सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ५६८ शास्त्रपरिभाषया तत्र वृद्धव्यवहारो गवादिशब्दवदित्यत आह-लोकसंव्यवहारार्थम् । अर्थशब्दो विषयवचनस्तेन व्यवहारप्रसिद्धिराश्रिता भवति । ततश्च गवादिशब्द- तुल्यतया व्यवहारः प्रसिद्धः । किं शास्त्रोपदेशेन ? उच्यते – नियमार्थ उपदेशोऽन्येषामपि परिमेयानामय- स्कांस्यसुवर्णादीनामेताः संज्ञाः सन्ति । तन्निवृत्यर्थः | क्वचिद्देशे परिमाणे भेदोऽप्यस्ति । तन्निनृत्यर्थश्च क्वचित् संबन्धतया नियम्यते । तथा च । क्वचिदष्टाचत्वारिंशता माषबन्धं क्वचिच्चतुःषष्ट्या क्वचित् साष्टेन शतेन तदेतत्सर्वं नियम्यते । अथ चैवं संबन्धः क्रियते । याः संज्ञा भुवि •प्रथितास्ता लोकसंव्यवहारार्थं वक्ष्यामि । सर्वस्य लोक- स्यामिरेव संव्यवहारो यथा स्यात् । दण्डादिनियोगस्या- प्यन्यथाऽप्रसिद्धिः । मेधा. (२) ताम्ररूप्यसुवर्णानां पणादिसंज्ञा क्रयविक्रयलोक- व्यवहारा पृथिव्यां विशेषेणाभिधास्याम्युपयोगार्थ दण्डादेः । +गोरा. (३) संव्यवहारार्थ दृष्टादृष्टव्यवहारसिद्धयर्थम् । मवि. (४) दण्डदिव्यशास्त्रार्थव्यामोहापनुत्तये ताम्रादि- द्रव्याणां परिमाण निबन्धनाः संज्ञाः प्रदर्श्यन्त इत्यर्थः । स्मृच.९८ मच, (५) संज्ञा धर्मशास्त्रपरिभाषाः । (६) अत्र ताम्ररूप्यसुवर्णानामिति ताम्ररूप्ययोरल्प- त्वात् प्राक्प्रयोगो न तु क्रमप्रदर्शनार्थः । व्यप्र. १७६ जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ (१) इमं श्लोकं केचिन्नाधीयते त्रसरेणौ विप्रतिपत्या । तावद्गवाक्षकुचिकाविवरप्रविष्टे सूर्ये यो रेणुर्दृश्यते स त्रसरेणुः । अन्तरशब्दो विवरपर्यायः । प्रथमं तत्प्रमाणा- : नामिति । मेधा. (२) गवाक्षविवरप्रविष्टसूर्यरश्मिषु यत्सूक्ष्मं रजो दृश्यते तद्हश्यमानपरिमाणानां प्रथमं त्रसरेणुं वदन्ति | ममु. त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ (१) ततः उपचितपरिमाणाः । न पुनरयं लिक्षाशब्दः स्वेदजक्षुद्रजन्तुवचनः । तास्तिस्रो लिक्षा एको राजसर्षपा- ख्यपरिमाणपदार्थ एवं योजनीयम् । ततश्च व्यभिचार- यन्ति न यथोक्तपरिमाणार्थमेते शब्दा वर्तन्त इति । यथा चोपक्रान्तसंज्ञाः प्रवक्ष्यामि परिमाणमिति । त्रसरेणु- श्वार्थो नियतपरिमाणस्तेनैतत्सर्वे निश्चयम् । शक्नुवन्ति च निपुणास्त्रसरेणून् संहर्तुमिति नानारभ्यार्थोपदेशः । एतत्स्वर्णकाराभिमानसंख्यास्मृतिरूपं निर्वाधं भवति । तत एव वस्तु निपुणतोऽशेषतोऽवधारयितव्यम् । मेधा. (२) लिक्षा यूकाडिम्बम् । राजसर्षपः राजिका । 1 मवि. संर्षपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश || (१) मध्यमशब्दोऽभ्रान्तिहेतुः परिमाणपरत्वे नात्य- न्तमपचितो नातिस्थूलः सर्षपपरिमाण इति मध्यग्रहण- मर्थवत् । संज्ञापरत्वे तु न किञ्चिन्मध्यमशब्देन यव- शब्दसंज्ञात्वात् । तदसत् । नायं संदर्भों येन प्रत्यवयवं प्रयोजनमुच्यते । पद्यग्रन्थोऽयम् । तत्र संगमनार्थमपि वृसानुरोधात्किञ्चिदुच्यते । अस्ति चास्यान्वयः । अन- (१) मस्मृ. ८ | १३३; स्मृच. ९८; पमा. १५६; विर. ६६६ क्षै (ख्यै) परि (च प्र) त्रयो (तु द्वे); स्मृचि. ३७ क्षै (ख्यै); सवि.२०५ (=); न्यप्र. १७५; विता. २७३ विशेया (ज्ञेया); राकौ. ४०९; प्रका. ६३; समु. ५१. (२) मस्मु. ८।१३४; मभा. १२/१५ तृतीयपादः, स्मृत्य न्तरम् ; स्मृच. ९८:१५९ तृतीयपादः; विर. २३५ द्वितीय- पाद: : ६६६ र्णस्तु (र्ण तु); पमा. १५६; स्मृसा.८३ त्रि + ममु., नन्द गोरागतम् । (१) मस्पृ.८।१३२६ ब्यक.७७ जालान्तर (रश्मिमूल) | (द्वि) प्रथमपादं विना; स्मृचि. २३७; वृवि. २३-२४; वित. बृहस्पतिः; स्मृच. ९८; विर.६६५; पमा. १५६; स्मृसा. ११६ ; व्यश्चि.८९ क्रमेण बृहस्पतिः; स्मृचि. ३७ यत्सूक्ष्मं ( यत्तु सं); दात. ५८०; सवि. २०५ ( =); ब्यप्र.१७५; विता.२७३ णानां (णं तु); राकौ. ४०९; प्रका. ६३; समु.५१. ५८१ (=) उत्त.:५९६ चतुर्थपादं विना; सवि. २०५ ( = ) स्त्रियवं... लम् (स्त्रियवाः कृष्णलाः स्मृताः) र्णस्तु (र्ण तु); ब्यप्र. १७६; विता. २७३ पूर्वार्धे (ते षड्यवो मध्यमस्तु त्रियवे तत्तु कृष्णलम्); राकौ.४१० यवं त्वेक (यवेन तु); प्रका,६३३ समु. ५१. १ हाराव.