पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-घटविधिः ' व्यवहाराभिशस्तोऽयं मानवस्तोल्यते त्वया । तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि ॥ " देवासुरमनुष्याणां सत्ये त्वमतिरिच्यसे । सत्यसन्धोऽसि भगवन् ! शुभाशुभविभावने ॥ आदित्य चन्द्रावनिलोऽनलश्च चौर्भूमिरापो हृदयं यमञ्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ शोध्यं शिक्ये यथासंनिवेश निधाय धर्मेत्यादि वृत्त मित्यन्तं प्राड्वित्राको वदेदित्यर्थः । स्मृच. ११० ' त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता || तत्सत्यं वद कल्याणि संशयान्मां विमोचय | यद्यहं पापकर्माऽस्मि तदा त्वं मामधो नय || शुद्धं चैव विजानासि तत उर्ध्व गृहाण माम् । तदेनं संशयारूढं धर्मतत्रातुमर्हसि || इत्यादि कृतश्रावणं लोकपालैः सुरैश्च वै । पुरुषं पुनरारूढं समुद्धृत्य निरीक्षयेत् ॥ तुलितो यदि वर्धेत स शुद्ध: स्यान्न संशयः । (१) नास्मृ.४।२७८ वस्तो (वस्तु); अभा. ७६ नास्मृवत् पु.; व्यक. ८६ नव (नुष); स्मृ व. ११०; पमा. १७२; व्यप्र. १९१; व्यउ. ५९ ( = ); व्यम २६ त्वया ( त्वयि); प्रका. ६९; समु. ५८. (२) नास्मृ. ४ | २७९; अभा.७६ पू.; व्यक.८६; स्मृच. ११० वने (वनै:); पमा १७२ सि भगवन् (हि भग- वान् ) वने (वन:); व्यसौ. ७८ भावने (चारणे); व्यप्र. १९१ तिरिच्य ( भिषिच्य); व्यउ ५९ (= ) सत्ये त्व ( सत्यस्त्व); व्यम. २६ सत्ये त्व ( सत्यैस्त्व ); विता. २२३ () सत्ये त्व ( सत्यैस्त्व); प्रक्रा . ६९ स्मृचवत् ; समु. ५८. (३) अपु. २५५/३५; व्यक.८६; स्मृच. ११०; पमा. १७३; व्यसौ. ७८-७९ लोऽनलश्च ( लानलौ च ); व्यप्र. १९१; व्यड. ६०; व्यम. २६; समु. ५८. (४) नास्मृ. ४।२७९-२८१ ; अभा. ७६. (५) नास्मृ. ४ | २८२; अभा. ७६ (इत्यादि सलोकपालाङ्- का नकृतश्रावणम्) द्धृत्य (तमुक्तं). (६) नास्मृ. ४ | २८३; अभा. ७६; विश्व.२ १०६ स शु (विशु) अवि (न वि) न्नरः (त्तन:); मिता. २११०२ ( = ) अवि (नस); अप. २।१०२ स... यः ( शुद्धो भवति धर्मतः) अवि समो वा हीयमानो वा अविशुद्धो भवेन्नरः || (१) प्रकटार्थोऽपि (ऽयं ) श्लोकः । किंतु केचित्र चोद्यं कुर्वन्ति । यत्किल सुवर्णतुलायां यदेकस्यां दिशि षोडशगद्याणकं फलकदलमारोपितं द्वितीय दिशि गद्या- णकाः षोडश । तदुभयमपि समभृततुल्लास्थितमेव भवति । यदि पुनस्तस्य समतुलावृतस्य तदवस्थस्यैव सुवर्णस्य मध्ये कुतोऽपि भनिनः पुण्ययोगात्तत्र सत- दशमो गद्याणकः आकाशात्पतितो भवति; तदा तत्सुवर्ण वर्धते । वृद्धिप्राप्तं सदधोगामि भवति । नोर्ध्वगामीति । यदि षोडशगद्याणका एकगद्याणकेन हीयमानाः पञ्च- दश भवन्ति, ततस्तत्सुवर्ण हीयमानं ऊर्ध्वमेव गच्छति-!-- एवमनेनोपमानेन तुलितो यदि वर्धेत धर्ममाहात्म्यात् पुरुषः । ततो धर्मगौरवात् अधो गच्छमानः शुद्धः संभ- वति । ऊर्ध्वं तु हीयमानो न शुद्धयति । लोके अत्र आ निवेशात्प्रतिष्ठित्य (?) प्रसिद्धिरेपा । ऊर्ध्व गच्छमान: शुद्धो भवति, अधोगतिरविशुद्धो हीयमानश्च भवतीति । तत्कथमेतत् ? इत्यत्र परिहार उच्यते; यथा रौप्यमल- सहितस्य सुवर्णस्य पोडश दीनाराः फलकदलसमधृताः सन्तः उत्तार्य, खरतराग्निमध्यात्तप्ताः दग्धमलाः पञ्चदश चतुर्दश वा गद्याणका दाहोत्तीर्णाः सुवर्णस्य भूत्वोवं गच्छन्ति । तथा पुरुषोऽपि समतुलावृत उत्तारितः । आ- हूतलोकपालसत्यश्रावणाधिवासनावतीर्णवर्णाग्निदग्ध- शङ्काभियोगारूढकल्मपमलसमूहः दाहोत्तीर्णमिवोर्ध्वमेव गच्छति । एवं विमलपुरुषस्योर्ध्वगमनाद्विशुद्धिरिति सिद्धमिदम् । एप परिहारः । यच्चैतदुक्तम् - 'तुलितो यदि वर्धेत' तदिह् यत्किञ्चिद्वस्तु वर्तते तदूर्ध्वं नैव वर्धते । तुलितो यदि तूर्ध्वं वर्धते, ततः शुद्ध इत्यक्षरा- थंडव्यस्त्येव । अधो गच्छमानस्तु अविशुद्धो भवेन्नरः । । अभा.७६-७७ | (न वि); स्मृच. ११० अवि (न वि); पमा. १७३ सशु (विशु) अवि (न वि); व्यचि. ८० पमावत्, क्रमेण याज्ञवल्क्यः; स्मृचि. ५४ पमावत् दित. ५९० स्मृचवत् पितामहः; मच. ८।११६ वर्धे... न्न ( गच्छेत्स शुद्ध: स्यान्न तु ); सवि. १९२ स्मृचवत्, प्रजापतिः; व्यप्र. १९२ पमावत् ; अविशुद्धो (न शुद्धो वा ) याज्ञवल्क्यः; यम. २६ प्रका. ७० स्मृचवत् ; समु.५८ पमावत्. व्यउ. ६० पभावत् ;