पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसज्ञाः Sa शतमिति । तेन धरणानि व्याख्यातानि । प्रतिमा- नान्ययोमयानि मागधमेकलशैलमयानि, यांनि वा नोदकप्रदेहाभ्यां वृद्धिं गच्छेयुरुष्णेन वा हासम् । षडङ्गलादूर्ध्वमष्टाङ्गुलोत्तराः दश तुलाः कारये- तत्पञ्चकं मापः । तद्द्वादशमक्षार्धम् । अक्षार्धमेव | लोहपलादूर्ध्वमेकपलोत्तराः । यन्त्रमुभयतः शिक्यं सचतुर्माषकं सुवर्ण: । चतुःसुवर्णको निष्कः । द्वे कृष्णले समधृते रूप्यमावकः । तत्पोडशकं धरणम् । ताम्रकार्षिकः कार्षापणः । विष्णु: जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञकम् । तदृष्टकं लिक्षा | तत्त्रयं राजसर्षपः । तत्त्रयं गौरसर्षपः । तत्षद्कं यवः | तत्त्रयं कृष्णलम् । (१) लिक्षा स्वेदजं यूकाण्डम् । द्वादशं द्वादशान। समुदाय: । समधृते तुल्यपरिमाणे । वै. (२) सचतुर्माषकं माषचतुष्टयसहितं पोडशमाषात्मक मित्यर्थ: । अभिधानकोषे तु '... गुञ्जाः पञ्चाद्यमाषकः । ते षोडशाक्षः कर्पोऽस्त्री पलं कर्षचतुष्टयम्' || इत्युक्तम् । अन्ये त्वाहुः – स्वक्षेत्रे यथावन्मध्यपाककाले निष्पन्ना धान्यमाषा दश सुवर्णमापः, पञ्च वा गुञ्जाः, सुवर्णमापाश्च षोडश सुवर्णः स एव कर्षः, चतुःकर्षः पलं, पलानां शतेन तुला, विंशत्या तुलाभिर्भारः । बालभूषणे चण्डेश्वरः-- ‘कर्षः पलपादः स्यात् कर्पार्धे तोलकः सोऽपि । उक्तो वसुभिर्मापैर्लोके मापोऽपि गुञ्जकैर्दशभिः' ॥ पलमत्र वैद्यक प्रसिद्ध मष्टतोलकमिति । दवि.२४-२५ कौटिलीय अर्थशास्त्रम् तुलामानपौतवम् – पौतवाध्यक्षः पौतवकर्मा- न्तान कारयेत् । धान्यमाषा दश सुवर्णमापकः । पञ्च वा गुञ्जाः । ते षोडश सुवर्ण: कर्पो वा । चतुष्कर्ष पलम् । अष्टाशीतिगरसर्वपा रूप्यमापकः । ते षोडश धरणम् । शैम्व्यानि वा विंशतिः । विंशतितण्डुलं वज्रधरणम् । अर्धमाषकः, माषक:, द्वौ, चत्वारः, अष्टौ मापकाः, सुवर्णो, द्वौ, चत्वारः, अष्टौ सुवर्णाः, दश, विंशतिः, त्रिंशत्, चत्वारिंशत् वा । पञ्चत्रिंशत्पललोहां द्विसप्तत्यङ्गुलायामां सम- वृत्तां कारयेत् । तस्याः पञ्चपलिकं मण्डलं बद्ध्वा समकरणं कारयेत् । ततः कर्पोत्तरं पलं, पलोत्तरं दशपलं, द्वादश पञ्चदश विंशतिरिति पदानि कारयेत् । तत आ शताद् दशोत्तरं कारयेत् । अक्षेषु नद्धीपिनद्धं कारयेत् । द्विगुणलोहां तुला- मतः पण्णवत्यङ्गुलायामां परिमाणीं कारयेत् । तस्याः शतपदादूर्ध्व विंशतिः, पञ्चाशत्, शतमिति पदानि कारयेत् । विंशतितौलिको भारः । दशधरणिकं पलम् । तत्पलशतमायमानी। पञ्चपलावरा व्याव- हारिकी भाजन्यन्तःपुरभाजनी च । तासामर्ध- धरणावरं पलम् । द्विपलावरमुत्तरलोहम् । पडङ्गु - लावराचायामाः । पूर्वयोः पञ्चपलिकः प्रयामो मांसलोहलवणमणिवर्जम् । काष्ठतुला अष्टहस्ता पदवती प्रतिमानवती मयूरपदाधिष्ठाना । काष्ठ- पञ्चविंशतिपलं तण्डुलप्रस्थसाधनम् । एष प्रदेशो बह्वल्पयोः । इति तुलाप्रतिमानं व्याख्यातम् । अथ धान्यमाषद्विपलशतं द्रोणमायमानम् । सप्ता- शीतिपलशतमर्धपलं च व्यावहारिकम् । पञ्चसप्त- तिपलशतं भाजनीयम् । द्विषष्टिपलशतमर्धपलं चान्तःपुरभाजनीयम् । तेषामाढकप्रस्थकुडुबाश्चतु- र्भागावराः । षोडशद्रोगा खारी, विंशतिद्रोणिकः कुम्भः, कुम्भैर्दशभिर्वहः । शुष्कसारदारुमयं समं चतुर्भागशिखं मानं कारयेत् । अन्तःशिखं वा । रसस्य तु । सुरायाः पुष्पफलयोः तुषाङ्गाराणां सुधायाश्च शिखामानं द्विगुणोत्तरा वृद्धिः । सपाद- पणो द्रोणमूल्यम् | आढकस्य पादोनः । षण्माषकाः (१) विस्मृ. ४१ १३; जिर. ६६७ (तद् द्वादशमक्षार्थमेव चतुर्मापकं सुवर्णः); दवि.२४ (तद्वादशमक्षकमेव सचतुमीषकं सुवर्ण:); नृप्र. १३ (). (२) कौ. २११९.