पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ४४८ दिव्यानि देयानि । मिता. (३) अत्र तुलासंबन्धित्वेन स्त्रीबालादयो विधीयन्ते । तेन स्त्रीप्रमुखाणामेव तुलेति नियमोपपत्तिः । सर्वत्र हि विधिना विधेयं नियम्यते । न चात्र तुला विधेया, किं त्वनूद्या प्राथम्यात् । तदुक्तम्-- 'यच्छन्दयोगः प्राथम्यमित्याद्देश्यलक्षणम्' इति । अतश्च प्रवाता- दिकारिते स्त्रीप्रभृतीनां घटासंभवे दिव्यान्तरमपि देयम् । संभवे तु तुलैव । " अप. (४) षोडशवर्षाभ्यन्तरवयस्कस्य, वृद्धस्य, अन्धस्य, पंङ्गो:, ब्राह्मणस्य, रोगिणश्च तुला दिव्यम् । शूद्रस्य तु अभिर्जलं वा विषस्य सप्तयवपरिमिता भागाश्च आदेयाः । वीमि. नासहस्राद्धरेत्फालं न विषं न तुलां तथा । नृपार्थेष्वभिशापे च वहेयुः शुचय: सदा ॥ (१) महापातकाद्याशङ्काभावे तु नासहस्रपरमिति । परशब्दोऽर्थवचनः, यथा ब्राह्मणपरमस्य द्रव्यम् । ब्राह्मणार्थमित्यर्थः।सहस्रादर्वाङ् न फालादीनि स्युः सहस्रा- दर्वागेषामप्रवृत्तिः । नृपार्थेषु त्वल्पाभियोगेष्वपि वहेयुः कुर्युरित्यर्थः । शुचयः सदेति । ये हि नित्यं शुचयो दैवादाशङ्किताः, त एव कुर्युः । न तु संभाविताशुचित्वा अपीत्यर्थः । विश्व. २१०० - -

(२) महाभियोगेष्वेतानीत्युक्तम् । तत्राभियोगस्थ यदपेक्ष्यं महत्त्वं तदिदानीमाह • नासहस्रादिति । पणसहस्रादर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम् -- 'तुलादीनि विपान्तानि गुरुप्वर्थेषु दापयेत्' इति । अत्र कोशस्याग्रहणं दित., सवि., व्यप्र. मितागतम् । व्यम पदार्थो मितावत् । (१) यास्मृ. २१९९; अपु. २५५/३० विपं ( तुलां) तुलां (विषं) शापे च (योगेपु); विश्व २११०० स्राद्धरेत् (स्रपरं) विपं (तुला) तुलां (विषं) शापे च (योगेषु); मिता. ; अप.; उयक ७७सदा (तथा); स्मृच.१०१-१०२; स्मृसा. ११६; व्यचि. ८९ वहे (हरे); दित. ५८० फालं (अग्निं) विषं (तुलां) तुलां (विषं) पू.; सवि. १७९ पू.; मच. ८ | ११६ फालं (अभिं) च (षु); चन्द्र.१६१-१६२ च वहे (पु हरे) सदा (तथा); व्यसौ. ७१; वीमि.; ब्यप्र.१७४ पू.; व्यड.५३ पू.: ५५ उत्त.; विता. १९५ तुलां (तुला) पू. १९७ पार्थेष्व (पद्रोहेड) उत्त.; मेका. ६४३ समु. ५३; विव्य.८ फालं (अग्निं ) पू. कोशमल्पेऽपि दापयेत् ' इति अल्पाभियोगेऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव भवन्तीति । नार्वागित्यर्थः । नन्वर्वागप्यग्न्यादीनि पिता- महेन दर्शितानि " सहस्रे तु घटं दद्यात् सहस्रार्थ तथायसम् । अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम्' इति ॥ सत्यं; तत्रेत्थं व्यवस्था – यद्- द्रव्यापहारे पातित्यं भवति तद्विषयं पितामह वचनमितर- द्रव्यविषयं योगीश्वरवचनमिति । एतच्च वचनद्वयं स्तेयसाहसविषयम् । 'नासहस्राद्धरेत्फालम्' इत्यत्र तु ताम्रिकपणसहस्रं बोद्धव्यम् । - ननु नृपद्रोहे पातके चैतानि दिव्यान्युक्तानि । तत्कथं ‘नासहस्राद्धरेत्फालम्' इत्यत्राह - नृपार्थे- विति । नृपद्रोहेषु महापातकाभियोगे च सदा द्रव्य- संख्यामनपेक्ष्यैवैतानि दिव्यानि कुर्युरुपवासादिना शुचयः सन्तः । xमिता. (३) अभिशापे ब्राह्मणवधे, शुचयः परमार्थतो निर्दोषाः । +अप. (४) एतच्चरित्रादितो मध्यमपुरुषा ये भवन्ति तेषां प्रतिषेधार्थ, मध्यमानां सहस्रादर्वागपहारेऽपह्नवे वा महाभियोगाभावात् । एवं चोत्तमानां द्विसहस्राद- र्यागल्पाभियोगत्वाद्धटादिप्रतिषेधोऽवगन्तव्यः ।

  • स्मृच. १०

(५) इति याज्ञवल्क्यवचनं मध्यमोत्तमविषयत्वेन बृहस्पतिवचनैकवाक्यतयाऽविरुद्धम्।÷दित.५८०-५८१ (६) पणसहस्रादर्वाक् ऋणादौ विवादे न फालं न विषं न तुलां वा हरेत् । तथापदेनोदकं न हरेदिति समुच्चीयते । चकारेण साहससमुच्चयः । +वीमि. (७) मिता. टीका - ननु कल्पतरुणा ‘नासहस्रादिति वाक्यं' पणसहस्रादूर्ध्व नैवापह्नवे फालादिक्रियेत्येवम- पह्नवविप्रयतया व्याख्यातमिति तथैव कुतो नोक्तम् १ इति चेन्न, उपस्थितपूर्वोक्तसंगतिसंभवेऽनुपस्थितपरतया व्याख्यानस्यानौचिंत्यात् । बाल. X स्मृसा., व्यचि. मितागतम् । + शेषं मितागतम्। * स्मृच. (पू. १०२) मितागतम् । ÷व्यप्र. दितवत् ।