पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ शिरःस्थायिना विनाऽपि तुलादीनि कुर्यात् । महाचौर्या- भिशङ्कायां च । यथाह 'राजभिः शङ्कितानां च निर्दि- ष्टानां च दस्युभिः । आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना' इति || तण्डुलाः पुनरल्पचौर्यशङ्कायामेव । 'चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः' इति पितामहवचनात् । तप्तमापस्तु महाचौर्याभिशङ्काया- मेव । 'चौर्यशङ्काभियुक्तानां तप्तमाषो विधीयते' इति स्मरणात् । अन्ये पुनः शपथा: अल्पार्थविषयाः । यद्यपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत्तद्विव्यमिति लोक- प्रसिद्धया शपथानामपि दिव्यत्वं, तथापि कालान्तरनिर्णय- निमित्तत्वेन समनन्तरनिर्णय निमित्तेभ्यो घटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मण परिव्राजकवत् । कोशस्य तु शपथ त्वेऽपि घटादिषु पाठो महाभियोगविषयत्वेनाव- एम्भाभियोगविषयत्वेन च घटादिसाम्यान्न तु समनन्तर- निर्णयनिमित्तत्वेन । तण्डुलानां तप्तमापस्य च समनन्तर निर्णयनिमित्तत्वेऽप्यल्पविषयत्वेन शङ्काविषयत्वेन च धादिवैलक्षण्यात्तेष्वपाद इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश्च यथासंभवमृणादिषु विवादेषु प्रयोक्तव्यानि ।

  1. मिता.

व्यवहारकाण्डम् (३) इदानीमभियोक्तृकर्तृकशीर्षकावस्थाननियमस्य क्वचिन्निमित्तेऽपवादमाह --रुच्येति । द्रोहो जिघांसा, धन- वनितापहारः शत्रुपक्षपातो मन्त्रभेदो वा । xअप. (४) शीर्षकात् शीर्षकवर्तनात् इत्यर्थः | स्मृच.९७ (५) मिता. टीका - ब्राहाणपरित्राजकवदिति । अय- मर्थः । 'ब्राहाणानामन्त्रयेत्युक्त परिव्राजकेऽपि ब्राह्मण- त्वस्याविशिष्टत्वात्तन्नि मन्त्रणेऽपि प्राते पुनः परि ब्राजक्रमामन्त्रयेति पृथगभिधानं यथा परिव्राजक प्राधान्यप्रतिपादनार्थ तथा तुलादीनां शपथानां च सिद्धेऽपि दिव्यत्वे तुलादिभ्यः शंपथानां पृथगभिधानं कालान्तरनिर्णय निमित्तत्व द्योतनार्थमिति । एतदुक्तं भवति । यथा परिव्राजकस्य पृथगभिधानं प्रयोज- नान्तरानुसारेण तथा शपथानामपि प्रयोजनान्तरानु- सारेण पृथगभिधानमिति । तच्च प्रयोजनान्तरं पूर्व- मेवोक्तम् ।

  • व्यचि., सवि., व्यप्र., विता. मितागतम् ।

x शेषं मितागतम् । ● अथवा 'ब्राह्मणपरिव्राजकवत्' इत्यस्यान्योऽर्थः । 'ब्राह्मणानामन्त्रय, परिव्राजकं चामन्त्रये'त्युक्ते ब्राह्मणा- मन्त्रणनियोगेनैव परिव्राजकेऽण्यामन्त्रणनियोगे, सिद्धे पुनः परिव्राजका मन्त्रण नियोगाद्यथा परिव्राजकातिरिक्त- विषयो ब्राह्मणशब्दः तथा तुलादीनां शपथानां च दिव्यत्वे सिद्धेऽपि दिव्यशब्दशपथशब्दयोः प्रयोगा- दिव्यशब्दः शपथव्यतिरिक्ततुलादिविषय इति । सुवो. (६) प्रत्यर्थच्छया अर्थिनो दिव्यमाह -- रुच्येति । इतरोऽभियुक्तः । व्यत. २११ (७) एवं तयोः करणे रुचिर्द्वयोरप्यरुचिर्वा तत्र साक्षिपूभयत इत्यादि वाच्यं यथाव्याख्यातं व्यवतिष्ठते ।

  • वीमि.

(८) अयं च विकल्पोऽभियोक्तुरिच्छायामेव । तद- निच्छायां त्वभियोज्यस्यैव दिव्यम् । व्यम. २० दिव्याङ्गस्नानदेशकालोपवासादीनां विधिः सचैलं स्नातमाहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ || (१) किं सद्य एवं दिव्यक्रिया ? नेत्याह । किं तर्हि ? सचैलस्नातमाहूयेति । नृपादिसंनिधिवचनं कार्यगौरवप्रतिपत्यर्थम् । विश्व.२|१०२ (२) किं च । पूर्वेचुरुपोषितमुदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणमाहूय नृपस्य सभ्यानां च ब्राह्मणानां संनिधौ सर्वाणि दिव्यानि कारयेत्प्राड्विवाकः । अत्र च यद्यपि 'सूर्योदय' इत्यविशेषेणोक्तं, तथापि शिष्ट- समाचाराद्भानुवारे दिव्यानि देयानि । +मिता. (३) तत्र सूर्योदयपदेन पूर्वाह्न एव वचोभङ्गया विहित इत्यवगन्तव्यम् । स्मृच.१०८ (४) अत्र संक्षेपतो दिव्यसामान्यविधिर्लिख्यते ।

  • शेषं मितागतम् । + अप. मितागतम् ।

(१) यास्मृ. २१९७; अपु. २५५/३२; विश्व.२ १०२ चैलं (चेल); मिता.; अपलं स्नात ( लस्नान ); स्मृच. १०८ विश्ववत् ; पमा. १६७; स्मृसा. ११५ उत्त.; मच. ८।११६ स्नात ( स्नान) नृप (देव); चन्द्र. १६० उत्त.; वीमि. चैलं ( चेल ); व्यप्र. १८५; व्यउ. ५५; व्यम. २४ दय (दयं); विता. २१२ अपवत् ; राकौ. ४१३ नारद:; प्रका. ६८ विश्ववत् ; समु. ५७ विश्ववत्