पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञा: पुराणीयसामान्याभिधानस्वरसादिति महा- लक्षण स्कन्द र्णवकारः । दवि. १३५ लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः । अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥

  • द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दशत्रुटि: स्मृतः ।

विनाडिका तु षट् प्राणास्तत्षष्ट्या नाडिका स्मृता || अहोरात्रं तु तत्षष्ट्या नित्यमेव प्रकीर्तितम् ॥ वराहपुराणम् पलद्वयं तत् प्रसृतिर्मुष्टिरेकपलं स्मृतम् ॥ अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् पुष्कलानि च चत्वारि आढकः परिकीर्तितः । चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् || चतुर्भिः सेरिकाभिश्च प्रस्थ एकः प्रकीर्तितः ॥ तत्र हेमाद्रिः, सेरिका कुडवः । तथा कल्पतरुः, सेरिका कुडवः स च द्वादशप्रसृतिपरिमितः । द्वादश प्रसृतिभिः सेरिका तच्चतुष्टयं प्रस्थ इति समयप्रकाशरत्ना करस्मृतिसागरेध्वप्युक्तम् । तथा भूपालपद्धतौ प्रमाणस्थ पुरुषस्य प्रमाणस्थकरचरणस्य द्वादशप्रसृतिभिः कुडव उत्तरोत्तरं चतुर्गुणाः प्रस्थाढकद्रोणा भवन्ति । ततः चतुः पष्ट्या कुडवैर्द्रोण इत्युक्तम् । एवमेव कल्पतरुकारः । दवि. १३६ कालिकापुराणम् यँवानां तण्डुलैरेकमङ्गुलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतुर्विंशतिरङ्गुलैः ॥ पुराणम् अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते || (१) स्मृचि. ५४ पू.; व्यप्र. १९२. (२) स्मृचि.५४; व्यप्र. १९२. (३) स्मृचि. ५ .५४; व्यप्र. १९२. (४) दवि. १३५. (५) गौमि. २२१ २२ प्रथमाघे (अष्टमुष्टि भवेत् किञ्चित् किञ्चिदष्टौ तु पुष्कलम् ) नि च ( नि तु) येत- न्मान ( तिमानस्य ); दवि . १३५; सेतु. २३८. (६) दवि. १३६. (७) दित. ५८२; व्यप्र१८७. (८) स्मृच. ९९; पमा. १५८ उत्तराधे ( त्रसरेणुः स विख्यातस्ततः करक उच्यते); प्रका. ६३; समु. ५२ पमावत्. ५३५ उत्थितस्त्वर्कतापेन त्रसरेणुक उच्यते । अष्टानां त्रसरेणूनां लिक्षेति परिकीते || तास्तिस्रः सर्षपः प्रोक्तः काकिण्या तुलितस्तु सः ॥ अष्टकं काकिणीनां तु तण्डुलः परिकीर्तितः । तण्डुलानां द्वयं धान्यं माषकं परिभण्यते ॥ तद्वयं कृष्णलं प्रोक्तमण्डिका कृष्णलद्वयम् । अण्डिकापणशब्दौ तु पर्यायेण प्रकीर्तितौ || चरकसंहिता उत्थितस्त्वर्कजालेन त्रसरेणुक उच्यते । अष्टकं त्रसरेणूनां लिक्षेति परिकीर्त्यते ।। तास्तिस्रः सर्पपः प्रोक्तः काकिणी स्यात्तु सा स्मृता । अष्टकं काकिणीनां तु तण्डुलः परिकीर्तितः ॥ तण्डुलं मानकं प्रोक्तं मापकः परिकीर्त्यते । तद्वयं कृष्णलं प्रोक्तमण्डिका कृष्णलद्वयम् || अण्डिकापणशदौ तु पर्यायेण प्रकीर्तितौ ॥ वैखानससंहिता मानस्तण्डुलमात्रं स्यात् दशमानः पणः स्मृतः ॥ कापिलपञ्चरात्रम् अष्टभिस्तैर्भवेत् ज्येष्ठं मध्यमं सप्तभिर्यवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम ॥ शुक्रनीति: क्वंचित्संख्या क्वचिन्मानमुन्मानं परिमाणकम् । समाहारः कचिच्चेष्ट्रो व्यवहाराय तद्विदाम् || अगुलाद्यं स्मृतं मानमुन्मानं च तुला स्मृता । परिमाणं पात्रमानं संख्यैकद्व्यादिसंज्ञिका || यत्र यादृव्यवहारस्तत्र तादृक् प्रकल्पयेत् । रजतस्वर्णताम्रादि व्यवहारार्थमुद्रितम् || व्यवहार्य वराटाद्यं रत्नान्तं द्रव्यमीरितम् । सपशुधान्य वस्त्रादि तृणान्तं धनसंज्ञकम् || गुञ्जा मापस्तऽथा कर्षः पदार्धप्रस्थ एव हि । यथोत्तरा दशगुणाः पञ्च प्रस्थस्य चाढकाः ॥ (१) समु. ५२. (२) सवि. १८२. (३) सवि. १७९ (=): १८१ आगम: : १८२ दशमान: ( अष्टमाप:); समु. ५२ मानः (मानं ) आगम:. (४) दित.५८२. (५) शुनी. २३४३. ३४६. (६) शुनी. २।३७७-३८३. )