पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ युतमागमे प्रमाणत्रयाभिधानम् । #स्मृच.७१ भोगागमयोः सहकार्य प्राबल्यदौर्बल्ये त्रिपरूपभक्तिप्रामाण्यं च अंभुक्तिरागमो मोघो भुज्यमाने परैरपि ॥ आगमशब्देनात्र तत्प्रमाणभूतलिखितसाक्षिणायुक्तौ । स्मृच.६९ कृंतागमस्योक्तकाले भुक्तेः स्यात्प्रभुरागमः । तस्यैवात्मतृतीयस्य प्रभुर्भुक्तिः स्फुटागमा ॥ भुक्तिर्या सा चतुर्थस्य प्रमाणं संततागता । परित्यक्तागमा भुक्तिः केवलैव प्रभुर्मता ॥ व्यवहारकाण्डम्

  • पमा वाक्यार्थ: स्मृचवत् ।

(१) स्मृच.६९; प्रका.४५; समु.४७ रपि (रिह). (२) स्मृच. ७५; पमा. १४६ स्यात् (च); प्रका.४८; समु. ४९. (३) स्मृच. ७५; पमा. १४६ गता (मता); प्रका.४८; समु. ४९. कृतागमस्य आगमकर्तुः । उक्तकाले त्रिंशद्वर्षात्मक इत्यर्थः । प्रभुः प्रधानम् । स्फुटागमा प्रमाणपरिच्छिन्ना- गमा । या संततागमा या भुक्तिश्चिरन्तनी चतुर्थादेः प्रमाणं सा परित्यक्तागमनिश्चया प्रभुः सत्वनिर्णय- अमेति द्वितीय श्लोकार्थः । स्मृच.७९ स्वतन्त्रैः प्रेतपितृकैर्भुक्ता या पूर्वजैस्त्रिभिः । भुक्तिस्त्रिपुरुषा ज्ञेया यावज्जीवमनुष्ठिता ॥ इयं च प्रायेणास्मार्तकालोपक्रमभुक्तेरुदाहरणार्थ- मुदिता । तेन भुक्तेरागमप्रमाणत्वे क्रमात् त्रिपुरुषागतत्व- मनुपयोगि, अस्मार्तकालोपक्रमत्वमेवोपयुज्यते । अत एव बृहस्पतिना पुरुषत्रयातिक्रमाभावेऽपि कालत एव भुक्ते- स्त्रिपुरुषत्वमुक्तम् । स्मृच.७१-७२ (१) स्मृच. ७१; प्रका.४६; समु.४८.