सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - घटविधिः (६) मिता. टीका – यज्ञियं खदिरादिकम् । मन्त्रेति । 'ओषधे त्रायस्वैनं' इत्यादिमन्त्रपूर्वक मित्यर्थः । छेदन- क्रियाविशेषणमिदम् । यूपवदित्यस्य तुला कार्येत्यत्रा न्वयः' । यूपवदित्यतिदेशसिद्धं मन्त्रवदित्युक्तमेवानु- वदति । मन्त्र इति । वानस्पत्यच्छेदने इति समस्तम् । तच्छेदनकाले सोमदेवताक: 'सोमो धेनुं सोमो अर्व- न्तम्' इत्यादिमन्त्रो जप्य एवेत्यर्थः । व्यस्तपाठे वानस्पत्यो मन्त्रो 'घनस्पते शतबल्शो विरोछेति' । अन- योर्जपमन्त्रत्वेनादृष्टार्थत्वात्समुच्चयः । चो भिन्नक्रमः । छेदने तुलाकाष्ठच्छेदने । स स च जप्य एवेत्यर्थ इत्यन्ये । बाल. २।१०२ चतुर्हस्ता तुला कार्या पादौ कार्यों तथाविधौ । अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव वा ॥ (१) पादौ तुलाधारकाक्षाव्यकाष्ठधारणार्थी स्तम्भौ तथाविधौ चतुर्हस्तप्रमाणावित्यर्थः । एतच्च पादयोः प्रमाणं निखननीयहस्तद्वयादुपरितन भागस्य वेदितव्यम् । अतो निखननीयभागेन सह पढ्ढस्तौ भवतः । अक्षस्य प्रमाणं तु पादयोरन्तरालाभिधानेनैवार्थसिद्ध मिति न पृथगुक्तम् । तेन पादस्तम्भमस्तक देशात् बहिरनिःसृतो यथा भवति तथा हस्तद्वयात् सार्धहस्ता. द्वाऽभ्यघिकोऽक्षः कार्य इत्यवगन्तव्यम् । स्मृच. १०५ (२) अत्र साधारणत्वेन शारदातिलकोक्तो हस्तो ग्राह्यः । यथा - 'चतुर्विंशत्यगुलाढ्यं हस्तं तन्त्र- विदो विदुः । यवानामष्टभिः क्लृप्तं मानाङ्गुलमुदीरि- तम्' ॥ यवानां तण्डुलीक्कतानाम् -- 'यवानां तण्डुलै रेकमगुलं चाष्टभिर्भवेत् । अदीर्घयोजितैर्हस्तश्चतु- विंशतिरङ्गुलैः' ॥ इति कालिकापुराणात्, प्रमाणं (१) मिता. २११०२ कार्यों तथाविधौ ( चोपरि तत्समौ ) अन्त ( प्रान्त ); अप. २१०२ रं ( रे ) र्धमे ( र्ध ए ) शेषं मितावत् ; व्यक. ८३ (चतुर्हस्ता तुला कार्या द्विहस्ता च तथा द्विधा); स्मृच.१०५ र्धमे (र्ध ए); पमा.१६८ स्तौ (स्तो); ब्यचि.८०; स्मृचि.५३ वा (च); नृप्र. १३ तू ( च ) स्तौ (स्सो) दध्य (द्धस्ता); दित,५८२ मितावत्, पू.3 सवि. १८४ कार्यौ (चापि) प्रजापतिः; ग्यसौ. ७५-७६ तु (च); ब्यप्र. ९८७ वा (च); व्यउ.५७; ब्यम. २५ वा (च); राकौ. ४१४ मितावत् ; प्रका.६६ स्मृचवत्; समु.५३ स्मृचवत्. म. का. ६१ ४८१ तु पार्श्वन 'यवानां पड्यवाः पार्श्वसंमिताः' इति कात्यायनवचनात् । अनयोर्व्यवस्थामाह कापिलपश्च- रात्रम् । 'अष्टभिस्तैर्भवेज्ज्येष्ठं मध्यमं सप्तभिर्यवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम' || कन्यसं कनिष्ठं पादौ स्तम्भौ उपरि मृत्तिकोपरि तत्समौ चतु- र्हस्तावित्यर्थः वस्तुतस्तु उपरि तत्समौ । दित. ५८२ (३) अन्तरं मध्यम् । अध्यर्धे सार्धहस्तद्वयम् । व्यप्र. १८७ (४) तथाविधौ चतुर्हस्तौ इदं च निखेयहस्तद्वय भागाद्भिन्नम्। ‘अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव वा' । अध्यर्ध सार्धहस्तद्वयम् । अक्षनामकतुलावलम्वणपाठ परिमाणमन्तरालभूमिसमम् । तस्य चावलम्वनस्तम्भा- त्किञ्चिदाधिक्यमिति जीर्णाः, साम्यमेवेति चन्द्रिका- व्यउ.५७ कारः । हैस्तद्वयं निखेयं तु पादयोरुभयोरपि || मिता. टीका - - हस्तद्वयमिति । ऊभयोरपि पादयो- र्हस्तद्वयं हस्तचतुष्टयादवशिष्टं भूम्यन्तः प्रवेशनीय- मित्यर्थः । बाल. २।१०२ चतुरस्रा तुला कार्या दृढा ऋज्वी तथैव च । कटकानि च देयानि त्रिषु स्थानेषु यत्नतः || कटकानि लोहवलयानि । त्रिपु स्थानेषु उपान्तयो- र्मध्ये च । कटकानीत्ययोमयानामन्येपामप्युपलक्षणार्थम् । तेनौपान्त्ययोरायस कीलकौ शिक्यपाशधारणार्थाविषुव द्वफाग्रौ कर्कटशृङ्गसंनिभौ देयौ । मध्ये त्वायसपाशोऽक्ष काष्ठे तुलायोजनार्थी देयः । स्मृच.१०६ तोरणे तु तथा कार्ये पार्श्वयोरुभयोरपि । (१) मिता.२ । १०२; अप. २११०२ व्यास:; पमा. १६९३ स्मृचि. ५३ ( == ); नृप्र. १३; दित. ५८२; व्यप्र. १८७१ व्यउ. ५७; राकौ.४१४. (२) मिता. २|१०२ दृढा ( दृष्टा ) यत्नतः ( चार्थवत्)) अप. २११०२३ स्मृच. १०६; पमा. १६९ फटका ( कर्कटा ) उत्त.; दित. ५८२ यत्नतः (चार्धवत्); सवि.१८५ तुरना (तुर्हस्ता); व्यसौ.७६ तुरस्ना (तुर्हस्ता) पु यत्नतः (विशेषतः); व्यप्र. १८८; व्यउ. ५७ तुरस्रा ( तुर्हस्ता ) ऋज्वी ( रज्वी ) यत्नतः (चार्थवत् ); ग्यम. २५; राकौ. ४१४ दितवत् ; प्रका. ६६; समु५५.. (३) मिता. २ | १०२ तु (च); अप. २ १०२ मितावत्, व्यासः; व्यक.८३ धटादुच्चतरे (ते घटादुद्यते) क्रमेण नारदः।