पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका (१) इन्द्रस्थानं इन्द्रध्वजमुखस्थानम् । व्यक.८२ | इत्यर्थादुक्तम् । (२) दिव्यमिति सामान्येनाभिधानान्न घटस्यैवेयं देशव्यवस्था । किन्त्वनुक्तदेशविशेषाणामन्येषामपीत्यव- गन्तव्यम् । स्मृच.१०५ (३) इन्द्रस्थाने इन्द्रध्वजस्थाने । वित. ५७६ (४) अन्येषु कार्येषु स्वल्पकार्येषु अधिककार्येष्व- प्युत्तमानां सत्यादिपुष्पान्ताः शपथा एव । दिव्यं देय मिति दिव्यग्रहणाद्धटादिविषान्तान्यवगन्तव्यानि । इन्द्र- स्थानमिति प्रख्यातदेवतायतनमुपलक्षयति । सवि. १८३ (५) इन्द्रस्थाने इन्द्रध्वजपूजास्थाने । व्यप्र. १८२ (६) मिता. टीका -- इन्द्रस्थानमिन्द्रप्रतिमा यत्र तत्रेत्यर्थः इति केचित् । इन्द्रस्य परेश्वरस्य स्थानम् । तत्रेति स्वयम् । बाल. २।९९ 'देशकालाविरोधेन यथायुक्तं प्रकल्पयेत् । अन्येन हारयेद्दिव्यं विधिरेष विपर्यये । (१) अन्येन प्रतिनिधिना, हारयेत् कारयेत्, विपर्यये अभियुक्तस्यासामर्थ्ये । * व्यचि.८७ (२) विपर्यये दिव्यकारिणोऽसामर्थ्य युक्तं प्रकल्प- येत् । विपर्यये पूर्वे पित्रादिघातो महापापं वा कृतमिति निश्चये । व्यम. २१ अदेशकालदत्तानि बहिर्वासकृतानि च । व्यभिचारं सदाऽर्थेषु कुर्वन्तीह न संशयः ॥ वासो निवासो जनस्थानं तस्माद् बहिर्निर्जनप्रदेश इति यावत् । अनेन जनसमक्षमेव दिव्यानि देयानि

  • दित. व्यचिवत् ।

(ऽन्येषां तु सर्वेषु ) ; व्यम. २२; विता. २१४ प्रातिलोम्य (प्रति- लोम) तु (च); प्रका.६५-६६; समु.५५. (१) व्यक.८० देशकाला (कालदेशा ) प्रकल्प ( विशोध ) विपर्यये (प्रकीर्तितः); व्यचि. ८७; दित. ५७९ र्यये (र्ययेत्); व्यसौ.७४ देशकाला (कालदेश); वीमि. २१९८ काला (काल); व्यप्र. १८० देशकाला (कालदेशा) ; व्यम. २१; विता. २१६ व्यसौवत् ; राकौ. ४११ देश... धेन (कालदेशाविरोधे तु) पिता ( महः; बाल. २।९९ वीमिवत्, विधिरेष विवर्जयेत् इति कल्प- तरुपाठः; समु. ५४ हार (कार).

/ (२) अप. २१९७; ब्यक.८२ वास (वादि) ऽर्थेषु ( खेवं ) बृहस्पतिकात्यायनौ; स्मृच. १०५; बाल. २/९.९ वास (वादि) नारद बृहस्पतिकात्यायना:; प्रका.६६; समु.५५. स्मृच. १०५ अवधत्वसंदेहे पुनर्दिव्यं देयम् साधयेत्तत्पुनः साध्यं व्याघाते साधनस्य हि । दत्तान्यपि यथोक्तानि राजा दिव्यानि वर्जयेत् । मूर्खोर्लुब्धैश्च दुष्प्रैश्च पुनर्देयानि तानि वै ॥ (१) साधनस्य हि दिव्यस्य व्याघाते निर्णायकत्वाभावे पुनः साध्यं दिव्येन साधयेत् । अयथाशास्त्रं च दत्तान्यपि दिव्यांनि राजा व्यावर्त्य यथोक्तानि दद्यादित्यर्थः । मूर्खादिग्रहणमयथाशास्त्रदानोपलक्षणार्थम् । अप. २१९७ (२) दत्तानीत्यस्य मूर्खेरित्यादिनाऽन्वयः | व्यक. ८२ येथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।.. अयथोक्तप्रदत्तं तु न शक्तं तस्य साधने | दिव्याङ्गस्नानादिविधिः सचैलस्नातमाहूय सूर्योदय उपोषितम् । कारयेत् सर्बदिव्यानि नृपब्राह्मणसंनिधौ ॥ पितामहः दिग्यविषय: यस्मिन् यस्मिन् विवादे तु साक्षिणां नास्ति संभवः। साहसेषु च सर्वेषु तत्र दिव्यानि दापयेत् * ॥ महापराधे दिव्यानि दापयेत्पृथिवीपतिः ॥ तत्तुलादिव्यविषयम् । स्मृच.९६ दिव्यनिरुक्ति: यस्माद्देवैः प्रयुक्तानि पुष्करार्थे मनीषिभिः ।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च क्रियाप्रकरणे (पृ. २३३)

द्रष्टव्यः । (१) अप. २।९७; व्यक.८२ व्याघाते (व्यावर्ती) तृतीयार्धे ( मूर्खोर्लुब्धैन देयानि अवनीतैस्तथैव च ); व्यचि.८५ साधयेत्तव (साध्यते तु). (२) व्यक.८२ तु (च) तस्य (साध्य) बृहस्पतिकात्यायनौ; स्मृचि. ५२ ( अयथोक्तप्रदातुस्तु न सत्यं सत्यसाधनम् ); व्यसौ. ७५ शक्तं (सत्यं); बाल. २१९९ देयं (नेयं ) तप्र (तं प्र ) तु (च) शक्तं तस्य (दत्तं साध्य) नारदबृहस्पतिकात्यायमाः; समु.५५ क्तप्रदत्तं (क्तं प्रयुक्तं) शक्तं (सत्यं). (३) ब्यक.८२ विष्णुकात्यायनौ; स्मृसा. ११८ चै (ने); व्यचि. ८४; स्मृचि ५२ पितम् (पित :); व्यसौ ७५ (४) स्मृच. ९६; प्रका. ६२; समु. ५०. (५) स्मृच. ५०; सवि. १०६ (= ); प्रका. ३३,