पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ व्यवहारकाण्डम् पराजितदण्डादिविचारः 'निहवे भावितो दद्याद्धनं राशे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् || (१) यदा तु न्यायेनान्यतरः कार्यों पराजितः, तदा निहवे इति । निह्नवोऽपलापः तत्र स्पष्टीकृते यावद् धनिना प्रार्थितं तावद्देयम् । राज्ञे च तत्तुल्यमन्यत् । यदा तु मिथ्यैवाभियुङ्क्ते, तदाभियोक्त्रा प्रार्थिताद् द्विगुणं राज्ञ एव धनं देयमित्यर्थः । विश्व.२|११ (२) अर्थिप्रत्यर्थिनोर्निर्णय कार्ये ससभ्येन सभापतिना प्रतिभूर्याय इत्युक्तम् । किं तन्निर्णयकार्य यस्मिन्प्रतिभू- गृह्यत इत्यपेक्षित आह -- निह्नवे इति । अर्थिनी निवेदितस्याभियोगस्य प्रत्यर्थिनाऽपहवे कृते यदाऽर्थिना साक्ष्यादिभिर्भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद्धनं प्रकृतमर्थिने, राज्ञे च तत्सममपलाप दण्डम् । अथार्थी भावयितुं न शक्नोति, तदा स एव मिथ्याभियोगी जात इत्यभियोगादभियुक्तधनाद्विगुणं धनं दद्याद्राज्ञे । प्राङ्याये प्रत्यवस्कन्दने चेदमेव योज- नीयम् । तत्राप्यर्थ्यपह्नववादी प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथ्या- भियोगीति राज्ञे द्विगुणं धनं दवात् । आर्थिने च प्रकृतं धनम् । संप्रतिपत्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पदान्तरेषु तत्र तत्र दण्डाभि- धानादधनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयत्वम् । 'राशाऽधमर्गिको दाप्य' इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद्वा एतदेव सर्वव्यवहार- विषयत्वेनापि योजनीयम् । कथं अभियोगस्य निह्नवे ऽभियुक्तेन कृते यद्यभियोक्त्रा साक्ष्यादिभिर्भावितोऽभि- (१) यास्मृ. २०११; अपु. २५३।४०-४१ गी (गात) वहे (हरे); विश्व. २१११; मिता; अप.; व्यक. १२८ (हुते) जूनं (द्धृतं); स्मृच. १२२; पमा. २०१; सुबो. २२६ पू.; व्यचि.९६ वहे (हरे); विचि. ३५ तो (तं) गी (गं) व (इरें); व्यनि व्यचिवत् नारदः; दवि. ३५० व्यचिवत; नुप्र. १७ उत्त, स्मरणम् ; चन्द्र. १६७-१६८ व्यचिवत्; भ्यसौ. ९२; वीमि.; ब्यप्र. २७९; विता. ९६:४९९ (=) पू.; सेतु. ३८, ३१७ व्यचिवत्; प्रका. ७७ इ (बु); समु. ६७; विग्य. ३१ अपुगत्. युक्तस्तदा तत्समं तत्र तत्र प्रतिपदोक्तमेव | चशब्दो- ऽवधारणे । धनं दण्डं दद्याद्राज्ञ इत्यनुवादः । अथाभि- योक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्यामियो- गीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योज नीयम् ।

  • मिता.

(३) एतच्च सपणव्यवहारविषयम् । अस्ति च पणरहितोऽपि व्यवहारः । +अप. (४) आशयदोषव्यतिरिक्ते तु दारिद्यविस्मरणा- दिनाऽपह्नवविषये दण्डनं च शक्तित इत्यत्रगन्तव्यम् । व्यक. १०१ (५) तदुवृत्ताधमर्णस्त्रोक्त ( द्विगुण) दण्डपर्याप्तधना- संभवविषये वेदितव्यम् । अन्यथा पूर्वोक्त विष्णुमनु- (मस्मृ. ८/१७६) वचनविरोधस्य दुर्वारत्वात् । मिथ्या- भियोगिनस्त्वपर्याप्तधनस्थाऽपि न तत्समो दण्डः । यदाह स एव - 'मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत्' इति । अभियोगादभियुक्तधना द्विगुणं धनं वहेत्, राज्ञे दद्यादित्यर्थः । तावद्धनाभावे तु 'आनृष्यं कर्ममा गच्छेत्' इत्याद्यनुकल्पोऽवगन्तव्यः । यत्तु नारदेनोः क्तम् -- 'न च मिथ्याऽभियुञ्जीत दोषो मिथ्याभि योगिनः । यस्तत्र विनयः प्रोक्तः सोऽभियोक्त / रमाव्रजेत्' || इति तत्प्रतिपदोक्तदण्डाभावविषयं सामान्यशास्त्रत्वात् । तेन निह्नवेऽसद्वृत्तस्य यो दण्डोऽभिहितो विष्णुना स एष सद्वृत्तस्य मिथ्याभियोगिनो भवतीत्यवगन्तव्यम् । + स्मृच. १२२ (६) भङ्गिनो भ्रमे मान्यथावादे समो दण्डः । ज्ञात्वा निह्नवे द्विगुणः । चन्द्र.१६७ (७) चकारेण वाक्यारुण्यादौ दण्डान्तरं समुच्चिनोति । Xवीमिं. सोत्तरपराजितदण्ड: संपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।

  • प्रथमकल्पः विश्ववत् । विता. मिलागतम् ।

वाक्यार्थी विश्ववत् । + पमा स्मृववत् : x वाक्यार्थी विश्ववत् । (१) यास्मृ. २११८; अपु. २५३/४६-४७ च स्वपणं (पणं वसुं); विश्व. २११८; मिता; अपव्यक. १०१; स्मृत्व.