पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - शपथ: अयाज्यस्य भवेदृत्विक् बिस अरुन्धत्युवाच - नित्यं परिभवेत् श्वश्रूं भर्तुर्भवतु दुर्मनाः । • एका स्वादु समानातु बिसस्तैन्यं करोति या ॥ ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये । अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या गण्डोवाच- अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु । ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या || साधयित्वा स्वयं प्राशेत् दास्ये जीर्यतु चैव ह | विकर्मणा प्रमीयेत विसस्तैन्यं करोति या ॥ पशुसख उवाच- दास एव प्रजायेतामप्रसूतिरकिञ्चनः । दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ शुन:सख उवाच - अध्वर्यवे दुहितरं वा ददातु छन्दोगे वा चरितब्रह्मचर्ये । आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि ।। ऋषय ऊचु:- इष्टमेतद्विजातीनां योऽयं ते शपथः कृतः । त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख । शुनःसख उवाच- न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः । सत्यमेतन्न मिथ्यैतद्विसस्तैन्यं कृतं मया ॥ मया ह्यन्तर्हितानीह त्रिसानीमानि पश्यत | परीक्षार्थ भगवतां कृतमेवं मयाऽनघाः || रक्षणार्थं च सर्वेषां भवतामहमागतः । यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥ वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः । दुष्टा हिंस्यादियं पापा युष्मान् प्रत्यग्निसंभवा ॥ तस्मादस्म्यागतो विप्रा वासवं मां निबोधत। अलोभादक्षया लोकाः प्राप्ता वै सार्वकामिकाः। उत्तिष्ठध्वमितः क्षिप्रं तानवाद्भुत वै द्विजाः || पुष्कराख्यानम् | 'भीष्म उवाच- अत्रैवोदाहरन्तीममितिहासं पुरातनम् । (१) भा. १३/९४१-५०. ब्य. का. ५५ ४३३ यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु || पुष्करार्थ कृतं स्तैन्यं पुरा भरतसत्तम । राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः || ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त | चराम सर्वा पृथिवीं पुण्यतीर्था ततः कामं हन्त गच्छाम सर्वे ॥ शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथा ह्यगस्त्यो नारदपर्वतौ च । भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् || ऋषिस्तथा गालवोऽथाष्टकञ्च भरद्वाजोऽरुन्धती वालखिल्याः । शिविर्दिलीपो नहुषोऽम्बरीषो राजा ययातिधुन्धुमारोऽथ पूरुः ।। जग्मुः पुरस्कृत्य महानुभावं शतऋतुं वृत्रहणं नरेन्द्राः । तीर्थानि सर्वाणि परिभ्रमन्तो माध्यां ययुः कौशिकीं पुण्यतीर्थाम् ।। सर्वेषु तीर्थववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् | देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः ॥ केचित् बिसान्यवनंस्तत्र राजन् अन्ये मृणालान्यवनंस्तत्र विप्राः । अथापश्यन् पुष्करं ते ह्रियन्तं हृदादगस्त्येन समुद्धृतं तत् || तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करे मे सुजातम् । युष्मान् शङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ शृणोमि कालो हिंसते धर्मवीर्य सोऽयं प्राप्तो वर्तते धर्मपीडा । पुराऽधर्मो वर्तते नेह यावत्तावद् गच्छामः सुरलोकं चिराय || पुरा वेदान् ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृपलान् श्रावयन्ति । पुरा राजा व्यवहारेण धर्मान् पश्यत्यहं परलोकं व्रजामि ॥ पुरावरान् प्रत्यवरान् गरीयसो यावन्नरा नावम॑स्यन्ति सर्वे | तमोत्तरं यावदिदं न वर्तते तावत् व्रजामि परलोकं चिराय || पुरा प्रपश्यामि परेण मर्त्यान् वलीयसा दुर्बलान् भुज्यमानान् । तस्मात् यास्यामि परलोकं चिराय नत्सहे द्रष्टुमिह जीवलोकम् ||