पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - शपथः (३) शपथेनात्मशिरःस्पशादिनापि तवं लम्भयेत् प्रापयेत् वादिनम् । मवि. (४) लम्भयेत् उत्तस्येत । मच. (५) शपथो नाम दीद 14 पातकी स्यामित्यादिवचमा अन्य मुरीय यदि यातुधान' इति । नन्द, महर्षिभिश्च देवैश्च कार्यार्थ शपथाः कृताः । भृशम् । वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ इन्द्र उवाच- न मया भगवन् लोभाद्धृतं पुष्करमद्य वै। धर्मास्तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥ धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः । आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ तदिदं गृह्यतां विद्वन् पुष्करं द्विजसत्तम । अतिक्रमं मे भगवन् क्षन्तुमर्हस्यनिन्दित ॥ इत्युक्तः स महेन्द्रेण तपस्वी कोपनो जग्राह पुष्करं धीमान् प्रसन्नश्चाभवन् मुनिः || कलापशः संघशः । समयं शपथम् । अत्र शपथ- व्याजेन निषिद्धान्युच्यन्ते । शुनः सारमेयान् परिकर्षतु क्रीडाथै मृगयार्थं वा । जयतां युद्धे वादे वा । कक्षामौ तत्र हि हुतं भस्मीभावमप्राप्य होतुर्दोपकरमित्याशयः । उदपानप्लवे एककूपैकजीवने | ब्रह्मकूटो वेदराशिस्तस्या शुचित्वं दोषः, ऋद्धिमतो गर्यो भवतु । अभोग्या योनि दूषिता । साधयित्वा अन्नं पक्त्वा । त्रिकर्मणा जारजा- तेन गर्भादिना । पुष्करार्थ इन्द्रेण स्तैन्यं कृतं मुनिभिः शपथाः कृता इत्यर्थः । हियन्तं ह्रियमाणम् । आदत्तं आत्तम् । प्रत्यवरान् मध्यमान् | पृष्ठमांसानि पृष्ठवाहानां हयपभोष्ट्रादीनां मांसानि । भिक्षुः संन्यासी । अतिथिः यतिः । गृहसंस्थो गृहवासी । स्वपापकृत् स्वेपु ज्ञातिपु पाप- कृत् । गराग्निदानादिना बधकृत् । बालजेन नृकेशजेन निदानं दोहनकाले गवां पादवन्धनी रज्जुः तेन । नीटी. मनुः असाक्षिकेषु त्वर्थेषु मिथो विवमानयोः । अविन्दस्तत्वतः सत्यं शपथेनाऽपि लम्भयेत् ॥ (१) अविद्यमानाः साक्षिणो येष्वर्थेषु व्यवहारेषु तेऽसाक्षिकाः । तेषु सत्यमजानानो राजा तत्त्वतो लौकिके- नानुमानेनापीत्यर्थः । तत्र शपथेनापि वश्यमाणेन देवे- नानुमानेन लम्भयेत् जानीयात् । लभिः प्राप्तिवचनोऽपि सामर्थ्याजानात्यर्थः । मेधा. (२) असाक्षिकेष्विति सकलदृष्टप्रमाणाभावार्थम् । शपथेनाऽपि इत्यपिशब्देन गत्यन्तराभावात् दिव्यमिति दर्शयति । व्यमा. ३१६

  • ममु., व्यप्र. मेधागतम् ।

(१) स्मृ. ८/१०९; व्यमा ३१६ मिथो (मिथ्या); अप. २१९५ अविन्द (विवद ); प्र. १७१; समु. २५. (१) अर्थवादोऽयं पूर्वोक्तस्य शपथविधेः । महर्षिभिः सप्तर्षिप्रभृतिभिः कार्यार्थ संदिग्धकार्यनिर्णयार्थ शपथाः कृताः । अस्मिन्नर्थं च भगवतः कृष्णद्वैपायनस्याख्यान- मुदाहर्तव्यम् । विशेषेषु तेष्वपहारितेषु इतरेतरं सप्तर्षयः शेपिरे । यस्ते हरति पुष्करं स इमां पापकृतो गतिं गच्छेदित्यादि । देवैरिन्द्रप्रभृतिभिः । इन्द्रो ह्यहिल्यां प्रत्य- भिशस्तैः शापभयाद् बहुविधं शपथं चकार । वसिष्ठ- चेति पृथङ् निर्देशः प्राधान्यख्यापनार्थः । शपथं कृत- वानित्यर्थः । उपपदादेव विशेषावगतेः शपतिः करोत्यर्थ- मात्रे वर्तते । यथा यज्ञं यजत इति, स्वपोषं पुष्ट इति, तथा शपथं शेपे इति ज्ञेयम् । 'शप उपलम्भने' इति लिटि प्रथमपुरुषात्मनेपदैकवचने शेपे इति रूपम् । पैजवनो राजा बभूव । तस्मिन् काले विश्वामित्रेणाक्रुष्टो मण्डलमध्यगतः कामक्रोधाभ्यां संशोध्यचरणो 'ऽद्या मुरीय यदि यातुधानोऽस्मी' ति शपथं गृहीतवान् । विश्वामित्रे- गोक्तस्तस्य राज्ञः समक्षमनेनैव तत्पुत्रशतमशितमेष हि रक्ष इति । ततः स उवाच -- अद्यैव म्रिये यदि रक्षः स्यामिति । आत्मन्यनिष्टाशंसनमत्र शपथः पुत्रदारादि- शिरःस्पर्शने एतदनिटाशंसनं शपथो मन्तव्यः । #मेधा. (२) महर्षिभिरगस्त्यादिभिर्विशस्तैरन्यैर्दवैश्वेन्द्रादिभिः संदिग्धकार्यनिर्णयार्थ शपथाः कृताः । वसिष्ठोऽपि अनेन पुत्रशतं भक्षितमित्येवं विश्वामित्राक्रुष्टः पिजवनापत्ये मुदासे राजनि परिशुद्धयर्थं शपथं चकार । न वृथा शपथं xगोरा. चकार ।

  • मवि. मेधागतम् । X ममु. गोरावत् ।

(१) मस्मृ. ८/११०; व्यक. ९७ : व्यप्र. २१९ पैज (वै य); बाल. २।११३ व्यप्रवत्. १ प्त:. २ धासुरो यातु. ३ संशनं.