पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् आगतस्तु शरमाही न पश्यति यदा जले । अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् || अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् । स्थानाद्वाऽन्यत्र गमनाद्यस्मिन्पूर्व निवेशितः || (१) अत्र षड्भिः श्लोकैर्जलदिव्यविधिरभिहितः । स्पष्ट एव न किञ्चिद्याख्यानसापेक्ष्यं । अभा. ७९ (२) एकाङ्गस्यापि दर्शनादिति कर्णाद्यभिप्रायेण । दित.६७१ 1 सैत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । अद्भ्यश्चाग्निरभूद्यस्मात्तस्मात्तोये विशेषतः ॥

  • क्रियते धर्मतत्वज्ञैर्दूषितानां विशोधनम् ।

तस्मात्सत्यॆन भगवन् जलेश त्रातुमर्हसि ॥ अनेन श्लोकद्वयेन जलदेवताधिवासनमुक्तम् । इति ऋणादाने उदकदिव्यविधिभेदः । अभा. ७९ नारदीयमनुसंहिता अंतःपरं प्रवक्ष्यामि पानीयविधिमुत्तमम् । नातिक्रूरेण धनुषा प्रेरयित्वा शरत्रयम् ।। अतःपरमुदकविधिरुच्यते । नातिखरेण नातिमृदुना मध्यमेन च धनुषा शरत्रयं क्षिप्त्वा । पानीये मज्जयेद्यस्तु शङ्कायां प्रतिवर्तते । नाभा. (१) नास्मृ. ४ | ३११ तस्तु (तश्च) लगतं (लं यदा); अभा. ७९ नास्मृवत्; अप. २।१०९ द्धिं (द्धं); व्यक.९२ नारद- पितामहौ; स्मृचि. ५५ अपवत्, नारद पितामहौ; द्वित. ६०१; व्यसौ. ८ १.८४ अपवत्; व्यम. ३३ यदा (तथा) द्धिं (द्धं) नारद- पितामहौ; राकौ. ४२८ अपवत्; समु. ६२. (२) नास्मृ. ४ | ३१२; अभा. ७९; अप. २।१०९ द्धः (द्धि:) नातू (ने); व्यक.९२ पितामहनारदौ; स्मृसा. १२७ नात् (ने) क्रमेण बृहस्पतिः; नृप्र. १५; दित.६०१ शितः ( शयेत् ); व्यसौ.८४ द्धः (द्धि:) पू.; व्यप्र. २०८;ध्यम. ३३ नारदपितामहौ; राकौ.४२८. (३) नास्मृ. ४ | ३१६; अभा. ७९ गस्य (व्येऽर्थे); व्यक. ९२; व्यसौ.८४-८५ (); व्यप्र. २०६; विता. २४९ मी (ग्भिः) त्तमौ (न्मतः) अद्भ्य... स्मात् ( अदम्रोऽग्निरनुष्णः स्यात् ); राकौ. ४२६. (४) नास्मृ.४।३१७;अभा.७९ जले (कुले); व्यक.९२; व्यसौ. ८ .८५ (=); ग्यप्र. २०६; त्रिता. २४९; राको.४२६. (५) नासं. २०१२२. (६) नासं. २०१२३, नाभा. मध्यमस्तु शरो यः स्यात् पुरुषेण बलीयसा || प्रेत्यानीते तु तेनाथ तस्य शुद्धिर्भविष्यति ॥ पानीथे मज्जयेद्, यस्त्वाशङ्कितः पुरुषः ततः पूर्व शर त्रये प्रेरिते मध्यमो यः नातिदूरे नातिनिकटे पुरुषेण बली- यसा तत्रस्थेन गत्वानीते तस्मिन् तेन तस्य शुद्धिः, तावद् यदि नोन्मजेत् । अथोन्मजत्यशुद्धः । स्त्रियस्तु न बलात्कार्या न पुमांसोऽतिदुर्बलाः । भीरुत्वाद् योषितो मृत्युर्निरुत्साहतया कृशः || स्त्रियोऽनिच्छन्त्यो न बलात्कार्याः, पुरुषश्चाति- दुर्बलः । यदि स्वेच्छया कुर्वन्ति तदा न दोषः । भीरु- त्वात् स्त्री म्रियते दुर्बलत्वाच्च पुरुषः । वारिमध्ये मनुष्यस्य अङ्गं यदि न दृश्यते । अतोऽन्यथा न शुद्धः स्यादेकाङ्गमपि दर्शयन् ॥ उदकमध्ये निमनस्य यद्येकमप्यङ्गं न दृश्यते ततः शुद्ध इति सामर्थ्यात् । अतोऽन्यथा यत्किञ्चिदप्यङ्गं दर्शयन्नशुद्धः स्यात् । स्थानादन्यत्र वा गच्छन् यस्मिन्पूर्व निवेशितः | तोयमध्ये मनुष्यस्य गृहीत्वोरुं सुसंयतः ।। लग्नस्तु निश्चलस्तिष्ठेद्यावत् प्राप्तस्तु सायकः । ( प्राप्तं तु सायकं दृष्ट्वा जलादुत्थाय प्राङ्मुखम् ।) यस्मिन् स्थान उदकमध्ये पूर्व निमजितः तस्माद - न्यत् स्थानं गच्छन् न शुध्यतीति पूर्वशेषः । तस्य मनु- यस्य गृहीत्वोरुदेशं तथा निश्चलस्तिष्ठेद् यावच्छर आनीत इति । नाभा. नाभा. आनीतं तु शरं दृष्ट्वा जलादुत्थाय प्राङ्मुखः । प्रणिपत्य नृपं गच्छेत् सर्वाश्चैव सभासदः || प्रणिपत्य नमस्कृत्य नृपं सभासदश्च शुद्धो गच्छेद् यथेष्टम् । नाभा. त्वमम्भः ! सर्वभूतानामन्तश्चरसि नित्यशः । प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ॥ त्वमेव देव ! जानीषे न विदुर्यानि मानवाः | व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥ तंदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ (१) नासं. २०२४. (२) नासं. २०/२५. (३) नालं. २०/२६. (४) नासं. २०/२७. (५) नासं. २०/२८. (६) नासं. २०।२९, (७)नासं. २०१३०. (८). २०१३१..