पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-अभिविधिः अग्निविधिः वेदाः सवै मेधातिथि काण्वावास्तां तं व त्सं मेधातिथिराक्रोशदब्राह्मणोऽसि शूद्रापुत्र इति सोऽब्रवीदृतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयानिति वात्सेन वत्सो व्यैन्मैधातिथेन मेधातिथिस्तस्य न (?) लोम च नौषत्तद्वाव स तर्ह्यकामयत कामसनि साम वात्सं काममेवैतेनावरुन्वे । वत्सश्च मेधातिथिश्च इमावृषी काण्वौ कण्वगोत्रौ आस्तां पुरा किलाभवताम् । तं वत्सं ऋषिं मेधातिथि- राक्रोशत् अश्लीलया वाचा पर्यवदत् - हे वत्स, त्वं अब्राह्मणो ब्राह्मण्यरहितोऽसि । शूद्रापुत्रः शूद्रायाः पुत्रोऽशूद्रपुत्रोऽपि शूद्रापुत्र इत्याक्रोश्यते'षष्ठया आक्रोश' इति विहितस्य लुकः ‘पुत्रेऽन्यतरस्यामि'ति विकल्पनाद- भाव एवमाक्रुश्यमाणः स वत्सोऽब्रवीत् — ऋतेन सत्य- भूतेन मन्त्रेणाग्निं व्ययाव आवां विशेषेण गच्छावः प्रविशाव इत्यर्थः । नावावयोर्मध्ये यतरो यो ब्रह्मीयान् ब्रह्मिष्ठ इति निर्णेतुम् । एवमुक्त्वा वत्सो वात्सेनानेन साम्ना व्यैत् व्यगच्छदग्निं प्राविशत् मैधातिथेन साम्ना मेधातिथिः । तस्य वत्सस्य लोम च नषत् अग्निर्ना- दहत् । उष दाह इति धातुः । तर्हि तस्मिन् समये तत् अदहनं स खलु ऋषि: अकामयत । तस्माद्वात्सं साम कामप्रदम् । गतमन्यत् । तासा. पुरुष ५ सोम्योत हस्तगृहीतमानयन्त्यपहा- र्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते । अथ यदि तस्याकर्ता भवति तत एव सत्यमा त्मानं कुरुते स सत्याभिसंध: सत्येनात्मान- मन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स न दयतेऽथ मुच्यते यथा सोम्य, पुरुषं चौर्यकर्मणि संदिह्यमानं निग्र- (१) ताबा.१४।६।६. (२) छाउ. ६ | १६. ४८५ हाय परीक्षणाय च उत अपि हस्तगृहीतं बद्धहस्तं आनयन्ति राजपुरुषाः । किं कृतवानयमिति पृष्टाश्च आहुः - अपहापद्धनमस्यायम् । ते च आहुः - किमपहरणमात्रेण बन्धनमर्हति, अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गात् इत्युक्ताः पुनराहुः-स्तेयमका- पत् चौर्येण धनमपहापदिति । तेष्वेवं वदत्सु इतरः अपह्नुते - नाहं तत्कर्तेति । ते च आहुः - संदिह्यमानं स्तेयमकार्षीः त्वमस्य धनस्येति । तस्मिंश्र अपह्नुवाने आहुः - परशुमस्मै तपतेति शोधयत्वात्मानमिति । स यदि तस्य स्तैन्यस्य कर्ता भवति बहिश्चापह्नुते, स एवं- भूतः तत एवानृतमन्यथाभूतं सन्तमन्यथात्मानं कुरुते । स तथा अनृताभिसंघोऽनृतेनात्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तसं मोहात्प्रतिगृह्णाति, स दह्यते, अथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसंधिदोषेण । अथ यदि तस्य कर्मणः अकर्ता भवति, तत एव सत्यमा त्मानं कुरुते । सत्येन तया स्तैन्याकर्तृतया आत्मान- मन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स सत्याभिसंध: सन् न दह्यते सत्यव्यवधानात्, अथ मुच्यते च मृषाभि- योक्तृभ्यः | तप्तपरशुहस्ततल संयोगस्य तुल्यत्वेऽपि स्तेय- कर्त्रकरनृताभिसंधो दह्यते न तु सत्याभिसंधः । छाशांभा. विष्णुः अंथाग्निः । व्यप्र. १९५ 'षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् । इति तत् गन्तव्यमण्डल विषयम् । ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थ- पत्राणि करयोर्दद्यात् । उभयत्रापि ('करौ विमृदिते' ति याज्ञवल्क्यवचने प्रस्तु- तविष्णुवचने च ) ततःशब्देनेदं ज्ञायते। हस्ताङ्कनपत्र- न्यसनयोर्मध्ये यत्स्मृत्यन्तरोक्तं होमादि तदस्मिन् मते न कर्तव्यमिति । स्मृच.११३ (१) विस्मृ. ११११. (२) विस्मृ. १११२; व्यसौ. ८० सप्त (सप्तम); व्यप्र. १९५ न्तरं (न्तर); विता. २३४ व्यप्रवत्. (३) विस्मृ.११।३; स्मृच. ११३ त्थ (त्थस्य); प्रका. ७१ स्मृचवत् ; समु. ६० त्थपत्राणि ( त्थस्य पर्णानि ).