सत्यः स्याद्भाषायामेव