पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रदत्ताऽन्यस्य तुष्टेन न सा सिद्धिमवाप्नुयात् ॥ या खल्वन्यस्य भूः क्रोधादिना राज्ञा परभोग्यतया कृता तुष्टया वाऽन्यस्मै दत्ता सा चिरन्तनभोगेनापि न भोक्तः सिध्यतीत्यर्थः। +स्मृच.७४ मरीचिः 'धेनुवाह्यालङ्करणं याचितं प्रीतिकर्मणा । चतुःपञ्चाब्दिकं देयमन्यथा हानिमाप्नुयात् ॥ (१) साक्षिसाध्येष्वपि हानिमाह मरीचिः - धेन्विति । स्मृच.६९ (२) धनस्य दशवार्षिकी हानिरिति यदुक्तं तस्य विषयविशेषे संकोचमाह मरीचिः - धनेति । पमा. १४८ स्मृत्यन्तरम् वर्षाणि पश्र्चत्रिंशत्तु पौरुषो भोग उच्यते ॥ अनिर्दिष्टकर्तृकवचनम् स्नेहप्रत्युपकारेच्छा धर्मापेक्षा तथैव च । उपेक्षाहेतवः प्रोक्ता भुक्तमन्यैर्न हीयते ॥ स्नेहादिहेतुनाऽन्यथासिद्धो भोगो न प्रमाणं, भुक्ते त्रिपुरुषभोगात् शब्देन प्रतिग्रहादिवत् स्वत्वहेतुतया बोधितादन्यस्य भोगस्यार्थापत्तिरूपत्वात् । चन्द्र. १५६ आदानं प्राप्य तस्यां तु प्रायः साक्ष्यं प्रवर्तते (?) ॥ शुक्रनीतिः उपाधिं वा समीक्ष्यैव दैवराजकृतं सदा । विनष्टे लिखिते राजा साक्षिभोगैर्विचारयेत् ॥ लेखसाक्षिविनाशे तु सद्भोगादेव चिन्तयेत् | सद्भोगाभावतः साक्षिलेखतो विमृशेत्सदा ॥ केवलेन च भोगेन लेखेनापि च साक्षिभिः । कार्य न चिन्तयेद् राजा लोकदेशादिधर्मतः || 'स्नेहलोभभयक्रोघैः कूटसाक्षित्वशङ्कया । केवलै: साक्षिभिर्नैव कार्य सिध्यति सर्वदा ॥ अस्वामिकं स्वामिकं वा भुङ्क्ते यद्वलदर्पितः । न्च + सवि. स्मृचवत् । (१) स्मृच. ६९; पमा. १४८ समु. ४७. धेनुवा (धनवा); प्रका. ४५; (२) अप. २१२८) स्मृच. ७२; पमा.१४२; प्रका. ४६ बृहस्पतिः; समु. ४८. (३) चन्द्र. १५६. (४) ब्यसौ.६६. (५) शुनी. ४।७०३-७०५. (६) शुनी. ४।७०७-७१०. मुक्तिः ४२३ इति शङ्कितभोगैर्न कार्य सिध्यति केवलः || शङ्कित व्यवहारेषु शङ्कयेदन्यथा न हि । अन्यथा शङ्कितान्सभ्यान्दण्डयेच्चौरवन्नृपः ॥ अन्यथा शङ्कनान्नित्यमनवस्था प्रजायते । लोको विभिद्यते धर्मो व्यवहारच हीयते ।। अनागमापि या भुक्तिर्विच्छेदोपरवोज्झिता । षष्टिवर्षात्मिका साऽपहर्तुं शक्या न केनचित् || भोग: संक्षेपतञ्चोक्तस्तथा दिव्यमथोच्यते ॥ २ संग्रहकारः भोगनिर्णायकम् मुक्तिप्रसाधने मुख्याः प्रथमं तु कृषीवला: । ग्रामण्यः क्षेत्रसामन्तास्तत्संधापयतः क्रमात् || तत्संधापयतो दीर्घकालादिविशेषणं भुक्तिं चोद्भाव- यत इत्यर्थः । स्मृच.७१ लिखितादित्रय प्रमेयम्

  • लिखितं साक्षिणो भुक्ति: क्रिया क्षेत्रगृहादिषु ।

आगमक्रयदानादौ प्रत्याख्याते चिरन्तने || आगममुद्भावयतस्तु लिखितादित्रयं प्रमाणमित्याह स एव - लिखितमिति । उत्सन्नसत्ताप्रवादे क्रयाद्यागमे प्रत्याख्याते प्रतिवा- दिना निराकृते सति क्षेत्रादिष्वागममुद्भावयतो लिखित- साक्षिभुक्तयः क्रिया प्रमाणमित्यर्थः । ननु गमे भुक्ति: प्रमाणं, अनागममूलाया अपि भुक्तेरपहारादौ दर्शनात् | मैवम् । दीर्घकालादिविशिष्टाया भुक्तेर्मूला - न्तरादर्शने सति आगममूलतैवावसीयते, मन्वादिस्मृते- रिव वेदमूलता । ननु तथापि स्मरणयोग्ये काले भुक्तावुपकान्ताय योग्यानुपलब्ध्या मूलभूतागमाभावनिश्चयात् कथं तत्र भुक्तिबलेनैवागमसिद्धिः १ सत्यं ; अत एव तस्मिन् काले उपक्रान्तायां लिखितसाक्षिभ्यामेवागमोऽध्यवसी- यते । स्मरणयोग्यकाले तूपक्रान्तायां स्वबलेनापीति (१) शुनी. ४।७१६-७१७. (२) शुनी. ४७१९. (३) स्मृच.७१ तु (तत्); पमा. १४१ संघापयतः ( सीमा- पतय:); प्रका.४६ स्मृचवत् समु. ४८. (४) स्मृच.७१३ पमा.१४१ गम (गमे) ने (ना); प्रका ४६, समु. ४४.