पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ विनैव साक्षिभिः प्रत्ययेऽत्र दोष इति । अभा.६८ (२) प्रत्यग्रचि है: नूतनक्षतादिभिः । असाक्षिप्रत्ययाः उल्कादयः, उल्कादिलिङ्गादयः । नात्र साक्षिमिः प्रयो- जनं, न पूर्वोत्तरवादेन, एतैरेव लिङ्गैर्ग्रहीतव्याः । विनाऽपि साक्षिमिश्चिरेव विगतसंशयाः । पारुष्ये तु ! पारुध्ये तु परीक्षणं कर्तव्यं, न चिह्नमात्रेण ग्रहीतव्यं, परीक्षणं दण्डपारुष्ये कृत्रिमचिह्नविवेकाय परीक्षणं कर्तव्यमित्यर्थः । स्मृच.९५ व्यभिचारादिति । (३) प्रत्यक्षचिह्नः रुधिराक्तखड्गादिभिः । पारुष्ये बाक्पारुष्ये ।

  • व्यचि.७८

(४) उल्काहस्तोऽग्निदो शेयः । गृहं प्रदीप्तं उल्का हस्तश्च समीपे दृश्यते । उल्काहस्तस्य सशङ्कापरत्वात् तेन प्रदीपितमिति गम्यते । तथैव शस्त्रपाणिर्घातक इति । हतश्च दृश्यते, इतरश्च विकोशितायुधो भयस्थाने धनुर्वा समारोपितज्यं, अन्यश्च न कश्चिद् दृश्यते, शस्त्रं च रुधिरदिग्धं तदीयं, स घातकः । शस्त्रग्रहणं प्रदर्शनार्थम् । मृतश्च दृश्यते, समीपे च मनुष्यः, न च प्रतिरौति, न चान्यं दर्शयति, नाचष्टे वा, स गला- गर्त (?) इति गम्यते । केशाकेशिगृहीतः परस्परसंबद्ध इत्यर्थः । असति प्रणये विनापि स्वाम्येन परस्त्रिया , व्यवहारकाण्डम् संबद्धस्य कः प्रसङ्गः । तस्मात् पारदारिक इति परि- च्छिद्यते । कुरिति भूमेराख्या | भूमिं दारयतीति कर्मोपपद- मण् । कपिलादित्वालः । करणसाधनो वा घञ्, बहुल- वचनात् सः । कुद्दाल: पाणौ यस्य स सेतुभेत्ता अन्यश्च न दृश्यते, स च तथाभूतः संनिहितः, प्रत्यग्र भिन्नश्च सेतुर्दृश्यते, कोऽन्योऽत्र भविष्यति भेत्ता । 'सेतुं भेत्ते'ति पाठे तृन् । षष्ठी तत्र प्रतिषिध्यते । नास्ति तत्र शब्दचोद्यम् । ' सेतुभेत्ते'ति पाठे तुचि ' कर्तृकर्मणोः कृति' ( व्यासू. २|३|६५ ) इति कर्मणि पष्ठया भवि- तव्यम् । अथवा नेयं कर्मणि पष्ठी, अपि तु संब न्धपष्ठी । ततश्च समासो भवति, मयूरनुत्तमिति यथा । तत्र सामर्थ्यात्संबन्धः क्रियाकारकसंबन्ध एव विज्ञास्यते । तथा कुठारपाणिस्तु वनछेत्तेति । अभ्यग्रचिह्नं यस्य संबन्धि सोऽभ्यग्रचिह्नः अचिर- निर्वृत्तस्य परशरीरे क्षतस्य वस्त्रपाटनकर्णत्रोटनादौ चिह्नस्यं कर्ता दण्डपारुष्यं करोतीति दण्डपारुष्यकृत् स नरो विज्ञेयः । असाक्षिप्रत्यया एते । अतिक्रान्ता एते

  • ब्यत. व्यचिंवत् ।

नाभा. २।१५२-१५४ (५) समीपग इत्यन्यत्रापि संबध्यते । तच्चाविना- भावापादकविशेषणान्तरोपलक्षणम् । परीक्षणं साक्षिगवे- पणम् । यद्यपि गालिदानादिश्रवणं प्रत्यक्षचिह्नं संभ- वति तथापि प्रथमप्रवृत्त्यादिनिश्चयाय साक्ष्याद्यपेक्षेति ध्येयम् । व्यप्र. १६८ कैश्चित्कृत्वात्मनश्चिह्नं द्वेषात्परमुपद्रवेत् । हेत्वर्थगतिसामर्थ्यस्तत्र युक्तं परीक्षणम् ॥ (१) निगदव्याख्यान श्लोकः । हेतुः कारणं तत्सा- मयेन परीक्षा कर्तव्या । अभा.६८ (२) चिह्नं व्रणादि । युक्तिरर्थापत्तिः | हेतुरनुमानम् । अर्थः प्रयोजनम् | संबन्धः संनिधिः पूर्वकलहो वा । परीक्षणं भूतेन व्यवहारनयनार्थम् । स्मृच. २५ तत्र दण्डपारुष्य इत्यर्थः । नन्विदमनर्थकं वचनम् । 'तलवद् दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योग्नि न खद्योतो हुताशनः ॥ तस्मात्प्रत्यक्षदृष्टेऽपि युक्तम- र्थान् परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान्न धर्मात्परिहीयते' इति || उल्काहस्तादौ सर्वत्र परीक्षणस्य तेनैव विहितत्वात् । सत्यं, तत्रैवोपायविधानार्थी परीक्षणमनूद्यत इत्यदोषः । एवं चौर्यविवादोऽपि कश्चिदसाक्षिप्रत्ययोऽवगन्तव्यः तथा च शङ्खलिखितौ – 'केशाकेशीति । स्मृच. ९५ (३) परीक्षणे कारणं, व्यभिचारमुपायांश्चाचष्टे कश्चिदात्मन एव चिह्नं कृत्वा द्वेषाद् दण्ड्यतामय मित्यधिपं गच्छेत् अनेन कृतमिति । एवमपि संभवात् तत्र युक्तं परीक्षणं, न चिह्नमात्रेण ग्रहणम् । कथं परीक्ष्यम् ? हेत्व र्थगतिसामर्थ्यः | हेतुः गद्गदस्वेदमुखशोषादिः, । अर्थ: क्षतस्याल्पत्वमहत्वादिः, गतिः संभवः, पृष्ठे यदि श्वयथुः स्यात् कथमात्मनः संभव इति, सामर्थ्य बलाबलता, (१) नासं. २/१५५ मुप (ममि); नास्मु.४|१७६; अभा. ६८; स्मृच. २५ द्वेषात् ( दोषात्) हे... : (युक्ति हेत्वर्थ- संबन्धै:) : ९५ हेत्व... ध्येँ : (युक्तिहेत्वर्थसंबन्धैः); सवि.१६० स्मृच. ९५ वत्, हारीतः3 प्रका. ४०-४१ स्मृच९५ वत् : ६१ स्मृच. ९५ वत्, प्रजापतिः; समु. १० स्मृच.९५ वत्.