पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ यस्मादेवैः प्रयुक्तानि दुष्करेऽर्थे मनीषिभिः । परस्परविशुध्द्यर्थ तस्माद्दिव्यानि नामतः ॥ ने वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ (१) मिथ्यापथे फलाख्यानमेतत् । वृथाऽन्यथा- ऽसत्यमिति यावत् । तत्रापह्रियमाणसुवर्णादिद्रव्यजात्य- पेक्षोऽनृतशपथदोषोऽन्यथाशपथे स्वल्पे, गरीयसि तु कार्ये गौरवादधिकतरो दोषोऽस्त्येव । प्रेत्य नाशो नरकमिह महदयशः । प्रेमाणान्तरे तु ज्ञाते राजदण्डः । + मेधा. (२) अत्र शपथानामपि दिव्यत्वादुपवासादि- साधारणदिव्यविधिरत्रातिदेष्टव्यः । यत्तु स्मृतितत्त्वव्यव- हारचिन्तामणिकाराभ्यां शपथानां दिव्यभेदेऽनुपन्या- साद्धटादिमध्ये परिगणनाभावाच्च न दिव्येतिकर्तव्यताया अतिदेश इत्युक्तं, तदप्यसत् । पूर्वनारदादिवचनैः शपथानामपि दिव्यत्वस्योक्तत्वात् घटादिपरिगणन वाक्यस्योपलक्षणत्वेन व्याख्यातत्वाच्च । किं च यदुक्त दिव्यलक्षणस्यापि सत्वाच्च त्वयापि तेषां दिव्यत्वमङ्गी कर्तव्यम् । अन्यथा तल्लक्षणमव्याप्तं स्यात् । तस्मात् शपथानामपि दिव्यत्वादस्त्येव दिव्यधर्मातिदेश इत्यलम् । व्यप्र. २२१ व्यवहारकाण्डम् , कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् || (१) कामः प्रीतिविशेषो विशिष्टेन्द्रियस्पर्शजन्यः यासु भवति पुरुषस्य, ताः कामिन्यो भार्या वेश्यादयः । तत्र यः शपथः कामसिद्धयर्था, यथा - 'नाहमन्यां स + गोरा., ममु. मेधागतम् । (१) शुनी. ४।७२५-७२६ रे... भिः (रायें महात्मभिः) नाम (वाप्य); अप.२।९५; व्यप्र. १७१ दुष्क...भिः (पुष्क- राथें महात्मभिः). (२) स्मृ. ८ | १११; व्यक. ९८; स्मृसा. ११८ शपथं (शपथान्) च न ( विन); व्यचि. ९२; व्यत. २२९; व्यसौ. ९०; वीमि. २।११३थं (थान्) उत्त.; व्यप्र. २२१; बाल. २।११३; समु. ५० कुर्वन् (कृत्वा ) . (३) मस्मृ.८।११२; व्यक. ९८; स्मृसा. ११९ भक्ष्ये (भुक्ते) शपथे (शपथै :); व्यचि. ९२ स्मृसावत् ; व्यत. २२९; व्यसौ. ९० स्मृसावत्; वीमि. २१११३ स्मृसावत् ; बाल. २१११३; समु. ५० भक्ष्ये (भक्ते). १ प्रामाण्यान्तरे त्वचा. कामये, प्राणेश्वरी मे त्वमित्याञ्चः। यत्तु संप्रयुज्यस्व मया, इदं त्वया देयं दास्य ' इति, तत्र भवत्येव दोषो वृथा. शपथे । विषयसप्तमी चेयं, न निमित्तसप्तमी । तेन यस्यामेवैकाकिन्यां यथाप्यते, तत्रोक्तरूपशपथे ने दोषः । निमित्तसतम्यां तु निमित्ते परद्रव्यापहारे दोषः स्यात् । अतश्र 'कामाद्दशगुणं पूर्वम्' इत्यादिकं दण्डविधानं | न युज्यते, तथापि स हि निमित्तान्तरकृते विवादतो वृथाशपथे दोषः । एवं सर्वत्र । विवाहेषु, न त्वयाऽन्या वोढव्या न वाऽन्यो वोढर्व्य इति अन्यस्यापि सुहृदादे- 1 र्विवाहार्थमेवंविधमनृतमदोपः । न पुनर्जात्यपह्नवादौ । गवां भध्ये, गवां यवससिद्ध्यर्थं न मयाऽपहृतं न मया- ऽपहर्तव्यं, परस्य चातत्संबन्धिभिर्युक्तस्य वृथासाक्ष्ये शप- मानस्य न दोषः । एवमिन्धने । ब्राह्मणानामभ्युपपत्ति- रनुग्रहः । सर्ववर्णानुग्रहेऽनुज्ञातमेव । किमिह् पुनर्वचनेन । केचिदाहुः । शपथो ब्राह्मणेऽनुज्ञायते । शूद्रादिषु त्वनृत- मेव । तच्च 'तंद्धि सत्याद् विशिष्यते' इति वचनात् नैतदनृतम् । अतो न तत्र प्रतिषेधः । प्रतिषेधो ह्यसौ वृथाशेर्पथस्य | पूर्वेण प्रतिषिद्धस्य प्रतिप्रसवशास्त्रमेतत्, सर्ववर्णानुग्रहे शपमानस्य न दोपः । किमर्थं तींदम् । उच्यते । तत्र वधात् परित्राणमुक्तं सर्ववर्णविषयम् अभ्युपपत्तिस्तु ब्राह्मणस्यैव । सा हि धनलाभादिना संभवति । 'सर्वत्र स्वपरसंबन्धिनीषु क्रियास्वेवंविधासु शपथाभ्यनुज्ञानमुपायान्तरेण तत्सिध्यसंभव एव द्रष्टव्यम् । । मेधा. (२) बहुभार्यस्य नान्यामहं कामये, त्वं मे प्राणेश्वरी- त्येवं, विवाहविपये न च त्वयाऽन्या वोढव्या इत्येवंविधे, गवार्थ घासापहारे वा असंभवदुपायान्तरे, एवं शास्त्रिताग्निहोमार्थचर्वपहारे, ब्राह्मणरक्षायां च धनदानादिविषयायां मिथ्याशपथे पातकं न भवति ।

  • गोरा.

(३) कामिनीध्विति । रहसि कामिनीसंतोपार्थं, विवाहेषु स्त्रीभिः पत्यर्थ, गोग्रासार्थ, नित्याहुति-

  • मवि., ममु., व्यचि., मच, भाच. गोरागतम् ।

१ यन्तु. २ (०). ३ + (जनम् ). ४ तानन्त ५ वादोs- स्त्येव वृथाशपथदोष एव. ६ वोढव्येति ७ + (मयाऽपहर्तव्यं). ८ नहि. ९ ( प्रतिषेध: ० ). १० पथः पू. ११ सर्वतश्च परसंब- न्धिषु क्रियास्वेवंविधौ सुशपथा.