पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञाः प्रस्थपरिमिता यवाः प्रस्थ उच्यते । एवं सर्षपन्मितं द्रव्यं सर्षपादिशब्दैः । सर्षपादिशब्दानां च केवलोन्मा- नवचनत्वे त्रसरेणूनुपसंहृत्योन्मातुमशक्यत्वात्तद्द्वारेण कृष्णलादिव्यवहारो न स्यात् । तत्र स्थूलस्थूलतरस्थूलतम- सूक्ष्म सूक्ष्मतरसूक्ष्मतममध्यसर्षपाद्युन्मानभेदेन प्रतिदेशं व्यवहारभेदे स्थिते दण्डव्यवहारे मध्य इति नियम्यते । ते मध्यमा यवास्त्रय एकः कृष्णलः । ते कृष्णलाः पञ्चैको माषः । ते माषा: षोडशैक: सुवर्णः । मिता. पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।। (१) उभयथा प्रयोगदर्शनात् । कार्यविशेषापेक्षया च व्यवस्था | विश्व. १।३५९ (२) ते सुवर्णाश्चत्वारः पलमिति संज्ञाः कथिता इति । पञ्च वापि पलं प्रकीर्तितं नारदादिभिः । तत्र स्थूलैस्त्रिभिर्यवैः कृष्णलपरिकल्पनायां व्यावहारिक- निष्कस्य पोडशांशः कृष्णलो भवति । तैः पञ्चभिर्मापः मापैः पोडशभिः सुवर्णः । स च व्यावहारिकैः पञ्चभि र्निष्कैरेकः सुवर्णा भवति । ते चत्वारः पलमिति । निष्काणां विंशतिः पलम् । यदा तु सूक्ष्मैस्त्रिभिर्यवैः कृष्णलः परिकल्प्यते तदा व्यावहारिकनिष्कस्य द्वात्रिं- शत्तमो भागः कृष्णलो भवति । तस्मिन्पक्षे सुवर्णः सार्धं निष्कद्वयं भवति । पलं च दशनिष्कम् । यदा तु मध्यम- मिता. ५३१. (२) एवं सुवर्णस्योन्मानं प्रतिपाद्येदानीं रजतस्याह द्वे कृष्णले इत्यादि । द्वे कृष्णले पूर्वोक्ते रूप्यमाषो रूप्यसंबन्धी मात्रः । ते रूप्यमाषाः षोडश धरणम् । पुराण इत्यस्यैव संज्ञान्तरम् – 'ते पोडश स्याद्धरणं | पुराणश्चैव राजतः' इति मनुस्मरणात् । दशभिर्धरणैः शतमानं पलमिति चाभिधीयते । पूर्वोक्ताश्चत्वारः सुवर्णा एको राजतो निष्को भवति । इदानीं ताम्रस्योन्मानमाह कार्पिक इति । पलस्य चतुर्थोऽशः कर्ष इति लोकप्रसिद्धः । कर्षणोन्मितः कार्षिकः । ताम्रस्य विकारस्ताम्रिकः । कर्षसंमितस्ताम्रविकारः पण- संज्ञो भवति कार्पापणसंज्ञकश्च – 'कार्पापणस्तु विज्ञेय यवैः कृष्णलपरिकल्पना तदा निष्कस्य विंशतितमोस्ताम्रिकः कार्षिक: पणः' इति मनुवचनात् । । पञ्चसुवर्ण- भागः कृष्णलः, सुवर्णश्चतुर्निष्कः, पोडशनिष्कं पलम् । पलपक्षे विंशतिमात्रः पणो भवति । तथा सति – 'मापो एवं पञ्चसुवर्ण पलमिति । पक्षे विंशतिनिष्कं पलम् । विंशतिमो भागः पणस्य परिकीर्तितः' इत्यादि व्यव- एवमन्यदपि निष्कस्य चत्वारिंशो भागः कृष्णल: । हारः सिद्धो भवति । चतुःसुवर्णपलपक्षे तु षोडशमाषः द्विनिष्कः सुवर्णोऽष्टनिष्कं पलमित्यादिलोकव्यवहारानु- सारेणास्मादेव सूत्रादूनीयम् । 'द्वे कृष्णले रूप्यमापो धरण षोडशैव ते ॥ पणो भवति । अस्मिंश्च पक्षे सुवर्णकार्षापणपणशब्दानां समानार्थत्वेऽपि पणकार्पापणशब्दौ ताम्रविषयावेत्र । एवं तावद्धेमरूप्यताम्राणामुन्मानमुक्तम् । दण्डव्यव हारोपयोगित्वात् । कांस्यरीतिकादीनामपि लोकव्यव हाराङ्गभूतानामेवोन्मानं द्रष्टव्यम् । मिता. (३) दशभिर्धरणैः शतमानं तदेव पलमित्युच्यते । (१) यास्मृ.१।३६४;विश्व. १ ३५९ तम् (ताः); मिता; अप. १।३६२; स्मृच. ९९; विर.६६७; पमा. १५८; स्मृसा. ८३ वापि प्र (वा परि); दवि. २५ स्मृसावत् ; वीमि.; व्यप्र. १७७;विता. २७३; राकौ. ४ ४१०; प्रका. ६३; समु.५२. (२) यास्मृ. १ ३६४; विश्व. ११३५९ दे (दि) ले (लो) रू ( रौ ); मिता.; अप. १ | ३६३ रू ( रौ ) ; दवि. २५; वीमि.; समु. ५२. शतमानं तु दशभिर्धरणैः पलमेव तु । निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः || (१) एवं तावत् सुवर्णस्य पलपर्यन्तं प्रमाणमुक्तम् । रौप्यस्य तु --द्विकृष्णल इति । कृष्णलद्वयेन रौप्य माषः । षोडश मात्रा धरणम् । दश धरणानि शत- मानम् । तच्च गण्यमानं चतुःसौवर्णिक पलमेव पलसंमितं भवति । एवं रौप्यपरिमाणमुक्तम् । सुवर्णस्यैव तु- निष्कर्मिति । यत्तु चतुःसौवर्णिकं पलमुक्तं, तस्यैव द्वितीया निष्कसंज्ञा । ताम्रकर्षस्तु पणसंशः । अशीतिकृष्णलः षोडशमाषः कर्षः । विश्व. १।३५९.६० (१) यास्मृ. ११३६५; विश्व . १ | ३६० मेव तु (मेव तत् ); मिता.; अप. १।३६३ ३६४ कं (क:); स्मृच. ९९ अपवत्, चतुर्थपादं विना; पमा १५८ चतुर्थपादं विना; दवि. २५ तु ( च ) चतुर्थपादं विना; वीमि.; व्यप्र. १७६ पू.; समु. ५२ अपवत्.