पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञा: प्रस्थस्य । माषकः कुडुबस्य । द्विगुणं रसादीनां मानमूल्यम् । विंशतिपणा: प्रतिमानस्य | तुला- मूल्यं त्रिभागः । चतुर्मासिकं प्रातिवेधनिकं कार- येत् । अप्रतिविद्धस्यात्यय: सपाद : सप्तविंशति- पणः । प्रातिवेधनिकं काकणिकमहरहः पौतवा ध्यक्षाय दनुः । द्वात्रिंशद्भागस्तप्तव्याजी सर्पिषश्च तुष्षष्टिभागस्तैलस्य । पञ्चाशद्भागो मानस्रावो द्रवा णाम् । कुडुबार्धचतुरष्टभागानि मानानि कारयेत् । कुडुबाश्चतुरशीतिर्वारकः सर्पिषो मतः । चतुष्षष्टिस्तु तैलस्य पादश्च घटिकानयोः ॥ अथ देशकालमानम् – मानाध्यक्षो देशकाल मानं विद्यात् । अष्टौ परमाणवो रथचक्रविप्रुट् | ता अष्टौ लिक्षा । ता अष्टौ यूकामध्यः । ते अष्टौ यवमध्यः । अष्टौ यवमध्याः अङ्गुलम् । मध्यमस्य पुरुषस्य मध्यमाया अङ्गुल्या मध्यप्रकर्षो वाङ्गुलम् । चतुरङ्गुलो धनुर्ब्रहः । अष्टाङ्गुला धनुर्मुष्टिः । द्वादशा- ङ्गुला वितस्तिः छायापौरुषं च । चतुर्दशाङ्गुलं शमः शैलः परिरयः पदं च । द्विवितस्तिररत्निः प्राजा- पत्यो हस्तः। सधनुर्ब्रहः पौतवविवीतमानम् । सधनु- र्मुष्टिः किष्कुः कंसो वा । द्विचत्वारिंशदङ्गुलस्तक्ष्णः क्राकचिककिष्कुः स्कन्धावारदुर्गराजपरिग्रहमानम् । चतुष्पश्चाशदङ्गुलः कुप्यवनहस्तः । चतुरशीत्यङ्गुलो व्यामो रज्जुमानं खातपौरुषं च । चतुररत्निर्दण्डो धनुर्नालिका पौरुषं च । गार्हपत्यमष्टशताङ्गुलं धनुः पथिप्राकारमानम् । पौरुषं च अग्निचित्यानाम् । षट्कंसो दण्डो ब्रह्मदेयातिध्यमानम् । दशदण्डा रज्जुः । द्विरज्जुकः परिदेश: । त्रिरज्जुकं निवर्त- नम् । एकतो द्विदण्डाधिको बाहु: । द्विधनुस्सहस्रं गोरुतम् । चतुर्गोरुतं योजनम् । इति देशमानम् । कालमानमत ऊर्ध्वम् । तुटो लवो निमेषः काष्ठा कला नालिका मुहूर्तः पूर्वापरभागौ दिवसो रात्रिः पक्षो मास ऋतुरयनं संवत्सरो युगमिति कालाः । निमेषचतुर्भागस्तुट: । द्वौ तुटौ लवः । द्वौ लव निमेषः । पञ्च निमेषाः काष्ठा । त्रिंशत्काष्ठाः कला । चत्वारिंशत् कला नाडिका । सुवर्णमाषकाञ्चत्वार (१) कौ. २१२०. ५२७ श्चतुरङ्गुलायामाः कुम्भच्छिद्रमा ढकमम्भसो वा नालिका । द्विनालिको मुहूर्तः । पञ्चदशमुहूर्तो दिवसो रात्रिश्च चैत्रे मास्याश्वयुजेच मासि भवतः । ततः परं त्रिभिर्मुहूर्तेरन्यतरः षण्मासं वर्धते हसते चेति । छायायामष्टपौरुष्यामष्टादश- भागश्छेदः, पट्पौरुष्यां चतुर्दशभागः, चतुष्पौ- रुष्यामष्टभागः, द्विपौरुष्यां षड्भागः, पौरुष्यां चतुर्भागं:, अष्टाङ्गुलायां त्रयो दशभागाः, चतु- रङ्गुलायां अष्टभागाः । अच्छायो मध्याह्न इति । परावृत्ते दिवसे शेषमेवं विद्यात् । आपाढे मासि नष्टच्छायो मध्याह्नो भवति । अतः परं श्रावणा- दीनां षण्मासानां व्यङ्गुलोत्तरा माघादीनां व्यङ्गुला- वरा छाया इति । पञ्चदशाहोरात्राः पक्षः । सोमा- प्यायन: शुक्ल: । सोमावच्छेदनो बहुल: । द्विपक्षो मासः । त्रिंशदहोरात्रः प्रकर्ममासः । सार्धः सौरः । अर्धन्यूनचान्द्रमासः । सप्तविंशतिर्नाक्षत्रमासः । द्वात्रिंशद् मलमासः । पञ्चत्रिंशदश्ववाहायाः । चत्वारिंशद्धस्तिवाहायाः । द्वौ मासावृतुः । श्रावणः प्रोष्ठपदश्च वर्षाः | आश्वायुजः कार्तिकश्च शरत् । मार्गशीर्ष : पौषश्च हेमन्तः । माघः फाल्गुनश्च शिशिरः । चैत्रो वैशाखश्च वसन्तः । ज्येष्ठामूलीय आपाढच ग्रीष्मः । शिशिरायुत्तरायणम् । वर्षादि दक्षिणायनम् । व्ययनः संवत्सरः । पञ्चसंवत्सरो युगमिति । दिवसस्य हरत्यर्क: पष्टिभागमृतौ ततः । करोत्येकमहश्छेदं तथैवैकं च चन्द्रमाः || एवमर्धतृतीयाना मदानामधिमासकम् । ग्रीष्मे जनयतः पूर्व पञ्चाव्दान्ते च पश्चिमम् ।। मनु: 'लोकसंव्यवहारार्थ याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ (१) ताम्रादीनां लिक्षादयः संज्ञा भुवि प्रसिद्धाः । किं (१) मस्मृ.८।१३१; स्मृच.९८; विर.६६५ रू (रौ); पमा. १५६ नां ताः (न्ताः) म्यशे (मविश); स्मृचि. ३७; दवि. २३; व्यप्र. १७५; त्रिता.२७३ थे (थे) प्रथि (कथि); राकौ. ४०९ याः संशाः (संशाः स्युः); प्रका. ६१; समु.५१.