पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् अपहार्यो धनी ज्ञेयः स स्वकं धनमुद्धरेत् ।। मूलप्रामात्समुत्पन्नं लघुप्रामान्तरं तु यत् । तस्य दिव्यं न देयं स्याद्धनिनो दिव्यमर्हति पद्मपुराणम् स्थावरं जङ्गमं वापि यद्रव्यमभियुज्यते । क्रियाप्रयोगकाले तु तन्मूल्यं धर्मतोऽर्हति । तेनैव कनकीकृत्य तत्र दिव्यं प्रयोजयेत् || कालिकापुराणम् दिग्यविषयः शिरोवर्तनं च पेरदाराभिशापे च चौर्यागम्यागमेषु च । महापातकशस्ते च स्याद्दिव्यं नृप साहसे ॥ 'विप्रतिपत्तौ विवादेऽवर्णस्य ख्यापने कृते । तत्रैव दापयेद्दिव्यं शिरःपूर्व महीपतिः ॥ पैरदाराभिमर्शे च बहवो यत्र वादिनः । शिरोहीनं भवेद्दिव्यमात्मनः शुद्धिकारणात् || (१) विप्रतिपत्तौ परदाराभिशापविषयायाम् । विवादे ऋणादानादौ । परदाराभिगमनं चौर्यादीनामप्युप- लक्षणम् । व्यचि. ८३ (२) अगम्याः परदारभिन्नाः साधारणा वेश्याद्याः । शस्ते ऽभिशस्ते । साहसं बलादन्यायः । अवर्णो निन्दा । शिरो दण्डः | परदाररूपं विशेषणमविवक्षितमभिशाप - स्यानुवाह्यत्वात् । एवं बहव इत्याद्यपि । तेन वाद्यभावेऽपि सर्वाभिशापे दिव्यं भवति । शुद्धिकारणादिति (१) समु. ५३. (२) शुनी. ४१७४५ चौर्या... च ( ह्यग- म्यागमनेषु च) स्यादि ... से ( दिव्यमेव च नान्यथा ); उयक. ८१ स्ते च (स्तेषु ); व्यचि.८३ साहसे (शासने ); दित. ५७४ व्यकवत् ; वीमि. २१९६ तेच (स्तेपु) शेषं व्यचिवत् ; व्यप्र. १७२; व्यम. २०; विता. २०१ चौर्या (चौर्येऽ); राकौ. ४०८; बाल. २९६ महा (महत्); समु. ५१ व्यचिवत्. (३) व्यक.८१ ख्या (स्था ) ; व्यचि.८३ वर्णस्य ख्या (च पणस्य स्था) दा (स्था); दित ५७४ व्यचिवत् ; वी मे. २९६ पूर्वार्ध व्यचित्रत् ; व्यप्र. १७२; व्यम. २० ख्या (स्था) दा (स्था); राकौ. ४०८; बाल. २१९६ वर्णस्य ख्या (च अवर्णास्था); समु.५१ ख्या (स्था). (४) व्यक. ८१; व्यचि. ८३ मरों च (गमने) नः शु (त्मसं); दित. ५७४ मशें (शापे ); वीमि. २१९६ व्यचिवत् ; व्यप्र. १७२; व्यम. २० दितवत् ; बाल. २१९६; समु. ५१ दितवत्. हेतुनिर्देशोऽप्येवं संगच्छते । व्यम. २० जातिभेदेन दिव्यभेदः 'वैश्यस्य हि जलं देयं विषं शूद्रस्य दापयेत् । वर्णान्त्यस्य सदा देयं माषकं तप्तहेमजम् || वर्णान्त्यस्य प्रत्यन्तस्य । व्यक. ७९ शुक्रनीति: दिव्यकर्तव्यता | दिव्यप्रकाराः । दिव्यस्वरूपविधिः । अपराधानुसारेण दिव्यविशेषाः । सप्तर्षिभिश्च भीत्यर्थे स्वीकृताम्यात्मशुद्धये ॥ स्वमहत्वाच्च यो दिव्यं न कुर्यात् ज्ञानदर्पतः । वसिष्ठद्याश्रितं नित्यं स नरो धर्मतस्करः ॥ प्राप्ते दिव्येऽपि न शपेद् ब्राह्मणो ज्ञानदुर्बलः । संहरन्ति च धर्मार्ध तस्य देवा न संशयः || यस्तु स्वशुद्धि मन्विच्छन् दिव्यं कुर्यादतन्द्रितः । विशुद्धो लभते कीर्ति स्वर्ग चैवान्यथा न हि || अग्निर्विषं घटस्तोयं धर्माधर्मौ च तण्डुलाः । शपथाश्चैव निर्दिष्टा मुनिभिर्दिव्यनिर्णये || पूर्व पूर्व गुरुतरं कार्य दृष्ट्वा नियोजयेत् । लोकप्रत्ययतः प्रोक्तं सर्व दिव्यं गुरु स्मृतम् || तप्तायोगोलकं धृत्वा गच्छेन्नवपदं करे । तप्ताङ्गारेषु वा गच्छेत्पद्भ्यां सप्तपदानि हि || तप्ततैलगतं लोहमाषं हस्तेन निर्हरेत् । सुतप्तलोहपत्रं वा जिह्वया संलिद्देदपि ॥ गरं प्रभक्षयेद्धस्तैः कृष्णसर्प समुद्धरेत् । कृत्वा स्वस्य तुलासाम्यं हीनाधिक्यं विशोधयेत् || स्वेष्टदेवस्नपनजमद्यादुदकमुत्तमम् । यावन्नियमितः कालस्ताव दम्बुनिमज्जनम् ॥ अधर्मधर्ममूर्तीनामदृष्टहरणं तथा । कर्षमात्रांस्तण्डुलांश्च चर्वयेच्च विशङ्कितः ॥ स्पर्शयेत्पूज्यपादांश्च पुत्रादीनां शिरांसि च । धनानि संस्पृशेद् द्राक् तु सत्येनापि शपेत्तथा ॥ दुष्कृतं प्राप्नुयात्सद्यो नश्येत्सर्व तु सत्कृतम् । (१) व्यक. ७९ हि (च) न्त्य (न्त ); व्यसौ. ७३ न्त्य (न्त); व्यप्र. १७९ उत्त.; व्यम. २१ उत्त; विता. २०० उत्त.; समु. ५४ उत्त. (२) शुनी.४/७२६-७४०.