व्यवहारकाण्डम् ततश्चाष्टाढकः प्रोक्तो ह्यर्मणस्ते नु(?) विंशतिः । खारिकास्माद्भिद्यते तदेशे देशे प्रमाणकम् || पञ्चाङ्गुलावटं पात्रं चतुरङ्गुलविस्तृतम् । प्रस्थपादं तु तज्ज्ञेयं परिमाणे सदा बुधैः ॥ ऊर्ध्वाङ्कश्च यथासंज्ञस्तद्धस्थाश्च वामगाः | क्रमात्स्वदशगुणिताः परार्धान्ताः प्रकीर्तिताः ॥ न कर्तुं शक्यते संख्या संज्ञाकालस्य दुर्गमात् । ब्रह्मणो द्विपराधं तु आयुरुक्तं मनीषिभिः || एको दश शतं चैव सहस्रं चायुतं क्रमात् । नियुतं प्रयुतं कोटिरर्बुदं चाब्जखर्वको ।। निखर्व पद्मशंखाब्धिमध्यमान्तपरार्धकाः । कालमांनं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम् ॥ भास्कराचार्यः बैराटकानां दशकद्वयं यत्सा काकिणी ताश्च पणचतस्रः ज्योतिः शास्त्रम् दशगुर्वक्षरः प्राणः षट्प्राणा: स्याद्विनाडिका । तासां षष्टया च घटिका तत्पष्टया अहरुच्यते ॥ (१) व्यम. ११०; समु.५२ टका (टिका). (२) मिता. २११०२ (= ) ( दशगुरुवर्ण: प्राणः षट्प्राणाः स्याद्विनाडिका तासाम् । षष्टया घटी घटीनां पष्टयाहोरात्र उक्त- श्व); स्मृच. ११० णा: स्या (णा रया) पू., स्मृत्यन्तरम् ; शारदातिलकम् चतुर्विंशत्यङ्गुलाढधं हस्तं तन्त्रविदो विदुः । यवानामष्टभिः क्लृप्तं मानाङ्गुलमुदीरितम् ॥ बालभूषणम् कर्षः पलपादः स्यात् कर्षार्द्ध तोलकः सोऽपि । उक्तो वसुभिर्मापैर्लोके माषोऽपि गुञ्जाकैर्दशभिः ॥ पलमत्र वैद्यक प्रसिद्ध मष्टतोलकमिति । दवि.२५ कुँडवाद्या वेदगुणा प्रस्थाढद्रोणमानकाः खार्यः । कुम्भो विंशतिखार्या दृष्टो लोके यथाक्रमशः ॥ लोके मिथिलादौ । तदेवं द्रोगद्वयेन विंशत्या द्रोणैरिति च द्विविधः कुम्भः । दानविषेके तु पणसहस्र- परिमितः कुम्भ इत्युक्तम् । एवं च नानार्थ एव कुम्भ- दवि. १३५ शब्दः । पमा. १७३ () पू.; नृप्र. १४; दित. ५९० उत्तरार्ध (तासां षष्टयां घटी शेयाऽहोरात्रं घटिकास्तथा ); सवि. १९१ रः प्राणः (राः प्राणाः) प्राणा: (प्राणा); वीमि. २११०२ (=) पू.; व्यप्र. १९२ पू., स्मृत्यन्तरम् ; व्यम. २६ पू., स्मृत्यन्तरम्; विता. २२३ स्मृचवत्, पू., स्मृत्यन्तरम्; प्रका. ७० स्मृच वत्, पू., स्मृत्यन्तरम्; समु.५८ (तासां षष्टिघंटी ज्ञेया घटी- षष्ठीरह: स्मृतम् ) स्मृत्यन्तरम्. (१) दित. ५८२; व्यप्र. १८८ मुदी (मिती). (२) दवि. २५. (३) दवि. १३५.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१४
दिखावट