पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - दिव्यमातृका अंष्टमं फालमित्युक्तं नवमं धर्मजं भवेत् । (१) अत्र महाभियोगे नियतघटस्य पञ्चशतादिकार्पा- दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयंभुवा ॥ पणापहारेऽभिधानात्तदादिकार्षापणसंबन्ध्यभियोगो महा- (१) तस्यायमर्थ: हिंसाधनपातकाद्यभियोगेषु अल्प्रेषु अभिशस्तानां धर्मजं दिव्यमिति । स्मृच. ९८ । भियोगः । तदादितो न्यूनकार्षापणसंबन्धी त्वल्पाभियोग इत्यवगन्तव्यम् । स्मृच.१०१ (२) अथ किं तद् दिव्यम् ? तत्र मानुषप्रमाणानिर्णेय स्यापि निर्णायकं यत्तद्दिव्यमिति लोकप्रसिद्धम् । अपिना मानुषप्रमाणसत्वेऽपि यत्र चैव घटाग्रङ्गीकारस्तत्रापि एतद् भवतीति सूचितम् । अत एव लिखितसाक्षिभुक्ति- लक्षणत्रिविधमानुषप्रमाणभिन्नप्रमाणं दिव्यं तच्च प्रमाणं न केवलं भावैकगोचरं किन्तु भावाभावावविशेषेण गोचर- यतीति । दित. ५७४ (२) तथा पञ्चाशत्पणादारभ्य सप्ताधिकपष्टिपणाद- वक् शूद्रस्य तुलाधारणं भवति । सताधिकषष्टिपणा- दारभ्य पञ्चाधिकसप्ततिपणादर्वाक् शूद्रस्य जलप्रयो भवति । पञ्चाधिकसप्ततिपणादारभ्य शतपणादर्वाक् शूद्रस्य परशुर्भवति । शतपणादारभ्य शुद्रस्य विषभक्षणमेव । तथा च बृहस्पतिः – विषमिति । पणशतात्मकसहस्रमानसुवर्णे शूद्रस्य विषभक्षणं भवति । मानसहस्रचतुर्भागहीने पञ्चसप्ततिपणात्मके शतसप्तमाने शूद्रस्य परशुधारणम् । तथा सहस्रमानसुवर्णस्य तृतीयभागहीने सप्तपष्टिपणे शूद्रस्य जलप्रत्ययो भवति । पञ्चाशत्पणात्मके सहस्र- मानार्धे शूद्रस्य तुलाधिरोहणं भवतीत्यर्थः । सवि. १७७-१७८ - दिव्यपदनिरुक्ति: यस्माद्देवैः प्रयुक्तानि पुष्करार्थे महात्मभिः । परस्परविशुद्धयर्थं तस्माद्दिव्यानि नामतः ॥ अपराधानुसारेण दिव्यविशेषाः अहमुद्देशतो वच्मि संदिग्धार्थविशुद्धये । देशकालार्थसंज्ञाभिः संयुक्तान्यनुपूर्वशः ॥ अपराधानुरूपेण साध्वसाधुविवक्षया । शास्त्रोक्तेनैव विधिना प्रदातव्यानि नान्यथा ॥ 'विपं सहस्रेऽपहृते पाहोने च हुताशनः । त्रिभागोने च सलिलम देयो घटः सदा ॥ (छ:) ला: (ल:) मं (म:); सवि. १०५ मम् (मः) कः (कम्)ः १६७ च (तु) शेषं पूर्ववत् ; राकाँ ४०६ मम् (म:) श्च (स्तु) लाः (लं) कः (कम्). २/९५ व्यप्र. १७० व्यम. (१) व्यक. ७६; स्मृच.५०, ९८; पमा १५० जं भवेत् (कं तथा ); दीक. ४० भवेत् (स्मृतम्) पू.; व्यचि.७९ नवमं धर्मजं ( धर्मजं नवमं); स्मृचि. ५०; दित. ५७४ दीकवत् : सवि. १०५, १६८ दीकवत् ; व्यसौ. ७१ भवेत् (तथा); वीमि. व्यचिवत् ; व्यसौवत्; २० दीकवत्, पु.; राकौ. ४०६ भवेत् (तथा); बाल.२२९५ मित्यु ( इत्यु ) शेषं दीकवत् ; प्रका. ९४; समु. ५०; विव्य.८ दीकबत्, पू. ( २ ) पमा १५० पु (दु) पू.; समु. ५०. (३) व्यक. ७७; व्यचि. ७९; समु. ५० संज्ञा (संख्या). (४) व्यक. ७७; व्यचि.७९; समु. ५०. (५) अप. २१९९ भागो (पादो); उयक. ७७ सेsपह (स्त्रा- पहु) सदा (तथा); स्मृच. १०१ अ (धर्मे); पमा. १५४ च स (तु स ) ; दीक. ४०; स्मुसा. ११६; व्यचि.८९; स्मृचि. चंतुःशताभियोगे तु दातव्यस्तप्तमापकः । त्रिशते तण्डुला देयाः कोशश्चैव तदर्धके || पञ्चदशपणादारभ्य त्रिंशत्पणादर्वाक् शूद्रस्य कोश- दानम् । त्रिंशत्यणादारभ्य चत्वारिंशत्पणादर्वाक् शुद्रस्य तण्डुलभक्षणं भवति । चत्वारिंशत्पणादारभ्य पञ्चाशप- णादर्वाक् शुद्रस्य ततभाषा भवन्ति । तथा च बृहस्पतिः -- चतुःशतेति । चतुःशताभियोगे शतचतुष्टयमानसुवर्ण- विपयाभियोगे इत्यर्थः । तत्र तप्तमापो दातव्यः । तेषां चत्वारिंशत्पणाभियोगे चत्वारिंशत्पणात्मकत्वात्, शूद्रस्य ५२ सदा (तथा); नृप्र. १२ अपवत; दित. ५८०; सवि. १७७ च हू (तु हु); चन्द्र. १६१ गाने च (गहीने); व्यसौ. ७१ पमावत् ; बीमि. २१९९; व्यप्र. १७३ अपवत; विता. १९६ स्रे (स्रा) शन: (शनम् ); राकौ. ४०९ गोने च (गे तप्त): प्रका.६४, समु.५३ च हु (तु हु) च स (तु स); विव्य.८. (१) अप. २१९९ तु (च) ६ (धि); व्यक. ७७; स्मृच. १०१; पमा १५४ ताभि ( तेऽभि) व्यः ( व्यं ) कः (कम् ) ला देयाः (लं देयं); दीक. ४० तु (च); स्मृसा. ११६; व्यचि. ८९ घं (घि); स्मृचि.५२; नृप्र. १२; दित. ५८०; सवि. १७७ ते (त:); चन्द्र.१६१; व्यसौ. ७१ तु (च); वीमि. २१९९; व्यप्र. १७३; विता. १९६; राकौ.४०९; प्रका. ६४; समु. ५३.