पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञा: न्वितामिधानं हि वाक्यार्थविरोधान्न प्रमाणम् । न चावगताभिधानमपि । परिमाणभेदांस्त्रसरेणुशतमानादी नाद्यन्तानपेक्ष्य मध्यपठितत्वान्मध्यो यवाख्यः परिमाण- विशेषः । पञ्चकृष्णला अस्मिन्सन्ति 'अत इनि ठनौ' इति ठन् कर्तव्यः । पञ्चकृष्णलिकः । 'पञ्चकृष्णलकः' इति पाठे कबन्तो बहुव्रीहिः । ते कृष्णलाः षोडश एकः सुवर्णः । मेधा. (२) ते षट् यवो मध्यमः न स्थूलो नापि सूक्ष्मः ।

    • गोरा.

(३) कृष्णलं रक्तिकेति प्रसिद्धम् । षोडश माघाः सुवर्ण: स्यात् । पुंलिङ्गश्चायं परिमाणवचनः । ममु. - (४) त्रियवन्त्वेवेति – ‘गुञ्जा तु स्यात् त्रिभिर्यवैः' इत्यगस्तिप्रोक्तदर्शनात् कृष्णलव्यवहाराणां गुञ्जानां गुरुत्वमनियतमतो यथोक्तमेव कृष्णलं ग्राह्यम् । क्वचि- देकेति पाठः । सेयं कृष्णलसंज्ञा सुवर्णरजतसाधारणी । अगस्तिप्रोक्ते–‘अष्टमिर्भवति व्यक्तैस्तण्डुलो गौरसर्षपैः। स वैणवो यवः प्रोक्तो गोधूमं चापरे जगुः ॥ दवि.२३-२४ (५) संव्यवहारेषु सूक्ष्मो मध्यमः स्थूल इति त्रिविधो यव उक्तः । नन्द. पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समवृते विज्ञेयो रौप्यमाषकः ॥ (१) पलमिति संज्ञानिर्देशः । सुवर्णमिति संज्ञी । चत्वार इति विशेषणम् | धरणमिति संज्ञा । दश पला- नीति संज्ञी । द्वे कृष्णले इति संज्ञी | रूप्यमाषक इति समुदायं संज्ञां मन्यन्ते । न तु रूप्यविषयमाषक निर्देशे द्वे कृष्णले प्रतिपत्तव्ये इति प्रतिजानीते, ततश्चानिश्चयः । समते तुलासूत्रके उन्मानादिहीने यदि धार्येते प्रयोजनं मध्यशब्दवद्यतोऽसमयाद्धार्यभाणतया परिमाणानिश्चयः । मेधा.

  • मवि., विर. गोरागतम् ।

स्मृचवत्; (१) मस्मृ.८।१३५; स्मृच.९८ रौ (रू); विर.२३५ उत्त: ६६६ स्मृचवत् पमा. १५६ ८३ स्मृचवत् ; विचि. १०४ स्मृचवत्, उत्त.; दवि. २४-२५ स्मृचवत् । व्यप्र. १७६; स्मृचवत्; राकौ. ४१० स्मृचवत् ; प्रका.६३ समु.५१ स्मृचवत्. व्य. का. ६७ स्मृसा. स्मृचि. ३७; विता. २७३ स्मृचवद; ५२९ मवि. (२) पलानि दश सुवर्णस्य धरणम् । (३) पलानि धरणं दशेत्यन्तं सुवर्णपरिमाणाभिधानम्। चतुःसौवर्णिको निष्क इत्यन्तं रूप्यपरिमाणाभिधानम् । अवशिष्टेन ताम्रपरिमाणाभिधानम् । Xव्यप्र. १७६ 'ते षोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिक: पण: * ॥ (१) षोडश रूप्यमापका रूप्यस्य धरणं भवति । पुराण इति संज्ञान्तरम् । कार्षापण: पण इति च द्वे संज्ञे ताम्रकर्षस्य | काव्यश्च शब्दो लोकत एव प्रसि- द्धार्थ इह गुह्यते, व्यभिचारदर्शनासत्त्ववचनेन न कृष्ण- लादिवत्परिभाष्यते । ÷मेधा. । (२) कार्षिक: कर्षः ताम्रिकः ताम्रः १ कार्षापणः पणश्चोच्यते । अत्र चानुक्ते सुवर्णमानाग्रहणात् कर्ष: पलचतुर्थभागः पञ्चकृष्णलकः षोडशमाषात्मको प्रायः । मवि. (३) कार्षिक: ताम्र मयः कार्यापणः पण इति विज्ञेयः । कार्षिकश्च शास्त्रीयपलचतुर्थभागो बोद्धव्यः । अत एव 'पलं कर्षचतुष्टयम्' इत्याभिधानिकाः । +ममु. (४) अभिधानकोषे तु – 'कार्षापणः कार्षिक: स्यात् कार्षिके ताम्रिके पणः । इत्युक्तम् । तन्मते सर्वं एव कार्षिको मुद्राविशेषः कार्षापणः समाख्यासंवादात् । स एव ताम्रिक: पण इत्युच्यते इति गम्यते । तथा--- 'पणोदमानगण्डानां तुर्याशेऽपि च काकिनी' । इति रभस- पाल: । 'पणगण्डकयोस्तुर्य उदमाने च काकिनी' । इति रुद्रः । दवि. २६-२७ (५) कार्षिक: कर्षसंमितः, ताम्रिकस्ताम्रविकारः, कार्षापणो विज्ञेयः । पण इति च संज्ञा अस्यैव विज्ञेये- X विता.व्यप्रगतम् । * गोरा. व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् । ÷ विर. मेधागतम् । + मच. ममुगतम् (१) मस्मृ.८।१३६ ग.पुस्तके 'पुराणं चैव राजतम् ' इति पाठः; स्मृच.९८ णश्चै (णं चै) तः (तम् ); विर.६६६ स्तु (श्च) तानिकः (तास्तिस्रः); पमा. १५६-१५७; स्मुसा. ८३ स्तु ( श्च ); स्मृचि. ३७; दवि. २५-२६ तः ( तम् ); यम. १७६ ताम्रिकः कार्षिक: (कार्षिक: ताम्रिक :); विता.२७३ व्यप्रवत् ; राकौ. ४१० व्यप्रवतु; प्रका०६३ स्मृचवत् समु. ५२ स्मृचवत्