पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० व्यवहारकाण्डम् कात्यायनवचनाच -- - 'साध्यार्थोशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परि कीर्तितम् ॥ इति । मिता. साक्ष्यादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्वे रजता- कृत्स्नसाध्यसिद्धिर्भवत्येव । तावतैव साहसादेः 'सिद्धत्वात् द्यर्थ पूर्वलिखितं दाग्योऽर्थिने नृपेण । न ग्राह्यस्त्व- निवेदितः । पूर्व भाषाकाले अनिवेदितः पश्चादर्थिना पूर्व मया विस्मृत इति निवेद्यमानो, न ग्राह्यो न दापयि- तव्यो नृपेण । एतच्च न केवलं वाचनिकमेकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयादेकदेशान्तरेऽपि मिथ्या वादित्वसंभवात् । आर्थिनश्चैकदेशे सत्यवादित्वनिश्चया- देकदेशान्तरेऽपि सत्यवादित्वसंभवात् । एवं • तर्कापर- नामसंभावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचना त्सर्वे दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानु सारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहार दर्शिनां न दोषः । तथा च गौतमो -- 'न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्युपेत्य यथास्थानं गमयेत्' इत्युक्त्वा 'तस्माद्राजाचार्यावनिन्द्यावि'त्युपसंहरति । न चैकदेश- भावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । एकदेश विभावितो नृपेण सर्व दाप्य इति वचनात् । यत्तु कात्यायनेनोक्तम् – 'अनेकार्थाभियोगेऽपि यावत्सं साधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥ इति तत्पुत्राछृणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जानामीति प्रतिवदन्निह्नववादी न भवतीत्येक देशविभावितोऽपि न क्वचिदसत्यवादीति 'निहुते लिखितं नैकमि' ति शास्त्रं तत्र न प्रवर्तते । वाभावादपेक्षित (३) भूतोऽप्यर्थरछलव्यवहारेण यथा हीयते तथा दर्शयति - निह्नवे इति । एतत्तु वचनमपह्नववादिनः सावष्टम्भे प्रतिवचने द्रष्टव्यम् । यथैतेषामर्थानां मध्ये यद्येकमप्यर्थमर्थी साधयति तदा सर्वानेतानहं दधा- मीति | कुत एतत् । छलोदाहरणपरत्वादस्य वाक्यस्य | अन्यथा - 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्वनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम्' ॥ इति कात्यायनवचनविरोध: स्यात् । तत्र च साक्षिसाधिता व शिष्टमर्थ साधयितुं प्रमाणान्तरमर्थिनोपादेयम् । यत्तु नारदेनोक्तम्- 'अनेकार्थाभियुक्तन सर्वार्थव्यपला- पिना । विभावितैकदेशेन देयं यदभियुज्यते ॥ इति, तदपि सावष्टम्भमिथ्योत्तरविषयम् । - तर्काभावाच्च 'अनेकार्थाभियोगेऽपी'ति कात्यायनवचनं सामान्य विषयम् । विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहत्याऽज्ञानोत्तरे प्रवर्तते । ननु, ‘ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाऽप्यधिके वार्थे प्रोक्त साध्यं न सिध्यति' || इति वदता कात्यायनेमानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्धयती त्युक्तम् । तथा सत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधन तयोपन्यस्तैः साक्षिभिरेकदेशाभिधानेऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणान्तरस्याव- सरोऽस्त्येव । छलं निरस्येति नियमात् । साहसादौ तु ! सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते ! x अप. (४) एतदुक्तं भवति 'छलं निरस्य भूतेन व्यव हारान्नयेन्नृपः' । इत्युक्त मेवंविधविषये नृपेगादर्तव्यं, दुष्टाशयत्वस्यात्र सिद्धत्वात् इति । न च वाच्यं छलानु- सारित्वात्सर्वदापनमपि नृपेणादरणीय मिति । यदाह कात्यायनः –'सर्वापलापं यः कृत्वा मिथोऽल्पमपि संवदेत् । सर्वमेव तु दाप्यः स्यादभियुक्तो बृहस्पतिः' ॥ आदरार्थ बृहस्पतिग्रहणम् | नारदोऽपि● सर्वदापनमाद- र्तव्यमिति दर्शयितुमभियुक्तदेयत्वमाह – 'अनेकार्थाभि- युक्तेन सर्वार्थव्यपलापिना। विभावितैकदेशेन देयं यदमियुज्यते ॥ ननु प्राचीनवचनानां प्रागुक्तार्थाभिधाने धर्मनिर्णयार्थता न स्याच्छलानुसारेण तेषां व्यवहार- निर्णयाभिधायकत्वात् । सत्यम्; तथापि न दोषः। प्रागुक्त विषये व्यवहारनिर्णयस्य धर्मनिर्णयबाघकत्वात् । अत एव बृहस्पतिः– 'केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः । व्यवहारः स विज्ञेयो धर्मस्तेनापि हीयते’ इति ॥ यत्र प्रागुक्तविषयादावित्यर्थः । यत्तु कात्यायने- नोक्तम् – 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम्' इति ॥

  • व्यनि., विता., सेतु. मितागतम् । व्यक, पमा, व्यत

वाक्यार्थो मितावत् | X वाक्यार्थी मिताबत् ।