दिव्यम्-अग्निविधिः (१) कृतलक्षणौ हस्तौ दर्शयित्वा पुनश्च मृदितव्रीहि रप्यलक्षितदाहः पराजयव्यञ्जकललाटस्वेदादिलक्षण- हीनः कुहकादिशङ्काविनिर्मुक्तः शुद्धिमाप्नुयात् । दाह- संशयान्तरापिण्डपतनयोस्तु पुनस्त्रिरात्रे सप्तरात्रे वा स्मृत्यन्तरानुसारात् करणमवसेयम् । स्पष्टमन्यत् । विश्व. २।१११ (२) सत मण्डलानि गत्वा किं कर्तव्यमित्यत आह मुक्त्वेति । अष्टमे मण्डले स्थित्वा नवमे मण्डले अनितप्त- मयः पिण्डं त्यक्त्वा कराभ्यां व्रीहीन् मर्दयित्वा अदग्ध- हस्तश्चेच्छुद्धिमाप्नुयात् । दग्धहस्त श्वेदशुद्ध इत्यर्थसिद्धम् | यस्तु संत्रासात् प्रस्खलन् हस्ताभ्यामन्यत्र दह्यते तथा- प्यशुद्धो न भवति । यथाह कात्यायन: -- 'प्रस्खलन्नभि शस्तश्चेत्स्थानादन्यत्र दह्यते । अदग्धं तं विदुर्देवास्तस्य भूयोऽपि दापयेत्' इति ॥ अन्तरेति । यदा गच्छतो- ऽन्तराऽष्टममण्डलादर्वागेव पिण्डः पतति दग्धादग्धत्वे वा संशयस्तदा पुनर्हरेदित्यर्थप्राप्तमुक्तम् । अत्र चाय- मनुष्ठानक्रमः-- पूर्वेचुर्भूतशुद्धिं विधाय परेयुर्मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश्च मन्त्रैस्तत्र तत्र संपूज्याग्निमुपसमाधाय शान्तिहोमं निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्द- नादिकं करसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बध्वा प्राड्विवाकस्तृतीये तापेऽग्निमभिमन्त्र्य तप्तमयःपिण्डं संदंशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्या- ञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति । *मिता. (३) यदुक्तम् – 'अन्तरा पतिते त्यादि तत् ब्रीहि- मर्दने कृतेऽपि यत्र संदेहो नापैति तद्विपयं, किं सत्यानृतवशाददादाहौ उत दृष्टव्यवधानाव्यवधानादि कारणवशादिति यत्र संदेहस्तद्विपयं च । 'अन्तरा पतिते पिण्डे' इत्यत्र 'दग्धश्च नोपलभ्यते' इति शेषो- ऽवगन्तव्यः । दग्धस्योपलम्भे त्वशुद्धिनिश्चयेन पुनर्हरणा- नवकाशात् । +स्मृच. ११५ (४) संदेहे दग्धत्वादग्धत्वसंदेहे तस्मिन्नेव प्रयोगे अप., वीमि., म्यउ. मितागतम् | +व्यप्र. स्मृचगतम् । व्यप्र. २०२-२०३; व्यड. ६ २; व्यम ३१ उत्त. ; विता. २४४ उत्त.; प्रका. ७३ पितामहः, उत्त; समु. ६१. म. का. ६९ ४८९ पिण्डं पुनरारोप्य शेषं समापयेत् न तु प्रयोगान्तरम् । आरोपणमात्रस्य पुनर्विधानात् तत्प्रयोगस्य विगुणत्वा- निश्चयाच्च । दित ५९७-५९८ नारदः अतः परं प्रवक्ष्यामि विधिमग्नेस्तथोत्तमम् । द्वात्रिंशदङ्गुलं प्राहुर्मण्डलान्मण्डलान्तरम् ॥ अष्टभिर्मण्डलैरेवमङ्गुलानां शतद्वयम् । षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना ॥ (१) अत्र श्लोकद्वयेन अग्निदिव्य विधानमधिकृत्य गृहीतदिव्यः पुरुषो यावन्मात्रं गच्छति तदुक्तम् । एक मण्डलकं द्वात्रिंशदङ्गलप्रमाणं भवति । तेन प्रमाणे- नाष्टौ मण्डलानि भवन्ति । तेष्वष्टमण्डलेष्वपि एकत्राङ्के अङ्गुलानां शतद्वयं षट्पञ्चाशदधिकं भवति एतत्क्रमेण भूमिप्रमाणमभिहितम् । अभा.७७ (२) अयमर्थः – अवस्थान मण्डलात् पोडशाङ्गुला- न्मण्डलान्तरमन्यन्मण्डलम् । द्वितीयाद्येकमेकं द्वात्रिंश- दङ्गुलं सान्तरालं तदेवमवस्थानमण्डलं पोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंश- दगुलान्येवमष्टाभिर्मण्डलैश्चत्वारिंशदधिकं शतद्र्यं भूमेरङ्गुलमानतः अङ्गुलमानमिति सार्वविभक्तिक- स्तसिः । अस्मिंस्तु पक्षेऽवस्थानमण्डलं पोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सतानां सान्तराल मण्डलभूभागानामेकमेकं भूभागं द्विधा विभज्यान्तराल- (१) नास्मृ. ४ | २८५; अभा. ७७ (द्वात्रिंशन्मण्डलान्याहु- मण्डलं मण्डलान्तरम् ); भिता. २|१०६ उत्त; अप. २१०६ त्तम (त्तर); व्यक्र.८७ अतः (ततः) सम (त्तर) दगुलं प्रानु (न्मण्डलानाहु); सवि. १९४ र्मण्डलान् (र्मण्डलं) उत्त.; व्यसौ. ८० थोत्तमम् ( था परम्) लं प्राहु ( लान्याहु ) ; व्यप्र. १९४ स्तथोत्तमम् (येथोदितम्); व्यउ.६१ न्तरम् (न्तरे) शेषं सविवत्, उत्त.; समु. ५९ उत्त. (२) नास्मृ. ४ | २८६; अभा. ७७ त्समधिकं (तमाख्यातं); मिता. २|१०६ अष्ट (अष्टा) उत्तरार्धे (चत्वारिंशत्सम षिकं भूमे माख्याता); व्यक.८ ७ गु (ण्ड) उत्तरार्धे (चतुर्विंशतिराख्मातां रगुलमानतः ) ; अप. २।१०६ अष्ट (सप्त) पढ़... .. कं ( चतुर्विंशत्स- भूमेस्तु परिकल्पना); सवि. १९४ मितावत् ; व्यसौ.८० अ (अष्टा ) गु (ण्ड) उत्तरार्ध अपवत्; व्यप्र. १९४ मितावत्; ब्यउ. . ६१ मिनावत् ; विता. २३५ मितावत् ; समु. ५९ मिताबद्र.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६७
दिखावट