पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् गते तस्मिन्निममाङ्गं पश्येचेच्छुद्धिमाप्नुयात् ॥ (१) मध्यमेन च धानुष्केण धनुषा च मध्यमेन निमज्जतः -- समकालमिति । अनिममस्यैवेषुत्रये क्षिप्ते मध्यमेषुसमीपे जविष्ठं पुरुषमास्थाप्य मजनसमकालमे- वोदकसमीपादन्यो जविष्ठः तमिषुदेशं प्रधावन् गच्छेत् । गते च तस्मिन् पूर्वोपस्थित इषुमादाय तथैव प्रत्यागतो यदकस्थितं मनाङ्गमदेशान्तरस्थं च पश्येत् ततः शुद्धिमाप्नुयादिति कृतव्याख्यानमेवैतत् । विश्व २ | ११३ (२) निमजनसमकालं गते तस्मिन् जविन्येकस्मिन् पुरुषे अन्यो जवी शरपातस्थानस्थितः पूर्वमुक्त मिषु- मानीय जले निमनाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतदुक्तं भवति-- त्रिषु शरेषु मुक्तेष्वेको वेगवान् मध्यमशरपातस्थानं गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस्तयोस्तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालमेव तोरणमूलस्थितोऽपि द्रुततरं मध्यमशरपातस्थानं गच्छति । शरग्राही च तस्मिन्प्राते द्रुततरं तोरणमूलं प्राध्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । निमग्नाङ्गं पश्येच्चेच्छुद्धि- माप्नुयादिति वदता उन्मजिताङ्गस्याशुद्धिदर्शिता । . (३) इषुमोक्षणसमकालं वेगातिशयवान् इष्वानय. नार्थं गतः तस्मिन् गते पुनरन्यस्तथाविधो मज्जनसम- कालं मध्यमं शरमादायागत्य यदि दिव्यकारिणं निम- नाङ्गं पश्यति तदा राजा तस्य शुद्धिं दिशेत् । दीक. ४१ (४) जलस्थस्य पुरुषान्तरस्योरुं गृहीत्वा दिव्यकर्ता मजतीत्येकः कालः । तत्र बलवानेको वेगशाली प्रथम- शरं गृह्णाति तादृशश्चाऽपरो मध्यमशरं गृहीत्वा मनमेवं दिव्यकारिणं पश्यतीति । वीमि. नारदः

  • अप., पमा, दित, व्यप्र., व्यउ मितागतम् ।

तस्मि (इन्यस्मि); मिता; अपनीयान्यो (नयद्यो); पमा. १८५; व्यचि.८२ ( = ) ; मच. ८ | ११६ मुक्त (क्षिप्त) च्चेच्छुद्धिमा (च्छुद्धिमवा); वीमि.; व्यप्र. २०७; व्यउ. ६४ अपवत् ; समु. ६२ तस्मि (इन्यस्मि). अतः परं प्रवक्ष्यामि पानीयविधिमुत्तमम् । है मन्तकालादन्यत्र शिशिराच यथाक्रमम् || नंदीषु नातिवेगासु सागरेषु वहेषु च । हृदेषु देवखातेषु तडागेषु सरःसु च ॥ 1 (१) अत्र वहानि यानि सलिलानि समुद्रनदीप्रभृ- तीनि तानि निषिद्धानि | यानि पुनरवहानि हृददेव- खाततडागसरांसि तान्यादृतानि । अभा.७८ (२) नातिवेगासु स्थितिविरोधिवेगशून्यासु । दित.६०० तोरणं तत्र कर्तव्यं लक्ष्यलक्षणसंधये ॥ लक्ष्यलक्षणयोः संधिरभिसंधिः परिज्ञानमिति यावत् । तत्तोरणं च निमजनस्थानसमीपे समदेशे शोध्यकर्म- सवि. २०१ अयमत्र प्रयोगक्रमः - उक्तलक्षगजलाशयसंनिधा- बुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय | प्रमाणोच्छ्रितं कार्यम् | तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणमा- वाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान् हवनान्तमिष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रमाबध्य प्राविवाको जलम- भिमन्त्रयेत् । 'तोय त्वं प्राणिनां प्राण' इत्यादिना मन्त्रेण । अथ शोध्यः सत्येनेत्यादिना मन्त्रेण जलमभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपमुपसर्पति । अथ शरेषु त्रिषु मुक्तेषु | मध्यमशरपातस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन् ! पुरुषे स्थिते अन्यस्मिंश्च तोरणमूले स्थिते प्राविवाकेन तालत्रये दत्ते युगपद्गमनमजनमथशरानयनमिति। #मिता. गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् । कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचिः ॥ (१) नास्मृ. ४ | ३०४; अभा. ७८. (२) नास्मृ. ४ | ३०५; अभा. ७८; मिता.२ | १०८ नाति (तनु ) ; व्यक. ९१ साग... च ( तडागेषु सरःसु च ) (हृदेषु स्थिरतोयेषु कुर्यात् पुंसां निमज्जनम् ); स्मृसा. १२६ व्यकवत् ; स्मृचि. ५५ व्यकवत् ; दित. ६०० व्यकवत् ; व्यसौ. ८३ ( हदेपु स्थिरतोयेषु कार्यं पुंसां निमज्जनम् ) शेषं व्यकवत् ; व्यउ. ६ ३ नाति (तनु) रेषु वहे ( रेष्ववटे) सर:सु (सरित्सु); विता. २४६ नाति (तनु) शेषं व्यकवत् ; समु.६२ नाति (तनु) तडागे (तटाके). (३) सवि.२०१. (४) मिता. २०१०९ स्थानं (स्थान) शुचिः (शुचौ); पमा. १८३; दित. ६०१ शुचि: (शुचौ); सवि. २०१ दितवत्; व्यम्. २०४; व्यउ. ६३ शुचि: (पु च); व्यम. ३३ समे शुचिः (समौ शुची); विता. २४५ दितवत्; राकौ. ४२५ दितवतु; समु. ६२ दितवत्.