दिव्यम्-अग्निविधिः स विज्ञाय ततश्छन्दं रामस्याकारसूचितम् । चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् || अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् । उपासर्पत वैदेही दीप्यमानं हुताशनम् || प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ • यथा मे हृदयं नित्यं नापसर्पति राघवात् । .तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ कर्मणा मनसा वाचा यथा नातिचराम्यहम् । • राघवं सर्वधर्मज्ञं तथा मां पातु पावकः || .आदित्यो भगवान्वायुर्दिशश्चन्द्रस्तथैव च । अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा ॥ यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम् ॥ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् । विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना || .स विधूय चितां तां तु वैदेहीं हव्यवाहनः । उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥ अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः । • एषा ते राम वैदेही पापमस्यां न विद्यते ॥ नैव वाया न मनसा नानुध्यानान्न चक्षुषा । सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह || याज्ञवल्क्यः . करौ विमृदितनी हेर्लक्षयित्वा ततो न्यसेत् । • सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् + || ' + स्मृच. व्याख्यानं ' ततः प्राङ्मुखरय ' इत्यादिविष्णुवचने (१. ४८५) द्रष्टव्यम् । (१) वारा. ६।११९।२३-२९. (२) वारा.६।१२१।२-७. (३) या स्मृ. २ | १०३; अपु. २५५/३८; विश्व.२।१०७; मिता. त्रेण (त्राणि); अप. हे: (ही) प्ताश्वत्थस्य(प्त चांश्वत्थ);स्मृच. ११.३ द्दे: (ही) त्राणि (र्णानि); पमा. १७९स्मृचवत; व्यचि.८ ० ४८७ (१) तप्तायः पिण्डधारणशास्त्रम् - कराविति । कृत- व्रीहि विमर्दनस्य तप्तलोहहारिणो दाहस्पष्टीकरणार्थं हस्तौ कृतव्रगप्रदेशौ लेखाकरणेन च लक्षयित्वा सप्ताश्वत्थस्य पत्राण्यन्तर्धानाय हस्तयोराधाय सप्तकृत्वः सूत्रेण वेष्ट- यित्वा वक्ष्यमाणलोह पिण्डार्पणनिपुणं लोहकारं गृहीत- तप्तलोहपिण्डं मण्डलक स्थितस्य समीपे प्राङ्मुखं कुर्यात् । विश्व. २।१०७ (२) दिव्य मातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधा- नोक्तधर्मावाहनादिशिरःपत्रारोपणान्ते च विध्यन्ते सत्य • यमग्निविधी विशेषः | विमृदितव्रीहिर्विमृदिता विधर्षिता व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस्तस्य करौ लक्ष- यित्वा तिलकालकव्रणकिणादिस्थानेष्वलक्तंकरसादिना- ऽङ्कयित्वा । यथाह नारदः -- 'हस्तक्षतेषु सर्वेषु कुर्याइंस- पदानि तु' इति 1 अनन्तरं सप्ताश्वत्थस्य पर्णानि हस्तयोः अञ्जलीकृतयोर्न्यसेत् । “पत्रैरञ्जलिमापूर्य आश्वत्थैः सप्तभिः समै : ' इति स्मरणात् । तानि च हस्तसहितानि सूत्रेण तावद्वेष्टयेत् | यावन्त्यश्वत्थपर्णानि सप्तकृत्वो वेष्ट येदित्यर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति । Xमिता. (३) तावत् तावत्कृत्वः सप्तकृत्वः सूत्रेण वेष्ट्येदिति तावदित्यस्य क्रियाविशेषणत्वमङ्गीकृत्योक्तोऽर्थी मिता- क्षरायाम् | तावतां सूत्राणां समाहारस्तावत्सूत्रं तेन । सप्तभिः सूत्रैष्टयेदित्यर्थ: । 'सतभिः सूत्रतन्तुभिः' इति वक्ष्यमाणनारदादिवचनसंवादी प्रतिभाति । तावच्छन्दः संख्याशब्दस्तेन समाहारे द्विगुः स्त्रीलिङ्गत्वाभावाच्च न ीप त्रिभुवनमितिवत् । सप्तकृत्वो वेष्टनं लाभेऽपि शिष्टाचारतः कर्तव्यमिति मदनरत्ने । वचना- व्यप्र. १९७-१९८ 'त्वमग्ने सर्वभूतानामन्तश्चरसि पावक । सावित् पुण्यपापेभ्यो ब्रूहि सत्यं कवे ! मम ॥ X अप, वीमि. मितागतम् | *यम, वाल व्यप्रगतम् । है: (ही) त्रेण (त्राणि); स्मृचि. ५३; दित. ५९५; सवि. १९५ मृ (मु) सूत्रेण (शुभ्राणि) शेर्पा स्मृचवत्; मच.८ ११६ विमृ (सुमृ); वमि.हेः (हं।); व्यप्र. १९७; व्यम.३ १.लेक्ष (रैङ्क); शकौ. ४१९; प्रका. ७१ दि (मर्दि) शेपं स्मृचवत्, समु.६० त्राणि (र्णानि). (१) यास्मृ. २११०४; अपु. २५५ १३९ मने (मेव ) वे (रे); विश्व. २ । १०८ मग्ने (मेव ) ; मिता; अप.; ब्यक.८९;
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६५
दिखावट